7-4-20 वचः उम् अङि
index: 7.4.20 sutra: वच उम्
वचेः अङ्गस्य अङि परतः उमागमो भवति। अवोचत्, अवोचताम्, अवोचन्।
index: 7.4.20 sutra: वच उम्
अङि परे । अवोचत् । अवोचत ॥ अथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ।{$ {!1045 इण्!} गतौ$} । एति । इतः ॥
index: 7.4.20 sutra: वच उम्
अङि परे। अवोचत्, अवोचत। अवक्ष्यत्, अवक्ष्य । <=चर्करीतं च=> (गणसूत्रम्) । चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्॥ {$ {! 25 ऊर्णुञ् !} आच्छादने $} ॥
index: 7.4.20 sutra: वच उम्
वच उम् - वच उम् । शेषपूरणेन सूत्रं व्याचष्टे - अङि परे इति ।ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादचः परः । आद्गुणः । तदाह — अवोचदिति । अवक्ष्यत् अवक्ष्यत । इङ् त्विति । 'इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण्गताविति ।इणो य॑णित्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्गुणः । इत इति । अपित्त्वेन ङित्त्वान्न गुणः । इ — अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते -