राधीक्ष्योर्यस्य विप्रश्नः
1-4-39 राधीक्ष्योः यस्य विप्रश्नः आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
राध् तथा ईक्ष् एतयोः धात्वोः विषये "यस्य विषये शुभाशुभस्य प्रश्नाः क्रियन्ते" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्ताय राध्यति, देवदत्ताय ईक्षते ।
Kashika
Up
राधेरीक्षेश्च कारकं संप्रदानसंज्ञं भवति। कीदृशम्? यस्य विप्रश्नः, विविधः प्रश्नः विप्रश्नः। स कस्य भवति? यस्य शुभाशुभं पृच्छ्यते। देवदत्ताय राध्यति। देवदत्तायेक्षते। नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः॥
Siddhanta Kaumudi
Up
एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं सप्तमं सूत्रम् । अनेन सूत्रेण <<राध् (वृद्धिसिद्धिद्रोहदैवपर्यालोचनादिषु )>> <{4.77}> तथा च <<ईक्ष् (दर्शने)>> <{1.694}> इत्येतयोः संदर्भे सम्प्रदानसंज्ञा दीयते । एतयोः द्वयोः धात्वोः प्रयोगः यदा दैवपर्यालोचनम् (भविष्यस्य सन्दर्भेण शुभाशुभस्य कथनम्) अस्मिन् अर्थे क्रियते, तदा यस्य शुभाशुभम् कथ्यते तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, गर्गः देवदत्ताय राध्यति, गर्गः देवदत्ताय ईक्षते इति । गर्गः इत्याख्यः कश्चन ज्यौतिषिकः (astrologer) देवदत्तस्य भविष्यस्य (शुभाशुभस्य) विषये पृष्टे सति, देवदत्तस्य जन्मपत्रादिकं दृष्ट्वा तस्य भविष्यस्य विषये किञ्चित् कथयति - इति अनयोः द्वयोः वाक्ययोः अर्थः वर्तते ।
यस्य विप्रश्नः इत्यस्य अर्थः
प्रकृतसूत्रे
यस्य विप्रश्नः इति शब्दः प्रयुक्तः अस्ति । अत्र विद्यमानस्य
विप्रश्नः इति शब्दस्य विग्रहः
विविधः प्रश्नः इति दीयते । अतः
यस्य विप्रश्नः = यस्य विषये विविधाः प्रश्नाः पृछ्यन्ते । एते प्रश्नाः भविष्यकथनस्य सन्दर्भेण भवेयुः इति व्याख्यानात् स्पष्टीभवति । एतादृशाः प्रश्नाः यस्य विषये पृच्छ्यन्ते, तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति ।
<<राध्>>, <<ईक्ष्>> इति धात्वोः अर्थः
प्रकृतसूत्रे यद्यपि
विप्रश्नः इति शब्दः प्रयुक्तः अस्ति, तथापि अत्र विशेषः अयम्, यत् <<राध्>> तथा <<ईक्ष्>> इत्येतयोः धात्वोः अर्थः
भविष्यस्य विषये प्रश्नविधानम् इति नास्ति, अपितु
प्रश्ने पृष्टे सति भविष्यस्य विषये कथनम् इति अनयोः अर्थः वर्तते । इत्युक्ते, अत्र
विप्रश्नः इति राध्यति / ईक्षते इत्यस्य प्रथमः सोपानः अस्ति । देवदत्तस्य भविष्यस्य (शुभाशुभस्य विषये) यदा ज्यौतिषिकम् उद्दिश्य प्रश्नाः क्रियन्ते, तदा सः ज्यौतिषिकः तेषां प्रश्नानाम् उत्तरार्थम् देवदत्तस्य शुभाशुभस्य यत् पर्यालोचनं (चिन्तनम् / कथनम्) करोति, सा कृतिः
राध्यति /
ईक्षते इति शब्दाभ्याम् निर्दिश्यते । अस्यां स्थितौ यस्य विषये प्रश्नाः कृताः (इत्युक्ते यस्य विषये शुभाशुभस्य पर्यालोचनं कृतम्), तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति, येन
देवदत्ताय राध्यति,
देवदत्ताय ईक्षते इत्यादयः प्रयोगाः सिद्ध्यन्ति ।
<<राध्>> तथा <<ईक्ष्>> उभावपि धातू दैवपर्यालोचनम् अस्मिन् अर्थे यदा प्रयुज्येते तदा एतौ अकर्मकौ स्तः । अतः "देवदत्तस्य भविष्यं राध्यति / देवदत्तस्य शुभाशुभं ईक्षते" इत्यादीनि वाक्यानि अशुद्धानि सन्ति । <<राध्>> / <<ईक्ष्>> इत्यतयोः धात्वोः अर्थे एव शुभाशुभ-पर्यालोचनम् गर्भितम् अस्ति, तथा च एतयोः प्रयोगे "यस्य विषये शुभाशुभस्य पर्यालोचनं क्रियते" तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा एव भवति ।
Balamanorama
Up
Padamanjari
Up
यस्येति कर्मणि षष्ठी, यद्विविधं पृच्छ्यत इत्यर्थः। यत्सम्बन्धीत्यादि। यत्सम्बन्धिनः शुभाशुभस्य विप्रश्न इति। देवदत्ताय राध्यतीति। राधोऽकर्मकाद्वृद्धावेव इति दिवादौ, तत्र वृद्धावित्युपलक्षणमकर्मकादिति वचनाद् वृद्धावकर्मकत्वाव्यभिचारात्। एवकारस्तु भिन्नक्रमः- राधोऽकर्मकादेव श्यन् भवति, यथा-वृद्धाविति। तेन सत्यप्येवकारे पर्यालोचनस्य वृत्तिरविरुद्धा। तत्र धात्वर्थेनोपसंग्रहाज्जीवत्यादिवद् राधोऽकर्मत्वमविरुद्धम्। निमितं वेद नैमितिकः, उञ्छादिषु वसन्तादिषु वा निमित्तशब्दो द्रष्टव्यः। यस्यग्रहणमनर्थकम्, यं प्रतीत्येव, तत्र यं प्रति विप्रश्न इत्यन्वये किं नाम विवक्षितं न सिध्यति॥