कर्मणा यमभिप्रैति स सम्प्रदानम्

1-4-32 कर्मणा यम् अभिप्रैति सः सम्प्रदानम् आ कडारात् एका सञ्ज्ञा कारके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यम् उद्दिश्य दानं दीयते तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - उपाध्यायाय गां ददाति ।

Kashika

Up

कर्मणा करणभूतेन कर्ता यमभिप्रैति, तत् कारकं संप्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद् ददातिकर्मणेति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति॥ क्रियाग्रहणमपि कर्तव्यम्॥ क्रिययापि यमभिप्रैति स संप्रदानम्। श्राद्धाय निगर्हते। युद्धाय संनह्यते। पत्ये शेते। संप्रदानप्रदेशाः — <<चतुर्थी संप्रदाने>> २.३.१३ इत्येवमादयः॥ कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य च कर्मसंज्ञा॥ पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः॥

Siddhanta Kaumudi

Up

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्॥

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । दानस्य कर्मणि यम् उद्दिश्य दानं दीयते तस्य सम्प्रदानसंज्ञा भवति । यथा, यदि कश्चन राजा उपाध्यायम् उद्दिश्य (उपाध्यायस्य कृते) गां ददाति, तर्हि तत्र उपाध्यायपदार्थस्य सम्प्रदानसंज्ञा विधीयते । अग्रे <<चतुर्थी सम्प्रदाने>> 2.3.13 इति सूत्रेण सम्प्रदानस्य निर्देशार्थम् चतुर्थीविभक्तेः प्रयोगं कृत्वा उपाध्यायाय गां ददाति इति वाक्यं सिद्ध्यति । एवमेव, माणवकाय भिक्षां यच्छति हरये पुष्पाणि अर्पयति, अग्नये हूयते इत्यादयः प्रयोगाः सङ्गच्छन्ते । <hlb>अभिप्रैति</hlb> इति शब्दस्य अर्थः सूत्रे विद्यमानस्य अभिप्रैति इति शब्दस्य अर्थः अभिसम्बध्नाति इति दीयते । दानं दत्त्वा कर्ता कर्मसंज्ञकपदार्थस्य येन सह सम्बन्धं प्रस्थापयितुम् इच्छति, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति इति अत्र आशयः वर्तते । यथा, राजा उपाध्यायाय गां ददाति इत्यत्र गोपदार्थः कर्मसंज्ञकः । दानक्रियया राजा अस्य गोपदार्थस्य उपाध्यायेन सह सम्बन्धं स्थापयति; अतः अत्र दानक्रियायाः कृते उपाध्यायस्य सम्प्रदानसंज्ञा भवति । किञ्च, अस्मिन् कार्ये कर्मसंज्ञकपदार्थस्य साहाय्यं स्वीक्रियते, अतः ददाति इत्यस्याः क्रियायाः कर्मपदम् अभिप्रैति इति क्रियायाः करणत्वरूपेण विधीयते । अनेन प्रकारेण " राजा गवा उपाध्यायम् अभिप्रैति" इत्यस्यैव अर्थस्य निर्देशार्थम् राजा गाम् उपाध्यायाय ददाति इति वाक्यं सिद्ध्यति । अतएव प्रकृतसूत्रे काशिकाकारः कर्मणा करणभूतेन कर्ता यम् अभिप्रैति इति अर्थं व्याचष्टे । <hlb>दानम्</hlb> इति शब्दस्य व्याख्या भट्टोजिदीक्षितः प्रौढमनोरमायां दानशब्दस्य व्याख्याम् इत्थं ददाति - दानं च अ-पुनर्ग्रहणाय, स्व-स्वत्व-निवृत्तिपूर्वकम् पर-स्वत्व-उपादानम् । यत्र स्वस्य कस्यचन पदार्थस्य त्यागं कृत्वा (इत्युक्ते "सः पदार्थः मया पुनः न स्वीकरिष्यते" इति निश्चित्य) तस्य