परिक्रयणे सम्प्रदानमन्यतरस्याम्

1-4-44 परिक्रयणे सम्प्रदानम् अन्यतरस्याम् आ कडारात् एका सञ्ज्ञा कारके साधकतमं करणम्

Kashika

Up

index: 1.4.44 sutra: परिक्रयणे सम्प्रदानमन्यतरस्याम्


साधकतमम् इति वर्तते। पूर्वेन करणसंज्ञायां प्राप्ताया सम्प्रदानसज्ञा पक्षे विधीयते। परिक्रयणे साधकतमं कारकमन्यतरस्यां सम्प्रदानसंज्ञं भवति। परिक्रयणम् नियतकालं वेतनादिना स्वीकरणम्, नत्यन्तिकः क्रय एव। शतेन परिक्रीतोऽनुब्रूहि, शताय परिक्रीतोऽनुब्रूहि। सहस्रेण परिक्रीतोऽनुब्रूहि, सहस्राय परिक्रीतोऽनुब्रूहि।

Siddhanta Kaumudi

Up

index: 1.4.44 sutra: परिक्रयणे सम्प्रदानमन्यतरस्याम्


नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥<!तादर्थ्ये चतुर्थी वाच्या !> (वार्तिकम्) ॥ मुक्तये हरिं भजति ॥<!कॢपि सम्पद्यमाने च !> (वार्तिकम्) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥<!उत्पातेन ज्ञापिते च !> (वार्तिकम्) ॥ वाताय कपिला विद्युत् ।<!हितयोगे च !> (वार्तिकम्) ॥ ब्राह्मणाय हितम् ॥

Balamanorama

Up

index: 1.4.44 sutra: परिक्रयणे सम्प्रदानमन्यतरस्याम्


परिक्रयणे सम्प्रदानमन्यतरस्याम् - परिक्रयणे । नियतकालमिति ।तुभ्यमेतावद्वेतनं दीयते, तद्गृह्णन्नेतावन्तं कालं त्वं मम कर्मकरो भवे॑त्येवं परिमितकालं भृत्या स्वीकरणं परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह — तस्मिन्साधकतममिति । संप्रदानत्वाऽभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्द्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थीति । 'चतुर्थी संप्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात् ष्यञ् । तेन च उपकार्योपकारकभावसंबन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यमित्युदाहृतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति । मुक्त्यर्थमित्यर्थः । उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति । मुक्तिर्जन्येति गम्यते । प्राप्यत्वं वा, ब्राआहृणाय दधीति । ब्राआहृणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अनेनैव सिद्धेचतुर्थी सम्प्रदाने॑ इति सूत्रं संप्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यं, 'हरये रोचते भक्तिः' इत्यादौरुच्यर्थानां प्रीयमाणः॑ इत्याद्यर्थ तदावश्यकत्वादिति भाष्ये स्पष्टम् । कॢपि संपद्यमाने चेति । कॢपीति सप्तमी । सम्पत्तिः=विकारात्मना उत्पत्तिः । परिणाम इति यावत् । कॢपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः ।कॢपीत्यर्थग्रहण॑मित्यभिप्रेत्यादाहरति — संपद्यते जायते इत्यादीति । आदिना 'परिणमते' इत्यादिसङ्ग्रहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादथ्र्यचतुर्थ्यैव सिद्धमित्याहुः ।उत्पातेन ज्ञापिते चेति । अशुभसूचक आकस्मिको भूतविकार उत्पातः, तेन सूचितेऽर्थे विद्यमानाच्चतुर्थी वाच्येत्यर्थः । वातायेति । महाबातस्य सूचिकेत्यर्थः ।हितयोगे चेति ।चतुर्थी वाच्ये॑ति शेषः । ब्राआहृणाय हितमिति । ब्राआहृणस्य सुखकृदित्यर्थः ।याजनादी॑ति शेषः ।

Padamanjari

Up

index: 1.4.44 sutra: परिक्रयणे सम्प्रदानमन्यतरस्याम्


परिक्रयणशब्दे धातुगतमेव रेफमाश्रित्य रषाभ्याम्ऽ इत्येव णत्वम्, प्रथमोपनिपतितत्वाद्, यथोपसर्गाभावे क्रयणमिति; न तूपसर्गस्थमाश्रित्य'कृत्यचः' इत्यनेन तस्य पश्चादुपनिपतितत्वेन बहिरङ्गत्वात्। वेतनादिनेति। वेतनं भृतिः, नियतकालत्वमेव स्पष्टयति। नात्यन्तिकः क्रय एवेति। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्, नियतकालं तु तस्य समीपमेवेति परिशब्दस्यार्थः॥