ध्रुवमपायेऽपादानम्
1-4-24 ध्रुवम् अपाये अपादानम् आ कडारात् एका सञ्ज्ञा कारके
Sampurna sutra
Up
अपाये ध्रुवम् कारकम् अपादानम्
Neelesh Sanskrit Brief
Up
"एकस्मात् पदार्थात् अपरस्य पदार्थस्य पृथक्करणम्" अस्यां क्रियायाम् "यस्मात्" पृथक्करणं भवति, तत् कारकम् अपादानसंज्ञं भवति । यथा - वृक्षात् पर्णं पतति ।
Kashika
Up
ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत् कारकमपादानसंज्ञं भवति। ग्रामादागच्छति। पर्वतादवरोहति। सार्थाद् धीनः। रथात् पतितः॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्॥ अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः — <<अपादाने पञ्चमी>> २.३.२८ इत्येवमादयः॥
Siddhanta Kaumudi
Up
अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥
Laghu Siddhanta Kaumudi
Up
अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमम् सूत्रम् । यस्यां क्रियायां अपायः (= विश्लेषः / पृथक्करणम् / separation) विद्यते, तस्यां क्रियायाम् यद् अवधिभूतम् अस्ति, इत्युक्ते यः पदार्थः पृथक्करणस्य सीमां दर्शयति (यस्मात् पदार्थात् अन्यस्य पदार्थस्य अपायः जायते इत्याशयः), सः पदार्थः अपादानम् इति संज्ञां प्राप्नोति । यथा -
1. वृक्षात् पर्णं पतति इति क्रियायाम् "पर्णस्य वृक्षात् पृथक्करणं" भवति । अत्र वृक्षपदार्थः अवधिभूतः, अतः अत्र वृक्षपदार्थस्य अपादानसंज्ञा भवति ।
2. देवदत्तः धावतः अश्वात् पतति इति क्रियायाम् "देवदत्तस्य अश्वात् पृथक्करणं" भवति । अत्र अश्वपदार्थः अवधिभूतः, अतः अत्र अश्वपदार्थस्य अपादानसंज्ञा भवति ।
3. देवदत्तः ग्रामात् निर्गच्छति इति क्रियायाम् "देवदत्तस्य ग्रामात् पृथक्करणं" भवति । अत्र ग्रामपदार्थः अवधिभूतः, अतः अत्र ग्रामपदार्थस्य अपादानसंज्ञा भवति ।
4. कपिः पर्वताद् अवरोहति इति क्रियायाम् "कपेः पर्वतात् पृथक्करणं" भवति । अत्र पर्वतपदार्थः अवधिभूतः, अतः अत्र पर्वतपदार्थस्य अपादानसंज्ञा भवति ।
5. देवदत्तः सार्थात् हीनः इति क्रियायाम् "देवदत्तस्य सार्थात् (= समूहात्) पृथक्करणं" भवति । अत्र सार्थपदार्थः (समूहपदार्थः) अवधिभूतः, अतः अत्र सार्थपदार्थस्य अपादानसंज्ञा भवति ।
ध्रुवम् इति शब्दस्य अर्थः
सूत्रे प्रयुक्तस्य ध्रुवम् इति शब्दस्य अर्थः यद्यपि कोशेषु "स्थिरः" इति सामान्यरूपेण दीयते, तथापि अत्र अस्य शब्दस्य अर्थः अवधिभूतः इति स्वीक्रियते । यदि "ध्रुवम्" इत्यस्य अर्थः "स्थिरः" इति स्वीक्रियेत, तर्हि देवदत्तः धावतः अश्वात् पतति अस्मिन् वाक्ये अश्वपदार्थस्य स्थिरत्व-अभावात् अपादानसंज्ञा नैव स्यात् । परन्तु अत्रापि अपादानसंज्ञा अवश्यम् इष्यते, अतः अत्र "ध्रुवम्" इति शब्दस्य अर्थः सः पदार्थः यः पृथक्करणस्य सीमां प्रदर्शयति इति स्वीक्रियते ।
वस्तुतस्तु, ध्रुवम् इत्यस्य अर्थः स्थिरः इत्येव स्वीक्रियते चेदपि अत्र न कश्चन दोषः, यतः "स्थिरत्वम्" केवलम् "पृथक्करणस्य सन्दर्भेण" अस्ति, अन्यक्रियायाः सन्दर्भेण न । यथा, देवदत्तः धावतः अश्वात् पतति इत्यत्र यद्यपि धावनक्रियानुरोधेन अश्वस्य स्थिरत्वं नास्ति, तथापि पतनक्रियानुरोधेन तस्य स्थिरत्वमेव स्वीक्रियते, यतः अत्र अश्वः स्वयं नैव पतति । अतएव बालमनोरमाकारः ब्रूते - द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृश-चलन-अनाश्रयभूतम् ध्रुवम् । द्वौ पदार्थौ, यौ आदौ संयुक्तौ स्तः (यथा - वृक्षः पर्णं च), ताभ्याम् यदा एकः पदार्थः (पर्णम्) अन्यस्य (वृक्षस्य) अपेक्षया चलनं प्रारभते तदा तत्र विश्लेषः अस्ति इति उच्यते । अस्मिन् विश्लेषे द्वितीयः पदार्थः (वृक्षः) तु प्रथमस्य (पर्णस्य) अपेक्षया स्थिरः एव अस्ति । अयमेव विषयः ध्रुवम् इति शब्देन निर्दिष्टः वर्तते - इति अत्र बालमनोरमाकारस्य आशयः अस्ति ।
वार्त्तिकम् -
