भुवः प्रभवः

1-4-31 भुवः प्रभवः आ कडारात् एका सञ्ज्ञा कारके अपादानम् कर्तुः

Sampurna sutra

Up

भुवः कर्तुः प्रभवः कारकम् अपादानम्

Neelesh Sanskrit Brief

Up

यस्मात् कश्चन पदार्थः प्रथमं प्रकाशते, तत् कारकम् अपादानसंज्ञं भवति । यथा - हिमवतः गङ्गा प्रभवति ।

Kashika

Up

कर्तुरिति वर्तते। भवनं भूः। प्रभवत्यस्मादिति प्रभवः। भूकर्तुः प्रभवो यः, तत् कारकमपादानसंज्ञं भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वितस्ता प्रभवति। प्रथमत उपलभ्यत इत्यर्थः॥

Siddhanta Kaumudi

Up

भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥<!ल्यब्लोपे कर्मण्यधिकरणे च !> (वार्तिकम्) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः ॥<!गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् !> (वार्तिकम्) ॥ कस्मात्त्वं नद्याः ॥<!यतश्चाध्वकालनिर्माणं तत्र पञ्चमी !> (वार्तिकम्) ।<!तद्युक्तादध्वनः प्रथमासप्तम्यौ !> (वार्तिकम्) ।<!कालात्सप्तमी च वक्तव्या !> (वार्तिकम्) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् । प्रभवनम् (= प्रथमवारं प्रकाशनम् / बहिः आगमनम् / प्रकटनम्) अस्याः क्रियायाः सन्दर्भे यस्मात् प्रकटनं भवति तस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते । यथा, हिमालयात् गङ्गा प्रभवति । अत्र गङ्गायाः उगमः हिमालयस्य भूमौ भवति, ततश्च सा हिमालयात् प्रथमम् बहिः आगच्छति, अतश्च हिमालयपदार्थस्य अत्र अपादानसंज्ञा भवति । एवमेव, काश्मीरेभ्यः वितस्ता प्रभवति इत्यत्रापि काश्मीरपदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा भवति । <hlb>प्रभवः</hlb> इति शब्द: अस्मिन् सूत्रे प्रभवः इति शब्दः प्रयुक्तः अस्ति । अस्य शब्दस्य व्युत्पत्तिः दीयते - प्रभवति अस्मात् इति प्रभवः । प्रभवति इत्युक्ते प्रथमं प्रकाशते / प्रकटति इति । यस्मात् पदार्थात् कश्चन पदार्थः प्रथमं प्रकटीभूतः दृश्यते, तस्य पदार्थस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते । अतएव हिमालयात् गङ्गा प्रभवति इत्यत्र प्रभवस्य (इत्युक्ते हिमालयस्य) अपादानसंज्ञा भवति । किञ्च, अस्मिन् सूत्रे पूर्वसूत्रात् कर्तुः इति पदम् अपि अनुवर्तते । इदं पदम् भुवः इत्यनेन सह अन्वेति । भुवः इति भू-शब्दस्य षष्ठ्येकवचनम् । भूः इत्युक्ते भवनम् (अस्मिन् सन्दर्भे प्रकटीभवनम्) इत्याशयः । अस्य प्रकटीभवनस्य यः कर्ता (इत्युक्ते यः प्रकटीभवति), तस्य यः प्रभवः (इत्युक्ते सः पदार्थः यस्मात् अयं कर्ता प्रकटीभवति), तस्य अत्र अपादानसंज्ञा दत्ता अस्ति । <pv> भाष्ये सूत्रस्य प्रत्याख्यानम् भाष्यकारेण "इदं सूत्रम् अनावश्यकम् अस्ति" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - अयमपि योगः शक्योऽवक्तुम् । कथं हिमवतो गङ्गा प्रभवतीति ? अपक्रामन्ति तास्तस्मादापः । - महाभाष्यम् हिमवतः गङ्गा प्रभवति इत्यादिषु उदाहरणेषु गङ्गाजलम् हिमवतः बहिः आगत्य तस्मात् पृथक् भवति, अतः अत्र अपायः अवश्यम् गर्भितः अस्ति । अतएव इदम् उपात्तविषयम् अपादानम् इत्येव मत्त्वा ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते । <<जनिकर्तुः प्रकृतिः>> तथा <<भुवः प्रभवः>> इत्येतयोर्मध्ये भेदः हिमालयात् गङ्गा प्रभवति इत्यत्र <<जनिकर्तुः प्रकृतिः>> 1.4.30 इति सूत्रेण अपादानसंज्ञा नैव सम्भवति, यतो हि हिमालयः गङ्गायाः जननस्य कारणरूपेण न गण्यते । गङ्गा अन्येन कारणेन, अन्यस्मिन् स्थले उत्पद्यते, हिमालयात् तु सा केवलं प्रकटीभूता दृश्यते । अतएव प्रकृतसूत्रे प्रभवः इति शब्दः स्थापितः अस्ति । अनेन प्रकारेण <<जनिकर्तुः प्रकृतिः>> 1.4.30 इत्यस्य प्रयोगः जननक्रियायाः सन्दर्भेण, तथा च प्रकृतसूत्रस्य प्रयोगः प्रथमप्रकटनस्य सन्दर्भेण भवति इति अनयोर्मध्ये भेदः विद्यते । सिद्धान्तकौमुदीस्थानि वार्त्तिकानि प्रकृतसूत्रे सिद्धान्तकौमुद्याम् आहत्य पञ्च वार्त्तिकानि दत्तानि सन्ति । एतानि वार्त्तिकानि भाष्ये काशिकायां च अन्यत्र (पञ्चमीविभक्त्याः प्रकरणे) पाठितानि सन्ति, परन्तु कौमुदीकारः प्रसङ्गवशात् तान् अत्रैव पाठयति । एतानि वार्त्तिकानि एतादृशानि -

