हृक्रोरन्यतरस्याम्
1-4-53 हृक्रोः अन्यतरस्याम् आ कडारात् एका सञ्ज्ञा कारके कर्म अणि कर्ता सः णौ
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
हृ तथा कृ धात्वोः विषये अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे विकल्पेन कर्मसंज्ञकः भवति । यथा - माणवकं माणवकेन वा भारं हारयति, माणवकं माणवकेन वा कटं कारयति ।
Kashika
Up
अणि कर्ता स णाविति वर्तते। हरतेः करोतेश्चाण्यन्ततोर्यःकर्ता, स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति। हरति भारं माणवकः। हारयति भारं माणवकम्, माणवकेनेति वा। करोति कटं देवदत्तः, कारयति कटं देवदत्तम्, देवदत्तेनेति वा॥ अभिवादिदृशोरात्मनेपद उपसंख्यानम्॥ अभिवदति गुरुं देवदत्तः। अभिवादयते गुरुं देवदत्तम्, देवदत्तेनेति वा। पश्यन्ति भृत्या राजानम्। दर्शयते भृत्यान् राजा, भृत्यैरिति वा। आत्मनेपद इति किम्? दर्शयति चैत्रं मैत्रमपरः। प्राप्तविकल्पत्वाद् द्वितीयैव। अभिवादयति गुरुं माणवकेन पिता। अप्राप्तविकल्पत्वात्तृतीयैव॥
Siddhanta Kaumudi
Up
हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥<!अभिवादिदृशोरात्मनेपदे वेति वाच्यम् !> (वार्तिकम्) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् । <<हृ>> <{1.1046}> तथा <<कृ>> <{8.10}> एतयोः धात्वोः विषये <bअण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे विकल्पेन कर्मसंज्ञकः भवति इति अस्य अर्थः । । क्रमेण उदाहरणे एतादृशे -
1. <<हृ हरणे>> <{1.1046}> । यथा - पिता माणवकं भारं हारयति, पिता माणवकेन भारं हारयति ।
<<हृ>>-धातोः यः शुद्धकर्ता, तस्य ण्यन्तप्रयोगे अनेन सूत्रेण विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां प्राप्तायाम् पिता माणवकं भारं हारयति इति प्रयोगः सिद्ध्यति । कर्मसंज्ञायाः अभावे पिता माणवकेन भारं हारयति इति प्रयोगः सिद्ध्यति ।
2. <<कृ करणे>> <{10.10}> - यथा पिता माणवकं कटं कारयति, पिता माणवकेन कटं कारयति ।
<<कृ>>-धातोः यः शुद्धकर्ता, तस्य ण्यन्तप्रयोगे अनेन सूत्रेण विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां प्राप्तायाम् पिता माणवकं कटं कारयति इति प्रयोगः सिद्ध्यति । कर्मसंज्ञायाः अभावे पिता माणवकेन कटं कारयति इति प्रयोगः सिद्ध्यति ।
उभयत्र विभाषा इयम्
<<हृ>> तथा <<कृ>> - द्वयोः अपि धात्वोः विषये प्रकृतसूत्रेण उक्ता विभाषा उभयत्र विभाषा एव अस्ति । तदित्थम् -
1. <<हृ>>-धातुः कुत्रचित् गत्यर्थकरूपेण प्रयुज्यते (यथा - हरति, विहरति); कुत्रचित् भोजनार्थकरूपेण प्रयुज्यते (यथा - आहरति); कुत्रचित् च अन्यस्मिन् एव अर्थे प्रयुज्यते (यथा - प्रहरति) । एतेभ्यः गत्यर्थके अर्थे, भोजनार्थके च अर्थे, हृ-धातोः अण्यन्तकर्तुः ण्यन्तप्रयोगे <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> 1.4.52 इति पूर्वसूत्रेण नित्यं कर्मसंज्ञायां प्राप्तायाम्; तथा च अन्येषु अर्थेषु पूर्वसूत्रस्य प्रयोग-अभावात् कर्मसंज्ञायाम् सर्वथा अप्राप्तायाम्, प्रकृतसूत्रेण सर्वेषु स्थलेषु इयं कर्मसंज्ञा विकल्प्यते । अनेन प्रकारेण <<हृ>>-धातोः विषये इयम् उभयत्र विभाषा अस्ति ।
2. <<कृ>>-धातुः कुत्रचित् अकर्मकरूपेण प्रयुज्यते (यथा - छात्राः विकुर्वन्ति (विरुद्धं चेष्टन्ते इत्यर्थः)); अन्येषु स्थलेषु तु अयं सकर्मकरूपेण प्रयुज्यते (यथा, कटं करोति) । एताभ्यां अकर्मके अर्थे कृ-धातोः अण्यन्तकर्तुः ण्यन्तप्रयोगे <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> 1.4.52 इति पूर्वसूत्रेण नित्यं कर्मसंज्ञायां प्राप्तायाम्; तथा च सकर्मके अर्थे पूर्वसूत्रस्य प्रयोग-अभावात् कर्मसंज्ञायाम् सर्वथा अप्राप्तायाम, प्रकृतसूत्रेण सर्वेषु स्थलेषु इयं कर्मसंज्ञा विकल्प्यते । अनेन प्रकारेण <<कृ>>-धातोः विषये अपि इयम् उभयत्र विभाषा अस्ति ।
