आधारोऽधिकरणम्
1-4-45 आधारः अधिकरणम् आ कडारात् एका सञ्ज्ञा कारके
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
क्रियां कर्तुं कर्ता तथा च कर्म एताभ्याम् यस्य आधाररूपेण प्रयोगः क्रियते तत् कारकं अधिकरणसंज्ञं भवति । यथा - कटे आस्ते, स्थाल्यां पचति ।
Kashika
Up
आध्रियन्तेऽस्मिन् क्रिया इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोर्धारणक्रियां प्रति य आधारः, तत् कारकमधिकरणसंज्ञं भवति। कट आस्ते। कटे शेते। स्थाल्यां पचति। अधिकरणप्रदेशाः — <<सप्तम्यधिकरणे च>> २.३.३६ इत्येवमादयः॥
Siddhanta Kaumudi
Up
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi
Up
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्॥
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 अस्मिन् अधिकारे अधिकरणसंज्ञायाः विधानम् प्रकृतसूत्रेण क्रियते । क्रियां कर्तुम् कर्ता तथा कर्म यस्य पदार्थस्य आधाररूपेण उपयोगं कुरुतः (इत्युक्ते, यस्य आश्रयेण क्रियां कुरुतः), तस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । यथा, देवदत्तः कटे आस्ते इत्यत्र आसनक्रियायाः कर्ता देवदत्तः आसनक्रियार्थम् कटस्य आधाररूपेण उपयोगं करोति, अतः कटपदार्थस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । एवमेव, देवदत्तः स्थाल्यां ओदनं पचति इत्यत्र पचनक्रियाया: कर्म ओदनम् स्थाल्याः आश्रयेण विद्यते, अतः कर्मणः आधारभूतस्य स्थालीपदार्थस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । उभयत्र अधिकरणसंज्ञायां जातायाम् <<सप्तम्यधिकरणे च>> 2.3.36 इत्यनेन सप्तमीविभक्तेः प्रयोगः भवति ।
आधार: इत्यस्य व्युत्पत्तिः, अर्थः च
काशिकाकारः
आधारः इति शब्दस्य व्युत्पत्तिं प्रदर्शयन् ब्रूते -
आध्रियन्ते अस्मिन् क्रियाः इति आधारः । <<आ>>-उपसर्गपूर्वकात् <<धृङ् अवस्थाने>> <{6.148}> इति धातोः <<अध्यायन्यायोद्यावसंहाराधारावायाश्च>>
3.3.112 इति सूत्रेण अधिकरणे <<घञ्>>-प्रत्यये कृते
आधारः इति शब्दः सिद्ध्यति । यः पदार्थः अन्यान् आश्रयं ददाति, सः आधारसंज्ञकः भवति इति अस्य आशयः । प्रकृतसूत्रं <<आधारोऽधिकरणम्>>
1.4.45 इति तु कारकाधिकारे विद्यते, अतः अस्य सूत्रस्य सन्दर्भेण
क्रियायाः आधारस्य (आश्रयस्य) ग्रहणम् एव सयुक्तिकं भाति । परन्तु क्रिया इत्युक्ते फलं, व्यापारश्च; किञ्च, तत्र फलम् कर्मणः आश्रयेण तिष्ठति, व्यापारः च कर्तुः आश्रयेण तिष्ठति । अतः अत्र "क्रियायाः आधारः" इत्यनेन कर्ता कर्म च गृह्येते । एतयोः पुनः अधिकरणसंज्ञया न कश्चन लाभः, अतः अत्र "क्रियायाः आश्रयः" इत्यनेन
व्यापाराश्रयः यः कर्ता, तस्य अपि आश्रयः, तथा च
फलाश्रयं यत् कर्म, तस्यापि आश्रयः इति व्याख्या स्वीक्रियते । अतएव प्रकृतसूत्रे काशिकाकारः
कर्तृकर्मणोः क्रियां प्रति यः आधारः इति अधिकरणस्य व्याख्यां ददाति । कौमुद्याम् अपि
कर्तृकर्मद्वारा तन्निष्ठक्रियायाः आधारः इति वचनेन अधिकरणसंज्ञा ज्ञापिता अस्ति । भर्तृहरिणा अपि अस्यैव निर्देशः स्वकारिकायां (
वाक्यपदीये 3.7.148 इत्यत्र) कृत्वा
असाक्षात् क्रियां धारयति तत् अधिकरणम् इति अधिकरणस्य व्याख्या दत्ता वर्तते । संक्षेपेण,
