2-3-1 अनभिहिते
अनभिहित इत्यधिकारोऽयं वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामोऽनभिहित इत्येवं तद् वेदितव्यम्। अनभिहितेऽनुक्तेऽनिर्दिष्टे कर्मादौ विभक्तिर्भवति। केनानभिहिते? तिङ्कृत्तद्धितसमासैः परिसंख्यानम्। वक्ष्यति — <<कर्मणि द्वितीया>> २.३.२ — कटं करोति। ग्रामं गच्छति। अनभिहित इति किम्? तिङ् — क्रियते कटः। कृत् — कृतः कटः। तद्धित — शत्यः। शतिकः। समास — प्राप्तमुदकं यं ग्रामम्, प्राप्तोदको ग्रामः। परिसंख्यानं किम्? कटं करोति भीष्ममुदारं दर्शनीयम्। <<बहुषु बहुवचनम्>> १.४.२१ इत्येवमादिना संख्या वाच्यत्वेन विभक्तीनामुपदिष्टा, तत्र विशेषणार्थमिदमारभ्यते — अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्या इति॥
इत्यधिकृत्य ॥
<<अनभिहिते>> - अनभिहिते । इत्यधिकृत्येति । द्वितीयादि वक्ष्यत इत्यर्थः ।
अनभिहिते॥ अनभिहितशब्दोऽयमनेकार्थः, तथा हि - अभिपूर्वस्य दधातेर्हिनोतेश्चैतद्रूपं सम्भवति; अभिपूर्वश्च दधातिर्बन्धनेऽपि द्दष्टः - अश्वाभिधानीमादत इति, उच्चारणेऽपि - अभिहितः श्लोक इति, प्रतिपादनेऽपि - अभिहितोऽर्थ इति; हिनोतिरपि गतौ वृद्धौ च वर्तते, इह तु वक्ष्यमाणानां कर्मादीनां बन्धनाद्यर्थचतुष्टयासम्भवात्प्रतिपादनवचनोऽभिहितशब्द इत्याह - अनभिहिते अनिर्दिष्टे अनुक्त इति। वचिरत्र प्रतिपादनवचनः। उक्तार्थानामप्रयोग इति यथा सामान्येन ठभिहितेऽ इत्येतावत्युच्यमाने कट्ंअ करोति भीष्णमुदारं दर्शनीयमित्यत्र कटशब्दाद्विशेष्यवाचिन उत्पद्यमानया द्वितीययाऽनवयवेन कटगतस्य कर्मत्वस्याभिहितत्वाद्भीष्मादिभ्यो द्वितीया न स्यादिति मन्यमानः पृच्छति - केनानभिहित इति। इतरोऽपि विदिताभिप्राय आह - तिङ्कृतद्धितसमासैरिति। बहुषु प्रयुक्तेषु केषाञ्चिद्वर्जनेन केषाञ्चित्कार्यान्वप्रतिपादनमूउपरिसंख्यानम्, प्रत्युदाहरणेषु सर्वत्र द्वितीया न भवति। कट्ंअ करोति भीष्ममित्यादि। कटः कृतो भीष्म उदारो दर्शनीय इति करोतेरुत्पद्यमानः क्तप्रत्ययोऽनवयवेन सर्वकर्माभिधते तद्वद् द्वितीयापीति यो मन्दधीर्मन्यते तं प्रतीदं परिगणनभ्, सूक्ष्मद्दशस्तु प्रति न वक्तव्यमेव। तथा हि प्रातिपदिकादुत्पद्यमाना द्वितीया यदाकारविशिष्टोऽर्थः प्रातिपदिकेनाभिधीयते तदाकारविशिष्टस्यैव कर्मभावमाचष्टे। कठशब्देन कटत्वजातिविशिष्टोऽर्थोऽभिधीयते,न भीष्माद्याकारविशिष्ट इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवति तथा तदाकारविशिष्टस्य कर्मत्वाभिधानाय द्वितीया भविष्यति। क्तप्रत्ययस्तु प्रकृत्यर्थस्य न कर्मतामाचष्टे, किन्तु प्रकृत्यर्थं प्रति यस्य कर्मभावः तमिति युक्तं यदनवयवेन सर्वकर्माभिधते। ननु च कर्मादयो विभक्त्यर्थास्तेषां च तिङदिभिरभिरितवचनमनर्थकम्, अन्यत्रापि विहितस्याभावादभिहिते, यत्राप्यनभिहिताधिकारो न क्रियते तत्रापि शब्दान्तरप्रतिपादितेऽर्थे नैव विहितं भवति, तद् यथा - बहुपटुअरिति बहुचोक्तत्वादीषदसमाप्तेः सत्यपि सम्भवे कल्पबादयो न भवन्ति, द्विर्दश द्विदशाः - समासेनोक्तत्वात्सुजर्थस्य