पदार्थस्य विषये कस्यचन अन्यस्य स्वामित्वं स्वीक्रियते, तत्रैव "दानम्" भवति इति उच्यते । यदि एतादृशः "नियतत्यागः" नास्ति, इत्युक्ते यदि किञ्चित् कालं यावत् एव स्वस्य किञ्चन वस्तु अन्यस्य कृते दीयते, तर्हि तत्र तत् कर्म "दानकर्म" नाम्ना नैव स्वीक्रियते, अतश्च तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । अतएव देवदत्तः रजकस्य वस्त्रं ददाति इति प्रयोगः क्रियते । देवदत्तः स्वस्य वस्त्रस्य त्यागं नैव करोति अपितु केवलं क्षालनार्थं तत् रजकस्य समीपे स्थापयति, अतः रजकस्य सम्प्रदानसंज्ञा नैव भवितुम् अर्हति इति अत्र आशयः अस्ति । <hlb>सम्प्रदानम्</hlb> इति अन्वर्थसंज्ञा उत न ? यद्यपि सूत्रे पाणिनिमहर्षिभिः दानकर्मणा इति स्पष्टरूपेण नोच्यते, तर्ह्यपि प्रकृतसूत्रस्य प्रयोगः दानक्रियायाः सन्दर्भेण एव भवति इति अत्र काशिकाकारस्य मतम् अस्ति । तस्य पुष्ट्यर्थम् सः सम्प्रदानसंज्ञाम् अन्वर्थसंज्ञारूपेण स्वीकरोति । सम्प्रदानम् इत्यस्याः संज्ञायाः व्युत्पत्तिः - सम्यक् प्रदीयते अस्मै तत् सम्प्रदानम् - इति दानकर्मणः सन्दर्भेण एव दीयते, अतः अस्य सूत्रस्यापि प्रयोगः दानकर्मणः सन्दर्भेण एव स्यात् - इति काशिकाकारस्य आशयः वर्तते । परन्तु प्रकृतसूत्रस्य भाष्ये एतादृशः अन्वर्थतायाः आग्रहः न दृश्यते । किञ्च, भाष्यकारेण खण्डिकोपाध्याय शिष्याय चपेटिकां ददाति (The teacher gives a slap to the student) इत्येताः प्रयोगाः स्वयं कृताः सन्ति । अत्र यद्यपि ददाति इति क्रियापदं विद्यते तथापि अत्र "दानकर्म" नास्ति । एतादृशाः प्रयोगाः अपि भाष्यसम्मताः एव, अतश्च प्रकृतसूत्रस्य प्रयोगः दानकर्मं विहाय अन्येषु स्थलेषु अपि सम्भवति इति बहवः वैयाकरणाः मन्यन्ते । अतएव पिता पुत्राय पत्रं लिखति, माता बालकाय अपूपान् पचति इत्यादयः प्रयोगाः अपि सङ्गच्छन्ते । किञ्च, अस्मिन् पक्षे देवदत्तः रजकाय वस्त्रं ददाति इत्यपि प्रयोगः उचितः एव । अतः अस्मिन् पक्षे देवदत्तः रजकस्य वस्त्रं ददाति इति प्रयोगस्य साधुत्वम् - "सम्प्रदानस्य अविवक्षायां शेषत्वविवक्षया <<षष्ठी शेषे>> 2.3.50 इत्यनेन षष्ठी भवति" - इति दीयते । वार्त्तिकम् - <! क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् !> यत्र वाक्ये कर्मपदं न विद्यते, तत्र कर्ता क्रियया स्वस्य सम्बन्धं येन सह स्थापयितुम् इच्छति, तस्य अपि सम्प्रदानसंज्ञा भवति - इति अस्य वार्त्तिकस्य अर्थः । यत्र कर्मपदं विद्यते तत्र तु <<कर्मणा यमभिप्रैति स सम्प्रदानम्>> 1.4.32 इत्यनेनैव प्राप्ता सम्प्रदानसंज्ञा अनेन वार्त्तिकेन अकर्मकधातूनां सन्दर्भेण अपि विधीयते । अस्य व्याख्यानेषु उपलब्धानि उदाहरणानि एतादृशानि -

  • 1. श्राद्धाय निगर्हते - "श्राद्धस्य निन्दां करोति" इति अस्य अर्थः । कश्चन देवदत्तः श्राद्धादेः कार्यस्य यदा निन्दां करोति तदा तेन निन्दाकर्मणा सः "मम अस्मिन् श्राद्धे विश्वासः नास्ति / इदं श्राद्धं मम मतेन न सम्यक् कृतम्" इत्यादिप्रकारेण श्राद्धक्रियया सह स्वस्य सम्बन्धं प्रस्थापयति । अतः अत्र इति वार्त्तिकेन श्राद्धपदार्थस्य सम्प्रदानसंज्ञा विधीयते ।