  • 1. - यत्र ल्यप्-प्रत्ययान्तशब्दस्य लोपः (अदर्शनम्) वर्तते, तत्र कर्मकारस्य, अधिकरणकारकस्य च निर्देशार्थम् पञ्चमी विभक्तिः प्रयुज्यते । यथा - प्रासादात् प्रेक्षते । अत्र "प्रासादम् आरुह्य प्रेक्षते" इति अर्थः अस्ति । परन्तु वाक्ये आरुह्य इति ल्यबन्तं पदं नैव प्रयुज्यते (इत्युक्ते तस्य लोपः कृतः वर्तते) अतः कर्मपदस्य (प्रासादस्य) निर्देशार्थम् अत्र पञ्चमीविभक्तिः प्रयुक्ता वर्तते । एवमेव, आसनात् प्रेक्षते इत्यत्र "आसने उपविश्य प्रेक्षते" इति अर्थः मनसि विद्यते, परन्तु वाक्ये उपविश्य इति ल्यबन्तं पदं लुप्तं वर्तते अतश्च अधिकरणस्य (आसनस्य) निर्देशार्थम् अत्र पञ्चमीविभक्तिः प्रयुक्ता अस्ति । एवमेव श्वशुरात् जिह्रेति (लज्जिता भवति इत्यर्थः) अत्रापि "श्वशुरं वीक्ष्य जिह्रेति" इति अर्थः अभिप्रीयते परन्तु वीक्ष्य इति ल्यबन्तं पदं लुप्तं वर्तते अतश्च कर्मपदस्य (श्वशुरस्य) निर्देशार्थम् अत्र पञ्चमीविभक्तिः प्रयुक्ता अस्ति ।
  • 2. - यत्र वाक्ये प्रत्यक्षरूपेण क्रिया न विद्यते, तत्रापि सा कथञ्चित् सूच्यते चेदपि सा कारकविभक्तीः जनयितुम् समर्था अस्ति यथा - कस्मात् त्वं ? नद्याः । अत्र वाक्ये किमपि क्रियापदं साक्षात् नैव विद्यते । परन्तु "त्वं कस्मात् आनयः" / "त्वं कस्मात् मार्गात् आगच्छः" इत्यादिषु कस्याश्चित् क्रियायाः अध्याहारः अत्र अवश्यं सम्भवति । तदनुषङ्गेन कस्मात् इत्यत्र अपादानकारकम्, तस्य च निर्देशार्थम् पञ्चमी विभक्तिः प्रयुक्ता वर्तते । अनेन प्रकारेण अत्र अनुपस्थिता परन्तु गम्यमाना (सन्दर्भेण अवगम्यमाना इत्याशयः) क्रिया अपि कारकविभक्तीः जनयति । इदमेव अपेक्षित्रकियम् कारकम्
  • 3/4/5. - कालस्य, मागस्य वा मापनं यस्मात् प्रारभते तस्य पञ्चमी विभक्तिः भवति, तस्य योगे विद्यमानस्य मार्गवाचकशब्दस्य प्रथमा उत सप्तमी प्रयुज्यते, कालवाचकस्य तु केवलं सप्तमी एव प्रयुज्यते । यथा - वनात् ग्रामः योजनं योजने वा दूरः अस्ति । अत्र मार्गस्य मापनं वनात् प्रारभते, अतः वनपदार्थस्य अत्र पञ्चम्या निर्देशः कृतः अस्ति । अस्य योगे विद्यमानः मार्गवाचकः शब्दः योजनम् इति अस्ति, अतः तस्य प्रथमा उत सप्तमी भवितुम् अर्हति, येन वनात् ग्रामः योजनं दूरः अस्ति तथा च वनात् ग्रामः योजने दूरः अस्ति इति प्रयोगौ सङ्गच्छेते । एवमेव कालस्य सन्दर्भेण कौमुद्याम् कार्तिक्याः आग्रहायणी मासे विद्यते इति वाक्यं दत्तम् अस्ति । कार्त्तिकमासस्य पूर्णिमायाः अपेक्षया अग्रहायणमासस्य पूर्णिमा एकमासात् अनन्तरम् आगच्छति - इति अस्य वाक्यस्य अर्थः । अत्र कालस्य मापनम् कार्त्तिकी इत्यस्मात् प्रारभ्यते, अतः अत्र कार्त्तिकीशब्दस्य निर्देशः पञ्चमीविभक्त्या कृतः अस्ति । तद्योगे विद्यमानः कालवाचकः मासे इति शब्दः च सप्तम्या एव निर्दिश्यते । ##Balamanorama <<भुवः प्रभवः>> - भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह — भूकर्तुरिति । भवनं भूः । संपदादित्वात्क्विप् । भुवः कर्ता भूकर्ता, तस्येत्यर्थः । प्रभव इति । प्रभवति=प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः । प्रथमप्रकाशस्थानमित्यर्थः ।