अस्मिन् सूत्रे भाष्ये, काशिकायां च इति वार्त्तिकं पाठ्यते । जुगुप्सा (घृणा, निन्दा), विरामः (परावृत्तिः), तथा च प्रमादः (कर्तव्यविस्मरणम्) - एतेषाम् अर्थानाम् सन्दर्भेण अपि अपादानं भवति - इति अस्य वार्त्तिकस्य आशयः । क्रमेण स्पष्टीकरणम् एतादृशम् -
1. जुगुप्सा - जुगुप्सा इत्युक्ते निन्दा, घृणा । यस्य पदार्थस्य विषये निन्दा प्राकट्यते, तस्य अपादानसंज्ञा भवति । यथा - पापात् जुगुप्सति । पापस्य निन्दां करोति इत्यर्थः । एवमेव, पापात् बीभत्सते । अत्र द्वयोः अपि उदाहरणयोः पापपदार्थस्य अपादानसंज्ञा भवति ।
2. विरामः - विरामः इत्युक्ते कस्माच्चित् पदार्थात् चित्तनिवृत्तिः । यस्मात् पदार्थात् चित्तनिवृत्तिः भवति, तस्य अपादानसंज्ञा भवति । यथा - पापात् विरमति । पापस्य चिन्तनं न करोति इत्याशयः । एवमेव, पापात् निवर्तते । उभयत्र पापपदार्थस्य अपादानसंज्ञा जायते ।
3. प्रमादः - प्रमादः इत्युक्ते स्वकर्तव्यात् विमोहः / परावृत्तिः । यस्मात् पदार्थात् एतादृशी परावृत्तिः भवति, तस्य अपादानसंज्ञा भवति । यथा - धर्मात् प्रमाद्यति । स्वधर्मस्य पालनं न करोति इत्याशयः । एवमेव धर्मात् मुह्यति । उभयत्र धर्मशब्दस्य अपादानसंज्ञा भवति ।
अपादानस्य निर्देशार्थम् पञ्चम्याः प्रयोगः
विभक्तिप्रकरणे <<अपादाने पञ्चमी>> 2.3.28 इति सूत्रं पाठ्यते । यस्मिन् पदार्थे अपादानशक्तिः विद्यते, तस्य पदार्थस्य शब्देन निर्देशार्थम् पञ्चमीविभक्तेः प्रयोगः भवति - इति अस्य सूत्रस्य आशयः । यथा, वृक्षात् पर्णं पतति इत्यत्र वृक्षपदार्थे विद्यमानाम् अपादानशक्तिं दर्शयितुम् वृक्षशब्दात् पञ्चमीविभक्तेः प्रत्ययस्य प्रयोगः कृतः अस्ति ।
अपादानस्य त्रयः भेदाः
वाक्यपदीये साधनसमुद्देशे भर्तृहरिणा अपादानस्य त्रयः भेदाः उक्ताः सन्ति -
निर्दिष्टविषयं किंचिदुपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥ (वाक्यपदीये 3.7.136)
अपादानं त्रिविधम् अस्ति - (अ) निर्दिष्टविषयम् अपादानम्, (आ) उपात्तविषयम् अपादानम्, तथा च (इ) अपेक्षितक्रियम् अपादानम् । एतानि त्रीणि अपि अपादानानि प्रकृतसूत्रेणैव सिद्ध्यन्ति । एतेषाम् अर्थाः, उदाहरणानि च एतादृशानि -
1. निर्दिष्टविषयम् अपादानम्
यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः दृश्यते, तत् अपादानम् निर्दिष्टविषयम् अपादानम् इत्युच्यते । यथा - वृक्षात् पर्णं पतति, ग्रामाद् आगच्छति, पर्वताद् अवरोहति - इत्यादिकम् ।
2. उपात्तविषयम् अपादानम्
उपात्तम् इत्युक्ते कथञ्चित् प्राप्तम् । यत्र अपायस्य साक्षात् (प्रत्यक्षरूपेण) निर्देशः न वर्तते, परन्तु अन्यस्यां कस्यांश्चित् क्रियायाम् "अपायः" गर्भितः अस्ति (इत्युक्ते तस्याः क्रियायाः माध्यमेन अपायः जायते), तत्र विद्यमानम् अपादानम् उपात्तविषयम् अपादानम् अस्ति इत्युच्यते । यथा - बलाहकात् विद्युत् विद्योतते (The lightening shines from the clouds) । अत्र विद्योतते इति मुख्या क्रिया अस्ति । परन्तु अस्याः क्रियायाः पूर्त्यर्थम् विद्युतः मेघात् निष्क्रमणम् अपि भवति । अनेन प्रकारेण अत्र मेघात् विद्युतः अपायः अप्रत्यक्षरूपेण विद्योतते अनया क्रियया प्रदर्शितः वर्तते । अतः अत्र "उपात्तविषयम् अपादानम् अस्ति" इति स्वीक्रियते । एवमेव, कुसुलात् पचति इत्यस्य अर्थः "कुसुलदेशात् पचनसामग्रीम् आनीय पचति" इति अस्ति । अत्रापि मुख्यक्रिया पचति इति अस्ति, तथापि अस्यां क्रियायाम् "पचनसामग्रेः कुसुलदेशात् पृथक्करणम्" इति अपायः अपि गर्भितः वर्तते । अतः इदम् अपि उपात्तविषयकस्य अपादानस्य उदाहरणम् ।
3. अपेक्षितक्रियम् अपादानम्