  • 2. युद्धाय सन्नह्यते -"युद्धस्य निश्चयं करोति / युद्धार्थम् सज्जः भवति" इति अस्य अर्थः । अत्र सैनिकः "अहं युद्धं करोमि" इति निश्चयेन युद्धेन सह स्वस्य सम्बन्धं प्रस्थापयति, अतः अत्रापि अनेन वार्त्तिकेन युद्धपदार्थस्य सम्प्रदानसंज्ञा विधीयते ।
  • 3. पत्ये शेते - "पत्या सह शेते / पतिम् अनुकूलयितुयम् शेते" इति अस्य अर्थः । अत्र पत्नी शयनक्रियया पत्या सह स्वस्य सम्बन्धं योजयति, अतः अत्रापि पतिपदार्थस्य अनेन वार्त्तिकेन सम्प्रदानसंज्ञा भवति । वस्तुतस्तु भाष्यकारेण तु इदं वार्त्तिकम् "अनावश्यकम्" इति उक्त्वा प्रत्याख्यातम् अस्ति । भाष्यकारस्य मतेन, सूत्रे विद्यमानः कर्मणा इति शब्दः क्रियायाः अपि अवश्यमेव ग्रहणं करोति, अतः एतानि उदाहरणानि अपि सूत्रस्यैव आधारेण साधुत्वं प्राप्नुवन्ति, तदर्थम् वार्त्तिकम् नैव आवश्यकम्, इति । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यं पश्येयुः । वार्त्तिकम् - <! यजेः कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य च कर्मसंज्ञा !> <<यज्>> <{1.1157}> (यज्ञं करोति इत्यर्थः) अस्य धातोः कर्मपदस्य करणसंज्ञा भवति, तथा च सम्प्रदानस्य कर्मसंज्ञा भवति । अस्य उदाहरणं भाष्ये दीयते - पशुना रुद्रं यजते - इति । कस्मिंश्चित् यज्ञे रुद्रं मोदयितुम् पशोः बलिः दीयते चेत्, अत्र दानकर्मणि पशुः इति वस्तुतः कर्मपदम्, तथा च रुद्रः इति सम्प्रदानसंज्ञकं स्यात्, येन पशुम् रुद्राय ददाति इति प्रयोगः सिद्ध्यति । परन्तु अत्र <<दा>>-धातोः स्थाने यदि <<यज्>>-धातोः प्रयोगः क्रियते, तर्हि अनेन वार्त्तिकेन <<पशु>> इति कर्मपदस्य करणसंज्ञा, तथा च रुद्र इति सम्प्रदानस्य कर्मसंज्ञा भवति, येन पशुना रुद्रं यजते इति प्रयोगः सङ्गच्छते । <pv> सम्प्रदानस्य त्रयः भेदाः वाक्यपदीये भर्तृहरिणा सम्प्रदानस्य त्रयः भेदाः निर्दिष्टाः वर्तन्ते । तत्रस्था कारिका इयम् - अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ वाक्यपदीये 3.7.129 अन्वयः -कर्तुः कर्मणा ईप्सितं त्यागाङ्गम् अनिराकरणात्, प्रेरण-अनुमतिभ्याम् च सम्प्रदानतां लभते । अत्र विद्यमानः त्यागाङ्गम् इति शब्दः दानग्राहकस्य, इत्युक्ते "यः दानं स्वीकरोति" (यथा, उपाध्यायः) तस्य निर्देशं करोति । कर्मणा ईप्सितम् इति अस्य त्यागाङ्गस्य विशेषणम् । यत् त्यागाङ्गम् (दान)कर्मणा ईप्सितम्, तत् त्रिभिः प्रकारैः सम्प्रदानसंज्ञां लभते - इति अस्याः कारिकायाः आशयः । तदित्थम् -
  • 1. अनिराकरणात् - यत्र त्यागाङ्गं न हि किञ्चन याचते, न च दानक्रियात् पूर्वम् त्यागाङ्गस्य अनुमतिः स्वीक्रियते, न च दत्तं दानम् त्यागाङ्गं त्यजति - तत्र तस्य त्यागाङ्गस्य सम्प्रदानसंज्ञा अनिराकरणात् भवति । यथा - भक्तः ईश्वराय पुष्पाणि ददाति । अत्र ईश्वरः न हि पुष्पाणि याचते, न च ईश्वरं पृष्ट्वा तस्मै पुष्पाणि दीयन्ते, न च ईश्वरः अर्पितानि पुष्पाणि निराकरोति । अतः अत्र ईश्वरपदार्थस्य सम्प्रदानसंज्ञा अनिराकरणात् भवति ।