प्रभवती॑त्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायस्तत्रानुत्पत्तेः । तदाह — प्रकाशते इत्यर्थ इति । प्रथमं प्रकाशते इति यावत् । अत एव 'हिमवपि प्रकाशते' इत्यत्र न भवति । एतेनजनिकर्तु॑रित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । ल्यब्लोपे इति । ल्यबन्तस्य लोपे= अदर्शने अप्रयोगे सति गम्यमानतदर्थं प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिह्येतीति । लज्जते इत्यर्थः ।नन्वत्र ल्यबन्तस्य प्रयोगाऽभावात्कथं तदर्थं प्रति कर्माद्यवगतिरित्यत आह — गम्यमानापीति । प्रकरणादिनेत्यर्थः ।गम्यमानापी॑त्यस्य प्रयोजनान्तरमाह — कस्मात्त्वमिति ।आगतोऽसी॑ति गम्यमानक्रियापेक्षमपादानत्वगिति भावः । 'नद्या' इत्युत्तरम् ।आगतोऽस्मी॑ति गम्ययानक्रियापेक्षमपादानत्वमिति भावः । यतश्चेति । 'यत' इति तृतीयार्थे तसिः । येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः=इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम् ।तत्र पञ्चमी॑ति पाठेऽप्ययमेवार्थः । तद्युक्तादिति । तेन=पञ्चम्यन्तेन युरक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये॑ इति द्वितीयं वाक्यम् ।कालात्सप्तमी च वक्तव्या॑ इति वाक्यान्तरम् । तद्युक्तादित्यनुषज्यते । तेन=पञ्चम्यन्तेन अन्वितात्कालवाचिनः सप्तमी वक्तव्येत्यर्थः । वनादिति । अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादाभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः । वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः । अवधिसत्वसत्त्वेऽपि विश्लेषाऽप्रतीतेध्र्रुवमित्यपादानत्वाऽभावाद्वचनम् । कार्तिक्या इति । कार्तिक्या मासे आग्रहायणीत्यन्वयः । अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात् । मासे इति सप्तम्यास्तु स्वोत्तराऽव्यवहितकालवृत्तित्वमर्थः । कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः । ##Padamanjari भवनं भूः, सम्पदादित्वात्क्विप्। अत्रापि प्रशब्दो द्रष्टव्यः। न हि कोवलस्य भवत्यर्थस्य प्रभवनेन योगः किं तर्हि? सोपसर्गस्य भुवः। कर्तेति। भवत्यर्थस्य कर्तेत्यर्थः, भुवो वा धातोः। कथं पुनर्धातोर्नाम कर्ता स्याद्, धातुर्वै शब्दः, शब्देऽसम्भवेऽर्थे कार्थं विज्ञास्यते।'तसु उपक्षये' भावे क्तः,'वि गतौ' तस्ता, वितस्तेति, अशोष्येत्यर्थः। प्रथमत उपलभ्यते इति। उपलभतेः कर्मव्यापारे प्रभवतिः, प्रवर्तत इत्यर्थः। प्रकाशत इति यावत्। एतेन जन्यर्थाभावात्पूर्वेणासिद्धं दर्शयति। अनेकार्थत्वाद्धातूनामस्मिन्नर्थे वृत्तिः। अयमपि प्रपञ्चः। कथम्? भवनपूर्वके निःसरणे प्रभवतिर्वर्तते॥