1-4-42 साधकतमं करणम् आ कडारात् एका सञ्ज्ञा कारके
index: 1.4.42 sutra: साधकतमं करणम्
क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितम् तत् साधकतमं कारकम् करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहनम् किम्? गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः कर्तृकरणयोस् तृतीया 2.3.18 इत्येवमादयः।
index: 1.4.42 sutra: साधकतमं करणम्
क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥
index: 1.4.42 sutra: साधकतमं करणम्
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥
index: 1.4.42 sutra: साधकतमं करणम्
साधकतमं करणम् - साधकतमं करणं । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कत्र्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते ।साधकतम॑मित्यस्य व्याख्यानमेतत् । साधकशब्दादतिशायने तमबिति तमप् । अतिशयितं साधकं साधकतममिति भावः । यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति । साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः, — कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम् । अन्यथाआधारोऽधिकरण॑मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं चतिलेषु तैलं॑,दध्नि सर्पि॑रित्यादावेव स्यात् ।गङ्गायां घोषः॑, कूपे गर्गकुल॑मित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् 'आधारोऽधिकरणं' 'सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते ।
index: 1.4.42 sutra: साधकतमं करणम्
'षिधू संराद्धौ' इत्यस्य हेतुमण्ण्यन्तस्य'सिद्ध्यतेरपारलौकिके' इत्यात्वे राध साध संसिद्धौऽ इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्«अधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पतिः समस्ति, अतः- क्रियायाः परिनिष्पतिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा तत्र करणं ततदा स्मृतम्॥'विवक्ष्यते' इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च - वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः॥ इति। न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पतौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्। तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्तते तदा न प्रयोजनम्। आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति॥