क्रियायाः प्रथम-स्तरीयौ आधारौ कर्ता कर्म च, तथा तयोः अपि आधारः अधिकरणम् - इति अधिकरणस्य व्याख्या दीयते ।
अधिकरणस्य त्रयः भेदाः
<<संहितायाम्>>
6.1.72 अस्मिन् सूत्रे भाष्ये भाष्यकारेण
अधिकरणस्य त्रयः भेदाः निर्दिष्टाः लभ्यन्ते । तत्र भाष्यकारः वदति -
अधिकरणं नाम त्रिः प्रकारम् - व्यापकम्, औपश्लेषिकम्, वैषयिकम् । अधिकरणस्य एते त्रयः भेदाः अधः विवृताः सन्ति -
1. व्यापकम् अधिकरणम् - यत्र एकः पदार्थः अन्यं पदार्थं सम्पूर्णरूपेण एतादृशं व्याप्नोति यत् द्वयोः पदार्थयोः सरलतया पृथक्करणं न शक्यते, तत्र व्यापकम् अधिकरणम् अस्ति उच्यते । यथा, तिलेषु तैलम् । अत्र वस्तुतः तैलपदार्थः तिलपदार्थात् भिन्नः, परन्तु सः तिलपदार्थे समग्ररूपेण व्याप्तः अस्ति (समवायसम्बन्धेन वसति), तथा च तं सरलतया (इत्युक्ते तन्त्राणां सहायं विना) तिलात् पृथक् अपि न कर्तुं शक्यते । अतः इदम् व्यापक-अधिकरणस्य उदाहरणम् । एवमेव, दध्नि सर्पिः, पुष्पे सुगन्धः, घटे रूपम्, शर्करायां माधुर्यम्, शरीरे चेष्टा (movement) इत्यादयः प्रयोगाः सङ्गच्छन्ते ।
2. औपश्लेषिकम् अधिकरणम् - यत्र एकः पदार्थः अन्यपदार्थस्य केवलं कञ्चन अंशं व्याप्नोति, तथा च द्वयोः पदार्थयोः पृथक्करणम् अपि सरलम्, तत्र औपश्लेषिकम् अधिकरणम् अस्ति इत्युच्यते । यथा - देवदत्तः कटे आस्ते । अत्र देवदत्तः कटस्य प्रत्येकम् अणुं (लघ्वंशं) नैव व्याप्नोति, अतः इदम् औपश्लेषिक-अधिकरणस्य उदाहरणम् । एवमेव गङ्गायां मीनः, हस्ते ग्रन्थः, कूप्यां जलम्, ग्रामे निवासः इत्यादयः प्रयोगाः सङ्गच्छन्ते । किञ्च, औपश्लेषिकम् इति शब्दे विद्यमानस्य "उपश्लेष" इति प्रातिपदिकस्य अर्थः सामीप्यम् इत्यपि अस्ति, अतः सामीप्यस्य आधारेण प्राप्तम् अधिकरणम् अपि औपश्लेषिकम् इति नाम्ना एव ज्ञायते । यथा, गङ्गायां घोषः । गङ्गायाः तीटे विद्यमानानां गोपालगृहाणां समूहस्य अयं निर्देशः अस्ति । अत्रः गङ्गायाः इति शब्देन गङ्गासमीपे इति अर्थः प्रतीयते । एवमेव, द्वारे नियुक्तः (= द्वारस्य समीपे नियुक्तः), मासे दीयते (= मासस्य समीपे दीयते) इत्यत्रापि सामीप्यस्य आधारेण एव औपश्लेषिकम् अधिकरणं विद्यते । एवमेव न, अपितु व्याकरणशास्त्रे वर्णानां सामीप्यम् अपि औपश्लेषिक-अधिकरणत्वेन एव गृह्यते, अतश्च <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> 1.1.66 इत्यनेन विहिता "परसप्तमी' अपि औपश्लेषिक-अधिकरणम् एव दर्शयति ।
3. वैषयिकम् अधिकरणम् - यत्र साक्षात् सामीप्यम् उत व्याप्तिः न वर्तते, परन्तु कथञ्चित् आश्रयस्य बोधः अवश्यं भवति, तत्र वैषयिकम् अधिकरणम् अस्ति इत्युच्यते । यथा, गुरौ भक्तिः इत्यत्र छात्रस्य मनसि विद्यमानायाः भक्तेः आश्रयस्थानम् गुरुः अस्ति - इति आशयः विद्यते । अत्र साक्षात् व्याप्तिः उत सामीप्यम् नास्ति (भक्तिः गुरुं नैव व्याप्नोति न वा गुरोः समीपे तिष्ठति), परन्तु अत्र आश्रयस्य बोधः अवश्यमेव भवति, अतः अत्र वैषयिकम् अधिकरणम् अस्ति इति उच्यते । एवमेव, आकाशे खगः, मनसि सङ्कल्पः, शास्त्रे नैपुण्यम्, सुहृदि विश्वासः, पुत्रे स्नेहः इत्यादिषु विद्यमानम् अधिकरणम् अपि "वैषयिकम् अधिकरणम्" अस्ति । कैयटेन तु अत्र एकः पदार्थः अपरस्य अधीनः अस्ति इति सन्दर्भं स्वीकृत्य अपि उदाहरणानि दत्तानि सन्ति । यथा, जगत् ईश्वरे अधीनम्, सेवकः राज्ञि वसति इत्यत्रापि वैषयिकम् अधिकरणम् एव ज्ञेयम् ।
