अस्यतिवक्तिख्यातिभ्योऽङ्

3-1-52 अस्यतिवक्तिख्यातिभ्यः अङ् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः

Sampurna sutra

Up

अस्यति-वक्ति-ख्यातिभ्यः च्लेः अङ्

Neelesh Sanskrit Brief

Up

असुँ (क्षेपणे), वच्, तथा ख्या - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति ।

Neelesh English Brief

Up

For the verbs असुँ (क्षेपणे), वच्, and ख्या, the च्लि-प्रत्यय is converted to अङ्.

Kashika

Up

<<असु क्षेपणे>> , <<वच परिभाषणे>>, ब्रूञादेशो वा। <<ख्या प्रकथने>> चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुङि परतः। अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। वक्ति — अवोचत्, अवोचताम्, अवोचन्। ख्याति — आख्यत्, आख्यताम्, आख्यन्। कर्तरीति किम्? पर्यासिषातां गावौ वत्सेन॥

Siddhanta Kaumudi

Up

एभ्यश्च्लेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ।<!वर्जने ख्शाञ् नेष्टः !> (वार्तिकम्) ॥ समचक्षिष्टेत्यादि ॥ अथ पृच्यन्ता अनुदात्तेतः- ॥{$ {!1018 ईर!} गतौ कम्पने च$} ॥ ईर्ते । ईरांचक्रे । ईरीता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ।{$ {!1019 ईड!} स्तुतौ$} । ईट्टे ॥

Laghu Siddhanta Kaumudi

Up

एभ्यश्चलेरङ् स्यात्॥

Neelesh Sanskrit Detailed

Up

लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु असुँँ (क्षेपणे), वच् (परिभाषणे), तथा ख्या (प्रकथने) - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । ब्रू-धातोः आर्धधातुकविवक्षायाम् <<ब्रुवो वचि>> 3.4.53 इत्यनेन यः वच्-आदेशः भवति, तस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । तथैव, <<चक्षिङः ख्याञ्>> 2.4.54 इत्यनेन चक्ष्-धातोः यः ख्या-आदेशः भवति, तस्यापि विषये अस्य सूत्रस्य प्रयोगः भवति । 1) अस् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → अस् + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → अस् + अङ् + ल् [<<अस्यतिवक्तिख्यातिभ्यः अङ्>> 3.1.52 इति अङ्-प्रत्ययः] → अस् थुक् + अ + ल् [<<अस्यतेस्थुक्>> 7.4.17 इति थुक्-आगमः] → आट् + अस् + थ् + अ + ल् [<<आडजादीनाम्>> 6.4.72 इति आट्-आगमः] → आस् + थ् + अ + ल् [<<आटश्च>> 6.1.90 इति वृद्धिः] → आस् + थ् + अ + तिप् [<<तिप्तस्...>> 3.4.78 इति तिप्] → आस् + थ् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → आस्थत् 2) ब्रू + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → वच् + लुङ् [<<ब्रुवो वचि>> 3.4.53 इत्यनेन वच्-आदेशः] → वच् + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → वच् + अङ् + ल् [<<अस्यतिवक्तिख्यातिभ्यः अङ्>> 3.1.52 इति अङ्-प्रत्ययः] → व उम् च् + अ + ल् [<<वच उम्>> 7.4.20 इत्यनेन वच्-धातोः उम्-आगमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयमागमः अन्त्यात् अचः पूर्वः आगच्छति] → अट् + व उ च् अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ व उ च् + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' आदेशः] → अवोचत [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 3) ख्या + लुङ् <<ब्रुवो वचि>> 3.4.53 → ख्या + लुङ् [<<ब्रुवो वचि>> 3.4.53 इत्यनेन वच्-आदेशः] → ख्या + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → ख्या + अङ् + ल् [<<अस्यतिवक्तिख्यातिभ्यः अङ्>> 3.1.52 इति अङ्-प्रत्ययः] → ख्य् + अ + ल् [<<आतो लोप इटि च>> 6.4.64 इति आकारलोपः] → अट् + ख्य् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + ख्य् + अ + तिप् [<<तिप्तस्...>> 3.4.78 इति तिप्] → अ + ख्य् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अख्यत्

Balamanorama

Up

<<अस्यतिवक्तिख्यातिभ्यः अङ्>> - अस्यतिवक्ति ।च्लेः सिजित्यतश्च्लेरित्यनुवर्तते । तदाह — एभ्यश्च्लेरिति । अस्यत् अस्यतेति । यत्वपक्षे रूपम् । आल्लोपः । ञित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम् । क्शादेशपक्षे परस्मैपदपक्षे तु आह — अक्शासीदिति । अङ्विधौ ख्यातीति आत्मनेपदे लुङि रूपम् । अक्शासातामित्यादि । अख्यास्यत् अख्यास्यत । अक्सास्यत् । अक्शास्यत । वर्जने क्शाञ् नेष्ट इति । इत्येतत्पर्यन्ता इत्यर्थः । ईर्गसाविति । सेट् । ईर्ते इति । ईराते ईरते । ईर्षे ईराधेईर्ध्वे । ईरे ईर्वहे ईर्महे । ईराथामित्यपि ज्ञेयम् । ईध्र्वमिति । ई रै ईरावहै ईरामहै । ऐर्त ऐराताम् ऐरत । ऐर्याः ऐराथाम् ऐध्र्वम् । ऐरि ऐर्वहि ऐर्महि । ईरीत । ईरिषीष्ठ । ऐरिष्ठ । ऐरिष्यत । ईड स्तुतौ । ईद्वे इति । तकारस्य ष्टुत्वेन टः, जस्य चर्त्वेन ट इति भावः । ईडाते ईडते । ईड्-से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते —

Padamanjari

Up

अस्यतिवक्तिख्यातिभ्योऽङ्॥ ब्रूञादेशो वेति। वाशब्दः समुच्चये। एवमुतरत्रापि। पुषादित्वादेव सिद्ध इति। परस्मैपदेषु। पर्यास्थतेति। ठुपसर्गादस्यत्यूह्यएर्वावचनम्ऽ इत्यात्मनेपदेऽइङ् ठस्यतेस्थुक्ऽ। अवोचदिति।'वच उम्' । आख्यदिति। ठातो लोप इटि चऽ॥