सुज्न भवति, पटुअगुप्तौ - द्वन्द्वेनोक्तत्वाच्चार्थस्य च - शब्दो न प्रयुज्यते; तद्वदत्रापि तिङदिभिरभिहितत्वादेव द्वितीयादयो न भविष्यन्ति। नन्वभिहितार्थस्यापि प्रयोगो द्दष्टः - अपूपौ द्वाविति, सत्यम्; अयं तु न्यायः यदुताभिहिते विहितं न स्यात्, न हि व्यसनितया शब्दः प्रयुज्यते, अपि त्वर्थाभिधानाय, स चेदर्थः शब्दान्तरेणाभिहितः किमिति शब्दान्तरं प्रयुज्यते, अक्षिनिकोचादिभिरप्यवगतेऽर्थे शब्दो नैव प्रयुज्यते, किं पुनः शब्देनैवाभिहिते। अपूपौ द्वावित्यादौ तु द्वावानय कौ द्वौ ताविति सामान्योपक्रमे वाक्यमिति यथाकथञ्चिदुपपादनीयम्, तस्मान्नार्थ एतेनेत्याशङ्क्य संख्यापि विभक्त्यर्थ इति दर्शयन्नाह - बहुषु बहुवचनमित्येवमादिनेति। अयमर्थः -'त्रिकः प्रातिपदिकार्थः' इत्यस्मिन्दर्शने कर्मादिवदेकत्वादिसंख्याविभक्त्यर्थः, तत्र कर्मादीनां युगपद्विभक्तिभिरभिधीयमानानां परस्परं विशेषणविशेष्यभावमनापन्नानां केवलप्रातिपदिकार्थगतानामभिधानं वृक्ष एको वृक्षः कर्म पशुरेकः पशुः करणमिति वाभिधानम्, पश्चाच्चैकक्रियान्वयबलेन परस्परसम्बन्ध इति प्राभाकरा मन्यन्ते। भाट्टास्तु परम्परासम्बद्धस्य स्वतन्त्रस्यानेकार्थस्याक्षाः, पादाः, माषा इत्यादावभिधानदर्शनेऽप्येकशेषमन्तरेणादर्शनात् यजेतेत्यादौ च कृतिकार्ययोर्युगपल्लिङभिधीयमानयोरपि विशेषणविशेष्यभावस्य प्राभाकरैरप्यभ्युपगमातद्वदेव विशिष्टाभिधानं मन्यन्ते। अस्माकमप्ययमेव पक्षः। तत्र कर्मादयो विशेषणम्, एकत्वादयो विशेष्याः, कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति। विपर्ययो वा - एकत्वादिविशिष्ट्ंअ यत्कर्म तत्र द्वितीयेति। तत्र यद्यपि कर्मादिप्राधान्यपक्षे तिङदिभिः प्रधानभूतानां कर्मादिनामभिहितत्वादप्रसङ्गः, द्वितीयादीनां संख्याप्राधान्यपक्षे कर्मादिष्वभिहितेष्वपि प्रधानभूतसंख्याभिधानाय द्वितीयादयः स्युरेव। प्राभाकरे तु पक्षे कर्माद्यंशाभिधानेऽपि संख्यांशस्यानभिहितस्याभिधानाय द्वितीयादयः स्युरिति। अनभिहितकर्माश्रयेष्विति। अनभिहितानि कर्मादीन्याश्रयो येषां तेष्वित्यर्थः। एतेन कर्मणीत्यादिसप्तमीनिर्द्देश एकत्वादीनामाधारतया, न पुनरभिधेयतयेति दर्शितम्। अनभिहित इति। यदि प्रसज्यप्रतिषेधः स्याततो द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहितेऽपि विभक्त्यभावप्रसङ्गः, प्रासाद आस्ते इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकररगं प्रासादाख्यं तच्चान्यतरेण सदिप्रत्ययेन घञाभिहितम् - प्रसीदन्त्यस्मिन्प्रासाद इति, तत्राभिहिते न भवतीत्युच्यमाने सप्तमी न स्यात्। पर्युदासे त्वासिप्रत्ययेन यदनभिधानं तदाश्रया सप्तमी सिद्व्यति। ननु च प्रासादाख्यस्य द्रव्यस्य कारकत्वादभिहितत्व दन्यत्वं नास्ति? नैष दोषः; शक्तिः कारकम्, तत्र सदिक्रियाशक्त्यभिधानेऽप्यासिक्रियाशक्तेरनभिधानम्। नन्वेवं प्रसज्यप्रतिषेधेऽपि या शक्तिरभिहिता तत्र मा भूद्विभक्तिः, या त्वनभिहिता तत्र भविष्यति? उच्यते - अनभिहिते कर्मणीत्येकत्वादीनामाधारनिर्द्देशः संख्या