अधिकरणस्य एते त्रयः अपि भेदाः प्रकृतसूत्रेणैव अधिकरणसंज्ञाम् प्राप्नुवन्ति ।तत्कथम् इति चेत्, प्रकृतसूत्रे पाणिनिना "आधारतमम् अधिकरणम्" इति नोच्यते अपि तु केवलम् "आधारः अधिकरणम्" इत्येव विधानं कृतम् अस्ति । अतश्च, <<साधकतमं करणम्>>
1.4.42 इत्यत्र भाष्यकारेण पाठितस्य इति भाष्यवचनस्य आधारेण सर्वेषाम् भेदानाम् (इत्युक्ते मुख्य-आधारस्य तथा च गौण-आधारयोः अपि) अनेनैव सूत्रेण अधिकरणसंज्ञा भवति ।
बाध्यबाधकभावः
कारकप्रकरणे प्रकृतसूत्रात् अनन्तरम् पाठितैः त्रिभिः सूत्रैः आधारस्य प्रकृतसूत्रेण प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । एतानि त्रीणि अपि सूत्राणि प्रकृतसूत्रस्य अपवादाः सन्ति । तानि एतादृशानि -
1. <<अधिशीङ्स्थासां कर्म>> 1.4.46 - <<अधि + शीङ्>>, <<अधि + स्था>> तथा च <<अधि + आस्>> एतेषाम् आधारस्य कर्मसंज्ञा भवति । यथा - हरिः वैकुण्ठम् अधिशेते, अधितिष्ठति, अध्यास्ते ।
2. <<अभिनिविशश्च>> 1.4.47 - <<अभि + नि + विश्>> इत्यस्य आधारस्य कर्मसंज्ञा भवति । यथा - ग्रामम् अभिनिविशते ।
3. <<उपान्वध्याङ्वसः>> 1.4.48 - <<उप् + वस्>>, <<अनु + वस्>>, <<अधि + वस्>>, <<आङ् + वस्>> एतेषाम् आधारस्य कर्मसंज्ञा भवति । यथा - हरिः वैकुण्ठम् उपवसति, अनुवसति, अधिवसति, आवसति ।
##Balamanorama
<<आधारोऽधिकरणम्>> - आधारोऽधिकरणं । 'कारके' इत्यधिकृतं प्रथमान्ततया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायामुपस्थितत्वात्क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किंतु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह — कर्तृकर्मद्वारेति । तन्निष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः ।
##Padamanjari
आध्रियन्तेऽस्मिन् क्रिया इत्याधार इति ठध्यायन्यायोद्यावऽ इत्यादिनाऽधिकरणे घञ्। क्रियापेक्षत्वात् कारकभावस्य क्रियाग्रहणम्। यदि क्रियाधारस्याधिकरणसंज्ञा, कर्तृकर्मणोरेव स्यात्। कर्तृस्था हि क्रिया भवति कर्मस्था वा। कर्तृसंज्ञायाः कोऽवकाशः? ये कर्मस्थक्रियाः- पचत्योदनं देवदत इति। नन्वत्राप्यधिश्रयणादेराधारः कर्तेति स्यादेव प्रसङ्गः? अयं तर्ह्यवकाशः- देवदताय रोचते मोदक इत्युक्तम्, अत्र देवदतस्थस्याभिलाषस्य मोदकः कर्तेति। अथाप्यनवकाशा कर्तृसंज्ञा? एवमपि पर्यायः स्यात्। अथ कर्मसंज्ञायाः कोऽवकाशः? ये कर्तृस्थक्रियाः-आदित्यं पश्यतीति। अतः कर्तृकर्मणोरेवाधिकरणसंज्ञाप्रसङ्ग इत्यत आह - कर्तृ कर्मणोरित्यादि। कथं पुनः साक्षात्क्रियाधारे सम्भवति क्रियाधारभूतकर्तृ कर्मव्यवधानेन क्रियाधारस्य गौणस्य ग्रहणं शक्यं विज्ञातुम्? करणसंज्ञायां तमब्ग्रहणेन ज्ञापितमेतद्-यथाकथञ्चित्क्रियाधारस्यापि करणसंज्ञा भवतीति। मुख्यस्यापि तु कस्मान्न स्याद्? आस्त इति कर्तृस्थायाः क्रियाया उदाहरणम्। पचतीति कर्मस्थायाः। त्रिविधं च तदधिकरणम् - औपश्लेषिकम्, वैषयिकम्, अभिव्यापकं चेति। कटे आस्ते,गुरौ आवसति, तिलेषु तैलमिति॥