यत्र वाक्ये काऽपि क्रिया निर्दिष्टा नास्ति, परन्तु सन्दर्भं दृष्ट्वा समुचितायाः क्रियायाः अध्याहारं च कृत्वा तस्याः आधारेण अपायस्य ज्ञानं भवति, तत्र अपेक्षितक्रियम् अपादानम् अस्ति इत्युच्यते । यथा - कुतो भवान् ? अहं पाटलीपुत्रात् इत्यस्मिन् संवादे न काचित् क्रिया स्पष्टरूपेण दृश्यते । परन्तु अत्र सन्दर्भं दृष्ट्वा "इयं चर्चा आगमनक्रियायाः सन्दर्भेण अस्ति" इति निर्णयः भवितुम् अर्हति । अस्याम् आगमनक्रियायाम् पाटलीपुत्रपदार्थस्य अवधिभूतत्वात् अपादानसंज्ञा अपि जायते । इदम् अपेक्षितक्रियम् अपादानम् ।
इति वार्त्तिकस्य अनावश्यकता
प्रकृतसूत्रस्य भाष्ये भाष्यकारेण इति वार्त्तिकं अवश्यं पाठितम् अस्ति; परन्तु तत्रैव अग्रे सः इदं वार्त्तिकम् अनावश्यकम् अस्ति इत्यपि ब्रूते -
तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् - अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति - दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति - नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । - महाभाष्यम्
अत्र भाष्यकारस्य आशयः अयम् - जुगुप्सा, विरामः, तथा च प्रमादः इत्येताभिः क्रियाभिः उपात्तविषयम् अपादानं दीयते, यत् सूत्रस्यैव आधारेण ज्ञापयितुम् शक्यम् । तत्कथम् इति चेत्, पापात् जुगुप्सति इत्यत्र आदौ बुद्धौ अहं पापं न करिष्यामि इति निर्णयं कृत्वा, ततः पापात् स्वस्य पृथक्करणं क्रियते, अतः जुगुप्सक्रियायाम् अपायः अवश्यमेव गर्भितः वर्तते । एवमेव, विरामस्य प्रमादस्य चापि विषये बुद्ध्याः निवृत्तिः अवश्यं भवति, अतश्च तत्रापि अपायः अवश्यमेव गर्भितः अस्ति इति भाष्यकारस्य आशयः अस्ति । अनेन प्रकारेण तिसृषु अपि क्रियासु अपायस्य उपस्थितित्वात्, <<ध्रुवमपायेऽपादानम्>> 1.4.24 इति प्रकृतसूत्रेणैव त्रयाणाम् अपि विषयाणाम् सन्दर्भेण अपादानसंज्ञा सम्भवति, तदर्थम् पृथक् वार्त्तिकम् अनावश्यकम् एव ज्ञेयम् - इति निर्णयः भाष्यकारेण अत्र दत्तः अस्ति ।
##Balamanorama
<<ध्रुवमपायेऽपादानम्>> - अथ पञ्चमी । ध्रुवमपाये । अपायपदं व्याचष्टे — अपायो विश्लेष इति । वियोग इत्यर्थः ।ध्रुव॑पदं व्याचष्टे-अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः ।
##Padamanjari
ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु'ध्रुव गतिस्थैर्ययोः' इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायःउ विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे ततद्धावनादिक्रियानावेशातन्निमितमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च - अपाये यदुदासीनं चलं वा चदि वा चलम्। ध्रुवमेवातदावेशात् पदपादानमुच्यते॥ इति। पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि- पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्य त्वश्वस्य पतने कुड।लदिर्ध्रुव उच्यते॥ इह तु परस्परम्मान्मेषावपसर्पत इति मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्॥ गतिर्विना त्ववधिना नापाय इति कथ्यते॥ जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव'भीत्रार्थानाम्' इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृतौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्तते, तत्र ध्रुमपायैत्येव सिद्धमिति। तच्चैतत् - निर्द्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्यौद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्यौतिर्वर्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङ्गे पाके पचिर्वर्तते-कुसूलादादाय पचतीति, तदुपातविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति। ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन - अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति - धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि'कारके' इति सप्तम्यन्तेन शक्यः संज्ञी निर्देअष्टुअम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्॥