कारके
1-4-23 कारके आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
अधिकारसूत्रं संज्ञासूत्रं च इदम् । इतः परम् <<तत्प्रयोजको हेतुश्च>> 1.4.55 इति सूत्रपर्यन्तं कारकसंज्ञकाः पाठ्यन्ते ।
Kashika
Up
कारक इति विशेषणमपादानादिसंज्ञाविषयमधिक्रियते। कारक इत्यधिकारो वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामः कारक इत्येवं तद् वेदितव्यम्। कारकशब्दश्च निमित्तपर्यायः। कारकं हेतुरित्यनर्थान्तरम्। कस्य हेतुः? क्रियायाः। वक्ष्यति — <<ध्रुवमपायेऽपादानम्>> १.४.२४ — ग्रामादागच्छति। पर्वतादवरोहति। कारक इति किम्? वृक्षस्य पर्णं पतति। कुड्यस्य पिण्डः पतति। <<अकथितं च>> १.४.५१ — अकथितं च कारकं कर्मसंज्ञं भवति। माणवकं पन्थानं पृच्छति। कारक इति किम्? माणवकस्य पितरं पन्थानं पृच्छति। कारकसंशब्दनेषु चानेनैव विशेषणेन व्यवहारो विज्ञायते॥
Siddhanta Kaumudi
Up
इत्यधिकृत्य ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
इदम् संज्ञासूत्रम् अस्ति । अनेन सूत्रेण कारकम् इति व्याकरणविशिष्टा संज्ञा दीयते । किञ्च, इदम् अधिकारसूत्रम् अपि अस्ति । अस्य सूत्रस्य अधिकारः <<तत्प्रयोजको हेतुश्च>> 1.4.55 इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाणि अपि सूत्राणि संज्ञासूत्राणि सन्ति । एतैः सूत्रैः आहत्य - अपादानम्, सम्प्रदानम्, करणम्, अधिकरणम्, कर्म, तथा च कर्ता - एताः षट् संज्ञाः पाठ्यन्ते । तत्र सूत्राणां विभाजनम् एतादृशम् -
1. <<ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यतः <<भुवः प्रभवः>> 1.4.31 इत्येतैः सूत्रैः अपादानम् इति संज्ञा दीयते ।
2. <<कर्मणा यमभिप्रैति स सम्प्रदानम्>> 1.4.32 इत्यतः <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः>> 1.4.37, तथा च तदनन्तरं <<राधीक्ष्योर्यस्य विप्रश्नः>> 1.4.39 इत्यतः <<अनुप्रतिगृणश्च>> 1.4.41, अपि च <<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> 1.4.44 इत्येतैः सूत्रैः सम्प्रदानम् इति संज्ञा दीयते ।
3. <<साधकतमं करणम्>> 1.4.42 इत्यतः <<परिक्रयणे सम्प्रदानमन्यतरस्याम्>> 1.4.44 इत्येतैः सूत्रैः करणम् इति संज्ञा दीयते ।
4. <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन सूत्रेण अधिकरणम् इति संज्ञा दीयते ।
5. <<क्रुधद्रुहोरुपसृष्टयोः कर्म >> 1.4.38, <<दिवः कर्म च>> 1.4.43 तथा च <<अधिशीङ्स्थाऽऽसां कर्म >> 1.4.46 इत्यतः <<हृक्रोरन्यतरस्याम् >> 1.4.53 इत्येतैः सूत्रैः कर्म इति संज्ञा दीयते ।