  • 2. प्रेरणात् - यत्र याचकेन पुनः पुनः पृष्टे सति, याचकस्य प्रार्थनया प्रेरणं प्राप्य तस्मै दानं दीयते, तत्र याचकस्य सम्प्रदानसंज्ञा प्रेरणात् भवति । यथा - धनिकः माणवकाय भिक्षां ददाति । अत्र माणवकेन पुनः पुनः पृष्टे सति तस्य स्थितिं दृष्ट्वा धनिकः तस्मै भिक्षां ददाति, अतः अत्र माणवकस्य सम्प्रदानसंज्ञा प्रेरणात् भवति ।
  • 3. अनुमानात् / अनुमतेः - यत्र त्यागाङ्गेन कृतस्य कस्यचित् कर्मणः कृते तस्मै दक्षिणास्वरूपेण, उपायनस्वरूपेण (gift) वा किञ्चित् दीयते, तथा च तस्य दानस्य अस्वीकरणम् अपि त्यागाङ्गः कर्तुं शक्नोति, तत्र त्यागाङ्गस्य सम्प्रदानसंज्ञा अनुमतेः भवति । यथा, पिता उपाध्यायाय गां ददाति । अत्र उपाध्यायेन पाठनादिकं कार्यं किञ्चित् कृतम् अस्ति, अतः दक्षिणास्वरूपेण पिता उपाध्यायाय् गां ददाति - इति आशयः वर्तते । किञ्च, यदि उपाध्यायः इदानीं गां न इच्छति, तर्हि अस्य दानस्य अस्वीकारम् अपि सः कर्तुम् अर्हति । अतः अत्र उपाध्यायस्य सम्प्रदानसंज्ञा अनुमतेः भवति । अस्मिन् विषये अधिकं पिपठिषवः वाक्यपदीयम्, अथवा प्रकृतसूत्रस्य पदमञ्जरीव्याख्यानं पश्येयुः । ##Balamanorama <<कर्मणा यमभिप्रैति स सम्प्रदानम्>> - अथ चतुर्थी । कर्मणा यमभि । कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः । शेषित्वं-भोक्तृत्वम् । संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते । तदाह — दानस्येत्यादिना । देयद्रव्योद्देश्यं संप्रदानमिति फलितम् । दानस्येति किम् पयो नयति देवदत्तस्य । अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात् । ##Padamanjari कर्मणा करणभूतेनेति। कथं पुनरेकमेव वस्तु युगपत्कर्म च करणं च भवति? क्रियाभेदाद्दानक्रियायां कर्माभिप्रायेण क्रियायां करणम्, दीयमानाया हि गवा शिष्य उपाध्यायामभिप्रैति संबध्नाति ईप्सति वा, अभिप्रपूर्वो हीण् ईप्सतिना समानार्थः। अभिप्रेतमित्युक्ते ईप्सितमिति गम्यते। उक्तं च - अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणोप्सितम्। प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम्॥ इति। त्यागो दानम्, त्यागस्याङ्गं शेषभूतं कर्मणा गवादिनेप्सितमाप्तुमिष्टं संप्रदानतां लभते, अनिराकरणात्प्रेरणादेवमस्त्विति अनुमानाद्वा, देवेभ्यः सुमनसो ददाति, याचकाय भिक्षा ददाति, उपाध्यायाय गां ददाति; न तु निराकुर्वन् संप्रदानं भवतीति श्लोकार्थः। अत्र केचिदाहुः- 'कुगतिप्रादयः' इत्यत्र वार्तिकम्- `दातवता तिङ गतेः समासवचनम्` इति। यो जात एव प्रथमोमहस्वावो देवा क्रतुना पर्यभूषत्, यो यः शम्बरमन्वविन्दत्, यस्मान्न ऋते किं वजयन्ते, यो वै प्रयवयतामप्येनं