साधकतमं करणम्
1-4-42 साधकतमं करणम् आ कडारात् एका सञ्ज्ञा कारके
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
क्रियासिद्धौ प्रकृष्ट-उपकारकत्वेन यस्य विवक्षा क्रियते, तत् कारकं करणसंज्ञं भवति । यथा - परशुना छिनत्ति, अग्निना पचति ।
Kashika
Up
क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितम्, तत् साधकतमं कारकं करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहणं किम्? गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः — <<कर्तृकरणयोस्तृतीया>> २.३.१८ इत्येवमादयः॥
Siddhanta Kaumudi
Up
क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥
Laghu Siddhanta Kaumudi
Up
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे विद्यमानम् इदं सूत्रं करणम् इति संज्ञां विदधाति । क्रियां कर्तुम् आवश्यकानि यानि साधनानि, तेषु सर्वेषु यस्य साधनस्य प्रकर्षेण उपकारि साधनम् इति विवक्षा क्रियते, तस्य अनेन सूत्रेण करणसंज्ञा भवति । यथा, वृक्षच्छेदनकार्ये परशुः इति शस्त्रस्य यदि "इदं प्रकर्षेण उपकारि अस्ति" इति विवक्षा क्रियते, तर्हि अत्र परशुपदार्थस्य करणसंज्ञां कृत्वा, तस्याः निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>> 2.3.18 इत्यनेन तृतीया विभक्तेः प्रयोगं च कृत्वा परशुना छिनत्ति इति प्रयोगः सिद्ध्यति । एवमेव, पचनक्रियायाम् अग्निं प्रकर्षोपकारिणं मत्त्वा अग्निना पचति इति प्रयोगः सिद्ध्यति ।
साधकम् तथा च साधकतमम्
प्रकृतसूत्रे प्रयुक्ते
साधकतमम् इत्यमिन् पदे
साधक इति मूलः शब्दः अस्ति ।
साधकः इत्यस्य अर्थः
कारकम् इति ज्ञेयः । क्रियासिद्धौ ये पदार्थाः भागं गृह्णन्ति, ते सर्वेऽपि साधकानि (कारकाणि) नाम्ना ज्ञायन्ते । अमुम् एव विषयम् स्पष्टीकुर्वन् प्रकृतसूत्रे भाष्यकारः वदति -
सर्वाणि च कारकाणि साधकानि, न च असाधके प्रवृत्तिः । एतेषु सर्वेषु अपि साधकेषु यत् श्रेष्ठम् साधकम्, तस्य निर्देशः
साधकतम इति शब्देन क्रियते, तस्य च प्रकृतसूत्रेण
करणसंज्ञा भवति ।
साधकतमस्य निर्णयः
सर्वेषु अपि साधकेषु श्रेष्ठम् साधकं कथं ज्ञेयम् - इत्यस्य उत्तरम् भर्तृहरिणा वाक्यपदीये दत्तम् अस्ति । तत्र सः वदति -
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र, करणत्वं तदा स्मृतम् ॥ - वाक्यपदीयम्, 3.7.90
अन्वयः - यद्व्यापारात् अनन्तरम् क्रियायाः परिनिष्पत्तिः विवक्ष्यते, तत्र करणत्वम् स्मृतम् ।
क्रियायाः सिद्ध्यर्थम् यद्यपि भिन्नानि साधकानि उपयुक्तानि सन्ति, तथापि
यस्य साधनस्य प्रयोगात् अनन्तरम् "इदानीं क्रिया समाप्ता जाता" इति वक्तुं शक्यते, तस्य साधकस्य "साधकतम"रूपेण ग्रहणं भवति, किञ्च तस्यैव करणसंज्ञा अपि भवति - इति अत्र भर्तृहरेः आशयः वर्तते । यथा, वृक्षच्छेदनक्रियायाम्, "यावत् परशुना वृक्षे प्रहारः क्रियते तावत्पर्यन्तम् एव छेदनकार्यम्, परशोः प्रयोगः समाप्यते चेत् छेदनकार्यं अपि समाप्तम् मन्यते" इति सामान्यव्यवहारः, अतः छेदनकार्ये परशोः साधकतमरूपेण ग्रहणं कृत्वा तस्य करणसंज्ञा क्रियते, येन
परशुना छिनत्ति इति प्रयोगः सिद्ध्यति । एवमेव, पचनकार्ये विद्यमानेषु बहुषु साधनेषु "अग्नेः प्रयोगात् अनन्तरम् पचनक्रिया समाप्यते" इति स्वीकृत्य अग्नेः साधकतमरूपेण ग्रहणं कृत्वा तस्य करणसंज्ञा सम्भवति, येन
अग्निना पचति इति प्रयोगः सिद्ध्यति ।
साधकतमम् विवक्षाधीनम् अस्ति
भर्तृहरिणा स्वविरचितायां कारिकायां
विवक्ष्यते इति शब्दः प्रयुक्तः अस्ति ।
विवक्ष्यते इत्युक्ते
वक्तुः इच्छाम् अनुसृत्य निर्णीयते । क्रियार्थम् आवश्यकानि यानि साधकानि, तेषु कस्य साधकस्य प्रयोगात् अनन्तरम् क्रिया समाप्यते इति बहुत्र वक्तुः इच्छाम् अनुसरति, अतएव भर्तृहरिणा अस्य शब्दस्य अत्र प्रयोगः कृतः वर्तते । यथा, वृक्षच्छेदनकार्यस्य विषये यदि कश्चित् वदति - "परशोः कार्यं समाप्यते चेत् छेदनकार्यम् अपि समाप्तम्", तर्हि तस्य मतेन परशुपदार्थस्य साधकतमत्वेन विवक्षां कृत्वा तस्य करणसंज्ञा सम्भवति, येन
परशुना छिनत्ति इति प्रयोगः सिद्ध्यति । परन्तु अस्यैव छेदनस्य विषये कश्चन अन्यः वदेत् - "मम बलं समाप्यते चेत् छेदनकार्यम् अपि समाप्तम्" । अस्मिन् पक्षे बलपदार्थस्य साधकतमत्वेन विवक्षां कृत्वा तस्य करणसंज्ञा सम्भवति, येन
