लिपिसिचिह्वश्च

3-1-53 लिपिसिचिह्वः च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः अङ्

Sampurna sutra

Up

लिपि-सिचि-ह्वः च्लेः अङ्

Neelesh Sanskrit Brief

Up

लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति ।

Neelesh English Brief

Up

For the verb roots लिप् , सिच् and ह्वे , the च्लि-प्रत्यय is converted to अङ्.

Kashika

Up

<<लिप उपदेहे>> , <<षिच क्षरणे>>, <<ह्वेञ् स्पर्धायाम्>> एतेभ्यश्च परस्य च्लेरङादेशो भवति। अलिपत्। असिचत्। आह्वत्। पृथग्योग उत्तरार्थः॥

Siddhanta Kaumudi

Up

एभ्यश्च्लेरङ् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

एभ्यश्च्लेरङ् स्यात्। असिचत्॥

Neelesh Sanskrit Detailed

Up

लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः भवति । यथा 1) लिप् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → लिप् + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → लिप् + अङ् + ल् [<<लिपिसिचिह्वश्च>> 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + लिप् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + लिप् + अ + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ + लिप् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अलिपत् 2) षिच् (क्षरणे) → सिच् [<<धात्वादे षः सः>> 6.1.64 इति षकारस्य सकारादेशः] → सिच् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → सिच् + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → सिच् + अङ् + ल् [<<लिपिसिचिह्वश्च>> 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + सिच् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + सिच् + अ + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ + सिच् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → असिचत् 3) ह्वेञ् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → ह्वे + + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → ह्वे + अङ् + ल् [<<लिपिसिचिह्वश्च>> 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः] → ह्वा + अ + ल् [<<आदेश उपदेशेऽशिति>> 6.1.45 इति आकारादेशः] → ह्व् + अ + ल् [<<आतो लोप इटि च>> 6.4.64 इति आकारलोपः] → अट् + ह्व् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + ह्व् + अ + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ + ह्व् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अह्वत् ज्ञातव्यम् - लिप्, षिच्, तथा ह्वेञ् एते त्रयः धातवः उभयपदिनः सन्ति । वर्तमानसूत्रेण एतेभ्यः परस्य च्लि-प्रत्ययस्य अङ्-आदेशः द्वयोः अपि पदयोः भवति । परन्तु आत्मनेपदस्य विषये <<आत्मनेपदेष्वन्यतस्याम्>> 3.1.53 इत्यनेन अयमादेशः केवलं विकल्पेनैव भवति ।

Balamanorama

Up

<<लिपिसिचिह्वश्च>> - लिपिसिचि । लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।च्लेः सि॑जित्यतश्च्लेरिति,अस्यतवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । तदाह — एभ्य इति । इदं परस्मैपदविषयम्, आत्मनेपदे विकल्पविधानात् । तदाह —

Padamanjari

Up

लिपिसिचिह्वश्च॥ लिपिसिचिसहितो ह्वा - इति'मयूरव्यंसकादयः' इति समासः। समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वं स्यात्, इतरेतरयोगे बहुवचनम्। ङ्सौ ठातो धातोःऽ इत्याकारलोपः। योगविभाग उतरार्थ इति। ठस्यतिवक्तिख्यातिलिपिसिचिह्वःऽ इत्येकयोगे त्वस्यादीनामप्युतरत्रानुवृत्तिः स्यात्, ततश्च तेभ्योऽप्यात्मनेपदे विकल्पः स्यात्॥