प्रतिपद्यते-इत्याद्यौदाहरणानि। अत्र सर्वत्र'यद्वृतान्नित्यम्' इति निपातप्रतिषेधात् तिङ्न्तमुदातवत्, ततश्चायमभिप्रैतीत्यत्रापि समासे सति प्रातिपदिकत्वात् विभक्त्युत्पत्तिः स्यादिति। नेति वयम्; तस्य छन्दोविषयत्वात्। यदि कर्मणा यमभिप्रैति स संप्रदानम्, अजां नयति ग्राममिति अजैर्नयतिक्रिया कर्मभिस्संबध्यमानस्य ग्रामस्य संप्रदानतां प्राप्नोति? न प्राप्नोति, किं कारणम्? कर्मणेति करणे तृतीयेत्यक्तम्। न च यथा शिष्यस्योपाध्यायसम्बन्धे गौः करणम्, एवमजा ग्रामसम्बन्धे। ईप्सतिना समानार्थे तु सुतरामप्राप्तिः। तथा हि-'यमभिप्रैति' इत्युक्ते यमिति निर्दिष्टस्य शेषित्वम्, कर्मणेति निर्दिष्टस्य गवादेः करणस्य शेषत्वं च प्रतीयते; यथा-ठ्कर्त्रभिप्राये क्रियाफलेऽ इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वम्, न चात्र शेषशेषिभावः प्रतीयते। किं च'नीवह्यएर्हरतेश्च' इति द्विकर्मकेषु नयतिः परिगण्यते, अतोऽपि ग्रामस्य न भविष्यति। अथ किमर्थं महती संज्ञा क्रियत इत्याह-अन्वर्थसंज्ञाविज्ञानादिति। सम्यक्प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थत्वात्सञ्ज्ञाया ददातिकर्मणा यमभिप्रैति स संप्रदानमित्यर्थः। एवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठ्ंअ ददातीत्यत्र कस्मान्न भवति? अदानत्वात्, किं पुनर्दानम्? दानं किञ्चदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागाः, यथा-वृक्षाय जलं ददाति, देवेभ्यः सुमनसः, याचकाय भिक्षाम्, उपाध्यायाय गाम्, खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति, न शूद्राय मतिं दद्यादिति। करतलप्रहारःउचपेटिका। रजके तु पुनर्ग्रहणाद्दानाभावः, उपमानातु ददातिप्रमोगः,तत्र कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठी कर्मणेति किम्, यावता उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्य वाभिप्रेयमाणत्वम्,यतो गौर्दानक्रियया करणभूतयाभिप्रेयते, गवा तूपाध्यायः; तत्र परत्वाद्रोः कर्मसंज्ञेति पारिशेष्याद् उपाध्यायस्यैव संप्रदानसंज्ञा भविष्यति? नैतदस्ति;सत्यप्युभयोरभिप्रेयमाणत्वेऽन्तङ्गत्वात्कर्मण एव गवादेः स्यात्। कर्मसज्ञा तु ददातिकर्मणोऽन्यत्र सावकाशा, कारकप्रकरणे च प्रकर्षो नाश्रीयते, न त्वन्तरङ्गबहिरङ्गभावोऽपि । यंसग्रहणेऽक्रियमाणेऽभिप्रेतुरेव संप्रदानसंज्ञा स्यात्; श्रुतपदार्थसम्बन्धे सति तेनैव निराकाङ्क्षत्वादध्याहारानुपपतेः। सत्यपि वाध्याहारे यः स इत्येवाध्याहारात् तत उपाध्यायाय शिष्येण गौर्दीयत इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात्। कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणार्थमिति तेन शिष्यस्य कर्तृ त्वाभावेऽपि गोः कर्मसंज्ञा युज्यत एव। तथा च सार्थाद्धीयत इति कर्मणि लकारोत्पतिः। अभिप्रग्रहणं किम्, यावता कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः, अभिप्रैतीत्युक्ते स एव? अभिप्रग्रहणेऽक्रियमाणे कालविवक्षा