बलेन छिनत्ति इति प्रयोगः अपि साधुत्वं प्राप्नोति । एवमेव कश्चन अन्यः हस्तयोः साधकतमस्य विवक्षां कृत्वा स्वीकृत्य
हस्ताभ्यां छिनत्ति इति प्रयोक्तुम् अर्हति । किञ्च, द्वयोः अधिकानां वाऽपि पदार्थानाम् युगपत् साधकतमत्वं स्वीकृत्य
हस्तेन परशुना बलेन च छिनत्ति इत्यादयः प्रयोगाः अपि अवश्यं सङ्गच्छेरन् ।
कारकसंज्ञायां तरतमयोगो न भवति
प्रकृतसूत्रे पाणिनिमहर्षिणा
साधकतमम् इति तमप्-प्रत्ययान्तशब्दः प्रयुक्तः अस्ति । परन्तु कारकप्रकरणे अन्येषु सूत्रेषु एतादृशः तमप्-प्रत्ययान्तशब्दः प्रायेण न दृश्यते । यथा, अपादानसंज्ञायाः विषये "ध्रुवतमम् अपाये अपादानम्" इति नोच्यते । अधिकरणसंज्ञायाः विषये अपि "आधारतमम् अधिकरणम्" इति नोच्यते । अतः प्रकृतसूत्रे विद्यमानः तमप्-प्रत्ययान्तशब्दः एतत् प्रतिपादयति, यत्
कारकप्रकरणे यत्र तमप्-प्रत्ययान्तशब्दः न वर्तते, तत्र श्रेष्ठ-कनिष्ठचिन्तनं नैव करणीयम् । यथा, अपाये साध्ये सर्वेषाम् अपि ध्रुवाणाम् <<ध्रुवमपायेऽपादानम्>>
1.4.24 इत्यनेन अपादानसंज्ञा अवश्यं भवेत्, न केवलं ध्रुवतमस्य । अतएव उपात्तविषयकस्य अपेक्षितक्रियकस्य च अपादानस्य निर्देशः अपि <<ध्रुवमपायेऽपादानम्>>
1.4.24 इत्यनेनैन भवति । एवमेव, <<आधारोऽधिकरणम्>>
1.4.43 इत्यनेन सूत्रेण सर्वप्रकारकाणाम् अपि आधाराणाम् अधिकरणत्वम् उच्यते, न हि केवलम् मुख्यप्रकारकस्य व्यापक-आधारस्य । अनेन प्रकारेण कारकप्रकरणे अन्यत्र (यत्र तमप्-प्रत्ययान्तशब्दः न दृश्यते तत्र) श्रेष्ठ-कनिष्ठस्य चिन्तनं नैव करणीयम् । अमुम् एव विषयम् सिद्धान्तरूपेण निर्दिशन् भाष्यकारः वदति -
कारकसंज्ञायां तरतमयोगो न भवति । तर-तम-योगः इत्युक्ते "श्रेष्ठ-कनिष्ठस्य चिन्तनम्" । तत् कारकप्रकरणे अन्यत्र न भवति, इति अत्र भाष्यकारस्य आशयः वर्तते ।
दलकृत्यम्
1. तमप्-ग्रहणं किमर्थम् ? -
(1) केवलं साधकतमस्यैव करणसंज्ञा भवेत्, इति स्पष्टीकर्तुम्, तथा च (2) कारकप्रकरणे तरतमयोगः न भवति इति ज्ञापयितुम् प्रकृतसूत्रे तमप्-ग्रहणं क्रियते । अतएव
गङ्गायां घोषः इत्यस्मिन् उदाहरणे <<आधारोऽधिकरणम्>>
1.4.43 इत्यनेनैव औपश्लेषिकम् अधिकरणम् अपि सिद्ध्यति । किञ्च, अतएव
सिंहात् बिभेति इत्यादिषु वाक्येषु विद्यमानम् उपात्तविषयम् अपादानम् <<ध्रुवमपायेऽपादानम्>>
1.4.24 इत्यनेनैव सिद्धे, अपादानप्रकरणस्य अन्यानि सूत्राणि भाष्यकारः प्रत्याचष्टे ।
Balamanorama
Up
<<साधकतमं करणम्>> - साधकतमं करणं । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कत्र्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते ।साधकतम॑मित्यस्य व्याख्यानमेतत् । साधकशब्दादतिशायने तमबिति तमप् । अतिशयितं साधकं साधकतममिति भावः । यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति । साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः, — कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम् । अन्यथाआधारोऽधिकरण॑मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं चतिलेषु तैलं॑,दध्नि सर्पि॑रित्यादावेव स्यात् ।गङ्गायां घोषः॑, कूपे गर्गकुल॑मित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् 'आधारोऽधिकरणं' 'सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते ।
Padamanjari
Up
'षिधू संराद्धौ' इत्यस्य हेतुमण्ण्यन्तस्य'सिद्ध्यतेरपारलौकिके' इत्यात्वे राध साध संसिद्धौऽ इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्«अधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पतिः समस्ति, अतः- क्रियायाः परिनिष्पतिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा तत्र करणं ततदा स्मृतम्॥'विवक्ष्यते' इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च - वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः॥ इति। न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पतौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्। तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्तते तदा न प्रयोजनम्। आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति॥