वार्त्तिकम् -
अभि + वद् तथा च दृश् इत्येतयोः धात्वोः ण्यन्तस्य आत्मनेपदस्य प्रयोगे अण्यन्तकर्ता विकल्पेन कर्मसंज्ञकः भवति । यथा -
1. <<अभि + वद्>> <{1.1164}> - अत्र माणवकः गुरुम् अभिवदति इत्यस्य णिजन्तप्रयोगे अभिवादयते इति आत्मनेपदि तिङन्तं प्रयुज्यते चेत् पिता माणवकेन गुरुम् अभिवादयते तथा पिता माणवकम् गुरुम् अभिवादयते इति उभयथा प्रयोगः भवति । अभिवादयति इति परस्मैपदप्रयोगे तु केनापि सूत्रेण वार्त्तिकेन वा शुद्धकर्तुः कर्मसंज्ञा न विधीयते, अतः सः कर्तृसंज्ञकः एव तिष्ठति - पिता माणवकेन गुरुम् अभिवादयति ।
2. <<दृश्>> <{1.1143}> - अत्र माणवकः शुकं पश्यति इत्यस्य णिजन्तप्रयोगे दर्शयते इति आत्मनेपदि तिङन्तं प्रयुज्यते चेत् पिता माणवकेन शुकं दर्शयते तथा च पिता माणवकम् शुकं दर्शयते इति उभयथा प्रयोगः भवति । दर्शयति इति परस्मैपदप्रयोगे तु पूर्वसूत्रस्थेन इति वार्त्तिकेन शुद्धकर्तुः नित्यमेव कर्मसंज्ञा विधीयते - पिता माणवकं शुकं दर्शयति ।
##Balamanorama
<<हृक्रोरन्यतरस्याम्>> - ह्मक्रो । हा च का च ह्मकरौ, तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य कर्मत्वविकल्पः । ह्मक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्मक्रोरर्थान्तरे तु प्राप्तविभाषा ।अब्यवहारयति सैन्धवान्सैन्धवैर्वा,॑विकारयति सैन्धवान्सैन्धवैर्वा॑ । अत्र अब्यबहरतेर्भक्षणार्थत्वाद्विकारयतेरकर्मकत्वाच्च प्राप्तिः ।अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातोर्दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौकर्म वेत्यर्थः । अभिवादयते इति । अभिवदति=नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिति फलेणिचश्चे॑त्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परसमैपदे तु अभिवादयति देवं भक्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति, दर्शयते देवं भक्तं भक्तेन वा ।गतिबुद्धी॑त्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम्, तथापिदृशेश्चे॑ति नित्यं प्राप्ते विकल्पः ।
##Padamanjari
गत्यर्थादयो निवृताः तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते-हरति भारं देवदत इति, अभ्यवहारे वा-अभ्यवहरति माणवकमोदनमिति। करोतिश्चाप्यकर्मकः- ओदनस्य पूर्णाः छात्राः विकुर्वत इति, तदा पूर्वेण प्राप्ते। ननु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नियमस्यैव विकल्पो युक्तः, गत्यर्थादिष्वेवेति योऽयं नियमः स'हृक्रोरन्यतरस्याम्' इति, ततश्च पक्षे नियमाभावात् गत्याद्यर्थादन्यत्र पक्षे कर्मत्वं पक्षान्तरे च कर्तृ त्वं भवतु, गत्याद्यर्थत्वे तु नित्यवत् कर्मसंज्ञा प्राप्नोति। एवं तर्हि वार्तिककारेण उभयत्रविभाषास्वियं पठिता, तत्सामर्थ्यादनन्तरस्य विधिरिति नाश्रीयते, अविशेषेण हृक्रोर्विकल्पः प्रवर्तते। अभिवादिद्दशोरिति। अभिवादयतेरप्राप्ते विभाषा द्दशेर्बुध्यर्थत्वात् द्दशेः सर्वत्रेति वा प्राप्ते। अभिवादयते इति।'णिचश्च' इत्यात्मनेपदम्। परस्मैपदे तु अभिवादयति गुरुं देवदेतेनेति कर्तृ संज्ञैव भवति। दर्शयते इति। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात्'णेरणौ' इत्यात्मनेपदम्, अन्यत्र तु'णिचश्च' इति॥