अधिशीङ्स्थाऽऽसां कर्म

1-4-46 अधिशीङ्स्थासां कर्म आ कडारात् एका सञ्ज्ञा कारके आधारः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

अधि +शीङ्, अधि + स्था, अधि + आस् - एतेषाम् यः आधारः, तत् कारकं कर्मसंज्ञकं भवति । यथा = हरिः वैकुण्ठम् अधिशेते, अधितिष्ठति, अध्यास्ते ।

Kashika

Up

पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आस् इत्येतेषामाधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते॥

Siddhanta Kaumudi

Up

अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । अनेन सूत्रेण <<अधि>>-उपसर्गपूर्वकस्य <<शीङ् (स्वप्ने)>> <{2.26}>, <<स्था (गतिनिवृत्तौ)>> <{1.1077}>, तथा च <<आस् (उपवेशने)>> <{2.11}> इत्येतेषां धातूनाम् आधारस्य <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । यथा, हरिः वैकुण्ठम् अधिशेते (विष्णुः वैकुण्ठे शेते इत्यर्थः), हरिः वैकुण्ठम् अधितिष्ठति (विष्णुः वैकुण्ठे तिष्ठति इत्यर्थः), हरिः वैकुण्ठम् अध्यास्ते (विष्णुः वैकुण्ठे आस्ते / उपविशति इत्यर्थः) । अत्र त्रिषु अपि वाक्येषु उपसर्गस्य योगे अर्थे परिवर्तनं न भवति (इत्युक्ते, शेते = अधिशेते; तिष्ठति = अधितिष्ठति, आस्ते = अध्यास्ते) । केवलम् आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा भवति । <hlb>अधिशीङ्स्थास्</hlb> इति शब्दः सूत्रे प्रयुक्तः अधिशीङ्स्थासाम् इति शब्दः अधिशीङ्स्थास् इति शब्दस्य षष्ठीबहुवचनम् अस्ति । अधिशीङ्स्थास् इति शब्दः आदौ द्वन्द्वसमासं कृत्वा तदनन्तरं च उत्तरपदलोपिसमासेन सिद्ध्यति । तदित्थम् - शीङ् च स्था च आस् च इति शीङ्स्थाऽसः । अयम् इतरेतरद्वन्द्वसमासः । ततः अधिपूर्वकाः शीङ्स्थासः इति अधिपूर्वशीङ्स्थासः । अयम् उत्तरपदलोपीसमासः अस्ति, यः <!शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङ्ख्यानम्!> इत्यनेन सिद्ध्यति । <<द्वन्द्वादौ श्रूयमाणं पदं प्रत्येकमभिसम्बद्ध्यते>> इति न्यायेन द्वन्द्वसमासस्य आदौ प्रयुक्तः अधि इति शब्दः द्वन्द्वसमास्य प्रत्येकं पदेन सह अन्वेति, अतः अत्र अधिपूर्वकः शीङ्, अधिपूर्वकः स्था, तथा च अधिपूर्वकः आस् इति अर्थः जायते । एतेषां सर्वेषाम् यः आधारः, तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । बाध्यबाधकभावः <<अधि+शीङ्>>, <<अधि+स्था>>, <<अधि+आस्>> - एतेषां धातूनां विषये कर्तुः आधारस्य <<आधारोऽधिकरणम्>> 1.4.45 इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते ।

Balamanorama

Up

<<अधिशीङ्स्थाऽसां कर्म>> - अधिशीङ् । शीङ्, स्था, आस् एषां द्वन्द्वः । अधिपूर्वा शीङ्स्थाऽऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः । तदाह — अधिपूर्वाणामिति । अधिकरणसंज्ञापवादोऽयम् । अधिशेतीति । अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः ।

Padamanjari

Up