स्यात्; ततश्च यमेव संप्रत्येति तत्रैव स्यात्, यमगात् यं चैष्यति तत्र न स्यात्; अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति। अभिराभिमुख्ये वर्तते, प्रशब्दश्चादिकर्मणि, ततश्चोपसर्गद्वयोपादानसामर्थ्यात्कालान्तरावच्छिन्ना क्रिया नाश्रीयते। ननु यथा'तेन दीव्यति' इत्यादौ सङ्ख्याकालयोरविवक्षा, तथेहापि संख्यावत्कालस्याप्यविवक्षा सिद्धा, सत्यम्; अयमेव न्यायसिद्धोऽर्थ उपसर्गद्वयोपादानेन प्रदर्श्यते। यदा त्वभिप्रैतीत्यस्य ईप्सतीत्यर्थः, तदाभिप्रग्रहणं कर्तव्यमेव। क्रियाग्रहणमपि कर्तव्यमिति वार्तिकम्, एतद्व्याचष्टे-क्रिययेत्यादि। ननु क्रियामपि लोके कर्मेत्युपचरन्ति-किं कर्म करिष्यसि, कां क्रियामिति, तत्र कर्मणा यमभिप्रैतीत्येव सिद्धम्। एवमपि कर्तव्यम्;'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवति' संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्। क्रियापि कृत्रिमं कर्म, तथा हि-य एव मनुष्यः प्रेक्षापूर्वकारी भवति, स बुद्ध्या तावत्कञ्चिदर्थं संपश्यति-इदमीद्दशमिति, तद् द्दष्ट्ंअ प्रार्थयते-अयि ममेदं स्यादिति, ततस्तदुपायभूतां क्रियां पश्यति-अस्या एतत्फलमिति, ततः प्रार्थयते-कथमियं निष्पपाद्यतामिति, ततस्तत्साधनानि समवधार्य कर्तुमध्यवस्यति। प्रतीयमानक्रियापेक्षोऽपि कारकभावो भवत्येव, यथा-प्रविश पिण्डीमित्यत्र भक्षयेति गम्यते। सूत्रकारश्च सूत्रयति-ठ्क्रियार्थोपपदस्य च कर्मणि स्थानिनःऽ इति। एवमपि क्रियाग्रहणं कर्तव्यम्; ददातिकर्मत्वात्। निगर्हते इति। नास्तिक्यान्निन्दतीत्यर्थः।'गर्ह गल्ह कुत्सायाम्' अनुदातेत्। युद्धायेति। युद्धविषयं संनाहपूर्वकं निश्चयं करोतीत्यर्थः। नह्यतिः स्वरितेत्। पत्ये शेते इति। पतिमुपसृत्य शेत इत्यर्थः। यदि तर्हि क्रिययाभिप्रेयमाणस्यापि भवति कटङ्करोतीत्यादावपि प्राप्नोति, वचनाद्धि कर्मसंप्रदानसंज्ञयोः पर्यायः स्यात्? नैतत्सार्वत्रिकम्, किं तर्हि? प्रयोगदर्शनवशेन नियतविषयम्। कर्मणः करणसंज्ञेत्यादि। एतछन्दोविषयम्, सर्वे विधयश्च्छन्दसि विकल्पन्ते, इति यथाप्राप्तमपि प्रयोगो भवति। भाष्ये तु ददातिकर्मणेति नाश्रितम्, प्रयोगाश्च बहवः-अर्यम्णे चरुं निर्वपेत्, देवेभ्यो ब्रह्माएदनमपक्षत्, देवेभ्यो हव्यं वहन्तः च्छन्दांसि वै देवेभ्यो हव्यमूर्धा, यदङ्गमाशुषे त्वम्, शं नः करत्पर्वते इत्यादयः, तन्मते क्रियाग्रहणं न कर्तव्यम्। कथं यत्र संप्रदानत्वमिष्यते? तत्र संदर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते, ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाभिप्रेयमाणस्य संप्रदानत्वम्, यत्र तु नेष्यते तत्र भेदो न विवक्ष्यते, ततश्चौदनाद्येकफलावच्छेदेनैकीकृतया क्रिययाऽऽप्यमानस्य कर्मत्वमेव भविष्यति-कटङ्करोति, ओदनं पचतीति। गत्यर्थेषु तूभयं विवक्ष्यते-भेदः, अभेदश्च; तत्र भेदविवक्षायां ग्रामं गच्छतीति प्रयोग इति'गत्यर्थकर्मणि' इत्येतदपि न वक्तव्यं भवति॥