6. <<स्वतन्त्रः कर्ता>> 1.4.54 तथा च <<तत्प्रयोजको हेतुश्च>> 1.4.55 इत्येताभ्यां सूत्राभ्याम् कर्ता इति संज्ञा दीयते ।
"कारकम्" इत्यस्य व्याख्या
कारकम् इति शब्दस्य व्याख्या सामान्यरूपेण क्रियान्वयि कारकम्, अथवा क्रियाजनकं कारकम् इति क्रियते । क्रियां कर्तुं ये ये पदार्थाः आवश्यकाः, ते सर्वेऽपि कारकसंज्ञकाः भवन्ति इति अस्याः व्याख्यायाः आशयः । यथा, देवदत्तः महानसे स्थाल्यां अग्निना ओदनं पचति अस्मिन् वाक्ये वर्णितायाः पचनक्रियायाः कृते - देवदत्तः, ओदनम्, अग्निः, महानसः, स्थाली - एते सर्वेऽपि पदार्थाः आवश्यकाः, अतः एतेषां सर्वेषाम् अपि पदार्थानाम् पचनक्रियायाः संदर्भेण कारकम् इति संज्ञा भवति । अनेन प्रकारेण कारकम् इति पदार्थानां संज्ञा अस्ति इति स्मर्तव्यम् । एतेषाम् एव अग्रे अपादानादयः पृथक् संज्ञाः दीयन्ते । यथा, देवदत्तः महानसे स्थाल्यां अग्निना ओदनं पचति इत्यत्र देवदत्तपदार्थस्य कर्तृसंज्ञा भवति, महानसपदार्थस्य स्थालीपदार्थस्य च अधिकरणसंज्ञा भवति, अग्निपदार्थस्य करणसंज्ञा भवति, ओदनपदार्थस्य च कर्मसंज्ञा भवति ।
किञ्च, वाक्यपदीये तृतीये काण्डे साधनसमुद्देशे भर्तृहरिणा कारकस्य व्याख्या पदार्थेषु विद्यमाना शक्तिः इति कृता वर्तते । यथा, वृक्षात् पर्णं पतति अस्मिन् वाक्ये वृक्षपदार्थे अपादानशक्तिः आविर्भवति, येन वृक्षपदार्थस्य अपि अपादानसंज्ञा भवति । एवमेव, देवदत्तः कटे उपविशति इत्यत्र कटपदार्थे अधिकरणशक्तिः प्रकटति, येन कटपदार्थस्य अधिकरणसंज्ञा भवति । अनेन प्रकारेण - पदार्थः, तथा च तस्मिन् विद्यमाना शक्तिः - द्वयोः अपि कारकसंज्ञा सम्भवति ।
कारकम् तथा विभक्तिः एतयोर्मध्ये भेदः
कारकम् इति पदार्थेषु विद्यमाना शक्तेः नाम इति अस्माभिः दृृष्टम् । इमां शक्तिं शब्देन दर्शयितुम् विभक्तिप्रत्ययस्य प्रयोगः क्रियते । यथा, वृक्षात् पर्णं पतति इत्यत्र वृक्षपदार्थे विद्यमानायाः शक्तेः शब्दैः प्रकटीकरणार्थम् वृक्षशब्दात् <<अपादाने पञ्चमी>> 2.3.28 इति सूत्रेण पञ्चमीविभक्तेः प्रत्ययः प्रयुज्यते । एवमेव देवदत्तः कटे उपविशति इत्यत्र कटपदार्थे विद्यमानायाः अधिकरणशक्तेः निर्देशार्थम् <<सप्तम्यधिकरणे च>> 2.3.36 अस्य सूत्रस्य आधारेण सप्तमीविभक्तेः प्रयोगः क्रियते । एतादृशम् सर्वेषाम् अपि कारकाणाम् शब्दैः प्रकटीकरणार्थम् भिन्नानां विभक्तिप्रत्ययानां उपयोगः भवति । कस्य कारकस्य कृते कः विभक्तिप्रत्ययः प्रयोक्तव्यः - इत्यस्य सूत्राणि <<अनभिहिते>> 2.3.1 अस्मिन् अधिकारे पाठितानि सन्ति ।
##Balamanorama
##Padamanjari
