क्रुधद्रुहोरुपसृष्टयोः कर्म
1-4-38 क्रुधद्रुहोः उपसृष्टयोः कर्म आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम् यं प्रति कोपः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
सोपसर्गस्य क्रुध् तथा द्रुह् धातोः प्रयोगे "यं प्रति कोपः जायते" तत् कारकं कर्मसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति ।
Kashika
Up
पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। क्रुधद्रुहोरुपसृष्टयोरुपसर्गसंबद्धयोर्यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति। देवदत्तमभिक्रुध्यति। देवदत्तमभिद्रुह्यति। उपसृष्टयोरिति किम्? देवदत्ताय क्रुध्यति। यज्ञदत्ताय द्रुह्यति॥
Siddhanta Kaumudi
Up
सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं प्रथमं सूत्रम् । अनेन सूत्रेण सोपसर्गस्य <<क्रुध् (क्रोधे)>> <{4.86}>, तथा <<द्रुह् (जिघांसायाम्)>> <{4.96}>, एतयोः धात्वोः विषये कर्मसंज्ञा विधीयते । एतयोः क्रिययोः कर्ता यं प्रति कोपं करोति तत् कारकम् प्रकृतसूत्रेण कर्मसंज्ञं भवति । क्रमेण उदाहरणानि एतानि -
1. <<क्रुध् (क्रोधे)>> <{4.86}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अमर्षः (क्रोधः) इति दत्तः अस्ति । क्रोधस्य प्रथमः सोपानः कोपः अस्ति इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र यस्य विषये कोपः जायते (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य कर्मसंज्ञा भवति । यथा - देवदत्तः यज्ञदत्तम् अभिक्रुध्यति ।
2. <<द्रुह् (जिघांसायाम्)>> <{4.96}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अपकारः इति दीयते । अपकारः इत्युक्ते दुःखजनिका क्रिया । सा क्रिया यया अन्यस्य अहितं भवति, द्रोहः नाम्ना ज्ञायते । अस्य द्रोहस्य मूले अपि कोपः एव वर्तते, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्तम् अभिद्रुह्यति ।
बाध्यबाधकभावः
प्रकृतसूत्रम् <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः >> 1.4.37 इत्यस्य अपवादरूपेण प्रवर्तते । <<क्रुध्>> तथा <<द्रुह्>> धात्वोः सन्दर्भेण यं प्रति कोपः वर्तते, तस्य <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः >> 1.4.37 इत्यनेन वस्तुतः सम्प्रदानसंज्ञा प्राप्नोति । परन्तु उपसर्गस्य उपस्थितौ अस्याः सम्प्रदानसंज्ञायाः बाधं कृत्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते ।
दलकृत्यम्
1. उपसृष्टयोः इति किम् ? - केवलस्य (अनुपसर्गस्य) <<क्रुध्>>-धातोः विषये, <<द्रुह्>>-धातोः च विषये प्रकृतसूत्रस्य प्रयोगः मा भूत् - इति दर्शयितुम् अत्र उपसृष्टयोः इति पदं स्थापितम् अस्ति । अतएव देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति इत्यत्र प्रकृतसूत्रेण कर्मसंज्ञा न भवति ।
सूत्रनिर्माणस्य प्रयोजनम्
<<क्रुध्>> तथा <<द्रुह्>> एतौ धातू सोपसर्गौ अपि अकर्मकौ एव स्तः । अतश्च एतयोः विषये यं प्रति कोपः भवति तस्य <<कर्तुरीप्सिततमं कर्म>> 1.4.49 इत्यनेन कर्मसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रेण एतयोः विषये विशेषरूपेण कर्मसंज्ञा उच्यते । यदि प्रकृतसूत्रं नैव स्यात्, तर्हि सोपसर्गयोः <<क्रुध्>>/<<द्रुह्>>-धात्वोः विषये अपि <<क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः >> 1.4.37 इत्यनेन सम्प्रदानसंज्ञा एव अभविष्यत् । अपि च, तस्याः निषेधार्थम् प्रकृतसूत्रस्य स्थाने "क्रुधद्रुहोरुपसृष्टयोः न" इति सूत्रं रच्यते चेदपि तत्र कस्यापि कारकस्य अभावात् <<षष्ठी शेषे>> 2.3.50 इत्यनेन षष्ठीविभक्तिः अभविष्यत् । एतादृशं मा भूत्, अपितु इष्टा कर्मसंज्ञा एव भवेत् इति ज्ञापनाय अत्र प्रकृतसूत्रम् आवश्यकम् अस्ति ।
##Balamanorama
<<क्रुधद्रुहोरुपसृष्टयोः कर्म>> - क्रुधद्रुहोः ।उपसृष्टयो॑रित्येतद्व्याचष्टे — सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात्क्रियया यमभिप्रैती॑ति संप्रदानत्वस्य न प्रसक्तिः । नापि तादथ्र्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम् । अतः शेषषष्ठआं प्राप्ताया वाचनिकां कर्मत्वम् ।
##Padamanjari
उपसर्गेण सम्बद्धयोरिति। ठुपसर्गाः क्रियायोगेऽ उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा॥