च द्रव्यधर्मः, अतोऽनभिहिते कर्मणीत्यादिभिरपि शक्तिद्वारेण द्रव्यमेवोच्यते - अनभिहिता या कर्मादिशक्तिस्तदाधारभूतं यद् द्रव्यं तस्यैकत्वादिषु विभक्तय इति। एवं च यदि प्रसज्यप्रतिषेधः स्याततोऽभिहितशक्तिद्वारेण द्रव्यस्याभिहितत्वात्प्रतिषेधः स्यात्; पर्युदासे तु अनभिहितशक्तिद्वारे विधिरिति स्पष्ट एव फलभेदः। यत्र तर्हि शक्तिभेदो नास्ति तत्र कथम् - आसने आस्ते, शयने शेत इति? अत्राप्यासनशयनादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भुतशक्तिकमभिहितमिति तस्य शक्त्युद्भवप्रतिपादनाय विभक्तिर्भविष्यति। यदि तर्हि पर्युदासोऽयमिति निर्मीयते, इह पक्त्वा भुज्यत ओदना इति भुजिप्रत्ययेनाप्यभिहित ओदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति, भावे हि क्त्वाप्रत्ययः; प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रतिषेधः सिद्ध्यति? उच्यते; नात्रौदनस्य युगपदुभाभ्यां शाब्द एवान्वयः, किं तर्हि? भुजिनैव, सन्निधानातु पचिनान्वयः। केवलशब्दव्यापारनिरूपणे तु किमिष्टकाः पक्त्वौदनो भुज्यते, उतौदनमेवेति न ज्ञायते, अतः शब्दव्यापारापेक्षयाभिधानमेवेति द्वितीया न भविष्यति। अनभिहितवचनमनर्थकम्; प्रथमाविधानस्यानवकाशत्वात्। कृतः कट इत्यादिषु द्वितीयादयो मा भूविन्निति सूत्रारम्भः। यदि चात्रापि स्युः, क्वेदानीं प्रथमा स्यात्। नन्वनवकाशत्वात्प्रथमा भवन्ती कृतः कट इत्यादावेव भवतीति न पुनः कट्ंअ करोतीत्यादावपीति कुतोऽयं नियमः? उच्यते - कृतः कट इत्यादौ यद्यपि कृतशब्दसन्निधाने कटस्य कर्मता प्रतीयते, तथापि तत्र वाक्यार्थत्वादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रथमा भविष्यति, यथा - विरः पुरुष इति। कट्ंअ करोतीत्यत्र तु कटशब्देनैव कर्मशक्तिमानर्थोऽभिधीयत इति व्यतिरिक्तत्वात्प्रातिपदिकार्थस्य प्रथमा न भविष्यति। नन्वकारकेषु सावकाशा प्रथमा,यथा - वृक्ष इति? अत्राप्यस्तीति प्रतीतेः कर्तृ त्वातृतीयाप्रसङ्गः। यत्र ह्यन्यत्क्रियापदं न श्रूयते तत्रान्तरङ्गत्वादस्तीति गम्यते, लब्धसताकस्य हि विशेषणान्तरयोगो भविष्यति। अथापि यत्र विशेषणान्तरनिवृतौ तात्पर्यम्, न क्रियासम्बन्धे, यथा - नीलमुत्पलं न रक्तम्, राज्ञोऽयं पुरुषो न देवदतस्येति, न ह्यत्र नीलमुत्पलमुत्पलमस्ति, राज्ञः पुरुषोऽस्तीति प्रतीतिः, अतोस्त्येवाकारकमवकाश इत्युच्येत? एवमपि विप्रतिषेधात्प्रथमा भविष्यति। द्वितीयादीनामवकाशो यत्र प्रातिपदिकार्थस्य व्यतिरेकः - कट्ंअ करोतीति; प्रथमायास्त्वकारकमवकाशः - नीलमुत्पलमिति; कृतः कट इत्यत्रोभयप्रसंगे परत्वात्प्रथमैव भविष्यति। ननु तामपि बाधित्वा परत्वात्, षष्ठी प्राप्नोति, शेषलक्षणा षष्ठी प्रातिपदिकार्थमात्रस्य प्रथमाविधावुपयोगादशेषत्वान्न भविष्यति। इह तर्हि कर्तव्यः कट इति कृत्प्रयोगे प्रथमां बाधित्वा'कर्तृ कर्मणोः कृति' इति षष्ठि स्यात्, तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। तदेवं संख्याविभक्त्यर्थ इत्यस्मिन्पक्षे कर्तव्यं सूत्रमिति स्थितम्॥