अधिकारोऽनेकप्रकारः। संज्ञा, विशेषणम्, स्थानी, प्रकृतिः, निमितम्, आदेश इति।'प्रत्ययः' ,'शेषे' ,'पूर्वपरयोः' 'ङ्याप्प्रातिदिकात्' 'धातोः' ठार्द्धधातुके मूर्द्धन्यःऽ इति तदिह विधेयानिर्देशात् स्वरितत्वाच्चाधिकारत्वे स्थिते प्रकारमाह-कारक इति विशेषण॥ंअधिक्रियत इति। न तावत्सञ्ज्ञात्वेनाधिकारः; सञ्ज्ञाया भाव्यमानत्वात्सप्तम्यनुपपतेः। अथ सञ्ज्ञानुरूपः प्रथमानिर्देश एव कस्मान्न कृतः, युक्तं चैतद् कारकसंशब्दनेषु वक्ष्यमाणानामपादानादीनामेव षण्णां ग्रहणस्येष्टत्वाद्; अन्यथा नटस्य श्टणोतीति कारकशेषस्यापि प्रसङ्गात्? उच्यते; सञ्ज्ञापक्षे - अपाये यद् ध्रुवं तत् कारकसञ्ज्ञं भवति, अपादानसञ्ज्ञं चेत्ययमर्थो भवति, एवमन्यत्रापि; ततश्च कारकापादानसञ्ज्ञयोर्युगपद्विधानात् परस्परं निमितनिमितिभावाभावादकारकस्यापि व्यापारशून्यस्यापादानसञ्ज्ञा प्राप्नोति। विशेषणाधिकारे तु-कारकेषु मध्ये यदपाये ध्रुवं सा न प्राप्नोति। अतो विशेषणानुरूप एव निर्देशः कृतः, न तु सञ्ज्ञानुरूपः। कारकसञ्ज्ञा त्वन्वर्थत्वाद् व्यापारशून्यस्य न भवति। किं च कारकसंज्ञाया अपादानादिसञ्ज्ञाभिः समावेशो न प्राप्नोति, ततश्चठ्स्तम्बेरमःऽ इत्यत्र सप्तम्यां श्रुयमाणायां गतिकारकोपपदादिति स्वरो न स्यात्,'कारके' इति निर्धारणे सप्तमी, सामान्यापोक्षं चैकवचनम्। कारकशब्दोऽयमस्ति ण्वुलन्तः-करोतीति कारकमिति, अस्त्यव्यत्पन्नः सञ्ज्ञाशब्दो निमितपर्यायः; तत्र पूर्वस्य ग्रहणेऽपादानादिषु कारकशब्दो न प्रवर्तोत, यथा कर्तृशब्दः, तेषामस्वतन्त्रत्वात्; स्वातन्त्र्ये वा पक्षे कर्तृसञ्ज्ञा प्रसज्येत, नैष दोषः; सर्वमेव खलु कारकं यथायथमवान्तरव्यापारं निर्वर्तयत् प्रधानक्रियायामुपयुज्यते, सा च सकलकारकजन्या फलभूता विक्लित्यादिरूपा क्रिया प्रधानक्रिया। यद्वा-सामान्यभूता क्रिया प्रधानक्रिया फलजनना नाम, सर्वाणि हि कारकाणि फलजननाय प्रवर्तन्ते, अतो यद्यत्फलजननारूपं तत्सर्वेष्वेव कारकेष्वविशिष्टम्। किञ्चित्खलु कारकं केनचिदेव रूपेण फलं जनयतीति फलजनना सर्वेषामभिन्नरूपा। अवान्तरभेदविवक्षायां तु करणादिरूपोन्मेषः। न च वैशेषिकाणामिवास्माकमेका क्रिया नानेकत्र समवेता, धात्वर्थो हि क्रिया, न परिस्पन्द एव। धातुना च सकलकारकानुयाय्योदनादिफलावच्छेदेन एकीकृतो व्यापारोऽभिधीयते। तस्यामेकस्यां प्रधानक्रियायामुपयोगो यथायथमवान्तरव्यापारमुखेन, तद्यथा-अपादानस्यावधिभावोपगमनं व्यापारः, सम्प्रदानस्यतु प्रेरणानुमत्यनिराकरणादिः, करणस्य काष्ठादेर्ज्वलनादिः, अधिकरणस्य सम्भवनधारणादिः, कमंणो निर्वृत्यादिः, कर्तुः प्रसिद्ध एव, प्रयोजकस्य