अपादाने पञ्चमी

2-3-28 अपादाने पञ्चमी अनभिहिते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपादाने कारके पञ्चमी विभक्तिर्भवति। ग्रामादागच्छति। पर्वतादवरोहति। वृकेभ्यो बिभेति। अध्ययनात् पराजयते॥ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्॥ प्रासादमारुह्य प्रेक्षते, प्रासादात् प्रेक्षते॥ अधिकरणे चोपसंख्यानम्॥ आसन उपविश्य प्रेक्षते, आसनात् प्रेक्षते। शयनात् प्रेक्षते॥ प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या॥ कुतो भवान्? पाटलिपुत्रात्॥ यतश्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि। कार्त्तिक्या आग्रहायणी मासे॥ तद्युक्तात् काले सप्तमी वक्तव्या॥ कार्त्तिक्या आग्रहायणी मासे॥ अध्वनः प्रथमा सप्तमी च वक्तव्या॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि,चतुर्षु योजनेषु वा॥

Siddhanta Kaumudi

Up

ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्णं पतति ।<!जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥

Laghu Siddhanta Kaumudi

Up

ग्रामादायाति। धावतोऽश्वात्पततीत्यादि॥ इति पञ्चमी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपादाने पञ्चमी>> - अपादाने पञ्चमी । स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति । आगच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वाद्ग्रामोवधिरिति अपादानत्वात्पञ्चमी ।माथुराः पाटलीपुत्रकेभ्य आढतराः॑ इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनाऽनाश्रयभूतं यत्तदेव ध्रुवमिति व्याख्यायताम्, किमवधित्वविवक्षयेत्यत आह — धावतोऽआआत्पततीति । अआस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः ।जुगुप्सेति । जुगुप्साद्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः । पापाज्जुगुप्सत इति । पापविषये कुत्सितत्वबुद्ध्या न रमते इत्यर्थः । विरमतीति ।पापा॑दित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात्प्रमाद्यतीति । धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावाद्वचनमिदम् । यदा तु 'जुगुप्सते' इत्यादेर्जुगुप्सादिभिर्निवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।

Padamanjari

Up

अपादाने पञ्चमी॥ प्रासादादिति। अत्र ल्यबन्तस्याप्रयोगेऽप्यर्थो गम्यत इति द्वितीया प्राप्नोति। आसनादिति। सप्तम्यत्र प्राप्नोति। प्रत्याख्यानं तु - प्रेक्षणमुचक्षुषा पदार्थानां ज्ञानम्, तैजसं चक्षुर्बहिर्निः सृत्य विषयान् गृह्णाति, निःसरणाङ्गके च प्रेक्षणे धातुर्वर्तते, तत्राङ्गभूतनिः सरणं प्रति प्रासाद उपातविषयमपादानं भवति - प्रासादात्प्रेक्षत इति, कोर्थः? प्रासादप्रदेशाच्चाक्षुषं तेजो निः सार्य पदार्थान् गृह्णातीति। प्रश्नाख्यानयोश्चेति। विशिष्टे प्रश्नाख्याने गृह्यएते यत्र लोके पञ्चमी प्रयुज्यते। इह न भवति - कस्यायमर्थो राज्ञोऽर्थ इति। कुतो भवानिति। क्रियाया अभावादनपादानत्वात् फलवद्वचनप्रत्यक्षादिप्रमाणसिद्धामागमनादिक्रियामपेक्ष्येदं प्रयुज्यते, तत्र प्रयोक्तुराख्यातुश्च मनसि विपरिवर्तमानमागमनं प्रत्यपेक्षितक्रियमपादानम् - पाटलिपुत्रादिति। यतश्चेति। यदवधित्वेनाश्रित्याध्वकालयोः परिच्छेदस्तत इत्यर्थः। गवीधुमन्नाम नगरम्, सांकाश्यं तपोवनम्। कृतिकायुक्ता पौर्णमासी कार्तिकी, पौर्णमास्याम्'लुबविशेषे' इति लुब्न भवति'सास्मिन्पौर्णमासी' इत्यधिकारे'विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशात्। अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण्, ठाग्रहायण्यश्वत्थात्ऽ इति निपातनाण्णत्वम्। तद्यौ क्तादिति। तेन पञ्चम्यन्तार्थेनार्थद्वारेण युक्तात्काले वर्तमानान्मासादिशब्दादित्यर्थः। यद्वा - तया पञ्चम्या युक्तो योऽर्थः कार्तिक्यादिस्ततः परो यः कालो मासादिस्तत्र वर्तमानादित्यर्थः। अर्थतश्च परत्वं न शब्दत इति व्यवहितेऽपि भवति, कार्तिक्याग्रहायण्योर्मध्यवर्ती मासः कार्तिक्याः परो भवति। अध्वन इति। तद्यौक्तादित्यपेक्ष्यते। प्रत्याख्यानं तु-वाक्यैकदेशस्यात्र प्रयोगः। तदयमर्थः - गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि बवन्ति ततः सांकाश्यम्, चतुर्षु योजनेषु गतेषु सत्सु सांकाश्यमितिष गतानिति क कर्मणि निष्ठा, यदा जनैर्योजनानि गतानि भवन्ति ततस्तैः सांकाश्यं प्राप्यत इत्यर्थः। यद्वा - अध्ववर्तिनां निः सरणं गमनं वाध्वन्यारोप्य निःसृत्य गतानिति ल्यपः कर्तरि क्तस्य च प्रयोगः तस्य प्रतीयमाननिः सरणक्रियापेक्षपापादानत्वम्, गतानीति च प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमा गतेषु सत्स्विति'यस्य च भावेन भावलक्षणम्' इति सप्तमी, आग्रहायणी माम इति कार्तिक्याः परत्र मासे गते सति आग्रहायणी भवतीत्यर्थः। तत्र दिग्योगलक्षणा पञ्चमी, सप्तमी पूर्ववत्॥