नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः

3-1-51 न ऊनयतिध्वनयत्येलयत्यर्दयतिभ्यः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चङ् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<ऊन परिहाणे>>, <<ध्वन शब्दे>>, <<इल प्रेरणे>> , <<अर्द गतौ याचने च>> एतेभ्यो धातुभ्यो ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति। काम॑मूनयीः (ऋ० १.५.३.३)। औनिन इति भाषायाम्। मा त्वा॒ग्निर्ध्व॑नयीत् (ऋ० १.१६२.१५)। अदिध्वनदिति भाषायाम्। काम॑मैलयीत्। ऐलिलदिति भाषायाम्। मैनमर्दयीत्। आर्दिददिति भाषायाम्॥

Siddhanta Kaumudi

Up

च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः (मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः । मा त्वाग्निर्ध्वनयीत् (मा त्वा॒ग्निर्ध्व॑नयीत्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः॥ अर्द्द गतौ याचने चेति। ठर्द्द हिंसायाम्ऽ इत्यस्यापि ग्रहणम्, यदिच्छन्दसि दर्शनमस्ति। एतेभ्य इति। तत्रोनयतिश्चुरादिः,ध्वनिरपि'गर्व माने इति प्रागेतस्माददन्ताः' इत्यधिकारे चुरादिः पठितः, घटादौ चापि पठ।ल्ते। एलयतिश्चुरादिः, अर्द्दयतिर्हेतुमण्ण्यन्तः। पूर्वेणेति।'णिश्रि' इत्यादिना। ऊनयीरिति। मध्यमपुरुषैकवचनम्, पूर्ववद्वृद्धौ प्रतिषिद्धायां गुणः,'न माङ्योगे' इत्याडागमप्रतिषेधः। मा त्वायतो जरितुः काममूनयीः - इदं प्रतिसव्यस्य ऋषेर्वचनम्। त्वायतःऊत्वामिच्छतः, जरितुःऊस्तोतुर्मम, काममुअभिलाषं मा ऊनयीःऊउनं मा कार्षीरित्यर्थः। प्रायेण तु तिबन्तं पठ।ल्ते, कृताडागमं च, तदन्यत्र द्रष्टव्यम्। औनिन इति। सिपि चैङ् ठजादेर्द्धितीयस्यऽ इति नशब्दस्य द्विर्वचनम्। प्रायेण तूदाहरणवदिदमपि तिबन्तं पठ।ल्ते। ध्वनयीदिति। तिप्,'न माङ्योगे' इत्यडागमप्रतिषेधः। आर्द्दिददिति। ठजादेर्द्वितीयस्यऽ'न न्द्राः संयोगादयः' इति दशब्दस्य द्विर्वचनम्॥