प्रेषणादिः। न चैवं सति करणादीनामपि कर्तृसञ्ज्ञाप्रसङ्गः, परतन्त्रत्वत्। प्रधानेन हि कर्त्रा समवाये करणादीनि परतन्त्राणि, व्यवाये स्वतन्त्राणि;तद्यथा-अमात्यानां राज्ञा सह समवाये पारतन्त्रम्, व्यवाये स्वातन्त्र्यम्। यद्येवम्, कारकव्यपदेशोऽपि करणाद्यवस्थायां न स्यात्? करणम् कारकमिति अधिकारसामर्थ्यात्। कारकशब्दोपनीतस्वातन्त्र्यमवस्थान्तरगतं विज्ञास्यते। अवस्थान्तरे यत् स्वतन्त्रं तत्साधकतमं करणमिति कर्तुंरेव त्वेकस्य सांप्रतिकं स्वातन्त्र्यम्, तच्च कर्तृसञ्ज्ञाङ्गतया चोदितम्। यदि तर्हि व्युत्पत्तिपक्षेऽप्यवस्थान्तरगतमेव स्वातन्त्र्यम्, एवं तर्हि करणाद्यवस्थायां निमितभाव एवाभ्युपगतो भवति? यद्येवम्, किं दोषप्रतिविधानव्यसनेन। निमितपर्यायस्यैव ग्रहणमस्त्विति मन्यमान आह- कारकशब्दश्चेति। कस्य हेतुरिति। द्रव्यगुणविषयोऽपि हेतुः कारकं प्राप्तमित्यभिप्रायः। कारकशब्दोऽयं क्रियाहेतावेव प्रसिद्ध इत्याह-क्रियाया इति। अनाश्रितव्यापारं निमितं हेतुः, आश्रितव्यापारं कारकम्, उक्तं च - द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरिष्यते॥ इति च। कथं तर्हि पूर्वमुक्तम्-अनर्थान्तरमिति, न हि सामान्यविशेषवचनानामनर्थान्तरवाचित्वम्? सत्यम्; सामान्यशब्दयोरपि अर्थप्रकरणादिना विशेषवृत्तिमभिप्रेत्य तु तथोक्तम्। वृक्षस्य पर्णं पततीति। पर्णविशेषणत्वेनात्र वृक्षो विवक्षितः, न त्वपायस्य निमितत्वेनेत्यपादानसंज्ञा न भवति, न वापायस्याविवक्षितत्वात्। सति ह्यवधौ गतिरपायो भवति, नान्यथा। न चात्र वृक्षोऽवधित्वेन विवक्षितः। तथा हि - वृक्षमजहत्यपि पर्णे वृक्षस्य पर्णं पततीति भवति प्रयोगो यदा वृक्षः च्छिन्नः पततीति, सत्यम्; अत एवास्मिन्नतृप्तः सन्नाह - माणवकस्य पितरमिति। अत्र पितुः सम्बन्धित्वेन माणवको विवक्षितः, न तु प्रश्नक्रियां प्रति निमितत्वेनेति कर्मसंज्ञा न भवति; असति तु कारकाधिकारे तस्यापि स्यात्। शेषलक्षणा तु षष्ठी अकथिते दुह्यादिपरिगणनाद्राज्ञः पुरुष इत्यादौ सावकाशा। यदि तर्हि विशेषणमिदम्, ध्रुवादीनां न संज्ञा,'कारकद्दतश्रुतयोरेवाशिषि' - इत्यादौ यत्र कारकशब्दः संशब्द्यते तत्रापादानादीनां वक्ष्यमाणानां पण्णामेव ग्रहणमिष्यते, तन्न सिद्ध्यति। संज्ञापक्षे तु न दोषः, संज्ञा ह्यावर्तमाना संज्ञिनं प्रत्यायति। स्यादेतत्-प्रदेशेष्वपि क्रियानिमित्तपर्यायस्य कारकशब्दस्योपादानम्, तच्च निमितमपादानाद्येवेति, तदसत्; नटस्य श्टणोतीत्यादौ कारकशेषस्य आह-कारकसंशब्दनेषु चेति। कारकग्रहणं प्रदेशेषु स्वर्यते, स्वरितेनाधिकारावगतिर्भवतीति भावः॥