अस्यतेस्थुक्

7-4-17 अस्यतेः थुक् अङि

Kashika

Up

index: 7.4.17 sutra: अस्यतेस्थुक्


अस्यतेरङ्गस्य थुगागमो भवति अङि परतः। आस्थत्, आस्थताम्, आस्थन्।

Siddhanta Kaumudi

Up

index: 7.4.17 sutra: अस्यतेस्थुक्


अहि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्ति - <{SK2438}> इति वचनं तङर्थम् । तङ् तु उपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत ।{$ {!1210 यसु!} प्रयत्ने$} ॥

Balamanorama

Up

index: 7.4.17 sutra: अस्यतेस्थुक्


अस्यतेस्थुक् - अस्यतेस्थुक् । शेषं पूरयति — अङि परे इति ।ऋदृशोऽङी॑त्यतस्तदनुवृत्तेरिति भावः । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादस्धातोरन्तत्यावयवः । ननु पुषादित्वादेवाऽस्यतेश्च्लेरङि सिद्धेअस्यतिवक्तिख्यातिब्योऽङित्यत्राऽस्यतिग्रहणं व्यर्थमित्याशङ्क्य निराकरोति — अस्य पुषादित्वादित । तङर्थमिति ।पर्यास्थते॑त्यत्र आत्मनेपदेऽङर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनपदे अप्रसक्तेरिति भावः । नन्वस्यतेः केवलपरस्मैपदित्वादात्मनपदं दुर्लभमित्यत आह — तङ् तु उपसर्गादिति वक्ष्यते इति ।पदव्यवस्थाया॑मिति शेषः । यसु प्रयत्ने ।

Padamanjari

Up

index: 7.4.17 sutra: अस्यतेस्थुक्


आस्थदिति । ठस्यतिवक्तिख्यातिभ्योऽङ्ऽ ॥