3-4-53 द्वितीयायां च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् परीप्सायाम्
परीप्सायामित्येव। द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोर्णमुल् प्रत्ययो भवति। यष्टिग्राहं युध्यन्ते। यष्टिं ग्राहम्। लोष्टग्राहम्। लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणमपि नाद्रियते। लोष्टादिकं यत् किञ्चिदासन्नम्, तद् गृह्णाति॥
परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