1-4-22 द्व्येकयोः द्विवचनैकवचने आ कडारात् एका सञ्ज्ञा
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्वि-एकयोः द्विवचन-एकवचने
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्वित्वे विवक्षिते द्विवचनस्य तथा एकत्वे विवक्षिते एकवचनस्य प्रयोगः भवति ।
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
For referring to two, the द्विवचन forms are used, where as for referring to one, the एकवचन forms are used.
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्वित्वएकयोरर्थयोः द्विवचनएकवचने भवतः। एतदपि सामान्यविहितयोर्द्विवचनएकवचनयोरर्थाभिधानम्। द्वित्वे द्विवच्नं भवति। एकत्वे एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति।
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्वित्वैकत्वयोरेते स्तः ॥
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्वित्वैकत्वयोरेते स्तः॥
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
अनेन सूत्रेण द्विवचन-संज्ञक-प्रत्ययस्य एकवचन-संज्ञकस्य प्रत्ययस्य कुत्र प्रयोगः भवति तत् स्पष्टीक्रियते । यत्र द्वयोः विवक्षा अस्ति, तत्र द्विवचनसंज्ञकः प्रत्ययः, यत्र एकवचनसस्य विवक्षा अस्ति, तत्र एकवचनसंज्ञकस्य प्रयोगः भवति ।
यथा -
1) बालः गच्छति - अस्मिन् वाक्ये एकस्य बालकस्य विषये एव प्रोच्यते, अतः अत्र एकवचनस्य प्रयोगः कृतः अस्ति ।
2) बालौ गच्छतः - अस्मिन् वाक्ये द्वयोः बालकयोः विषये उच्यते, अतः अत्र द्विवचनस्य प्रयोगः क्रियते ।
ज्ञातव्यम् -
1) एकवचनम् तथा द्विवचनम् एते संज्ञे तान्येकवचनद्विवचनबहुवचनान्येकशः 1.4.102 अनेन सूत्रेण दीयेते । सुप्-प्रत्ययानाम् तथा तिङ्-प्रत्ययानाम् इमे संज्ञे भवतः ।
2) एकवचनस्य प्रयोगः सामान्येन तदा अपि भवति यदा विशिष्टा सङ्ख्या विवक्षिता नास्ति ।
भाषाविशेषः - सामान्यरूपेण अद्यतनकाले संस्कृतसम्भाषणे एकवचनस्य विवक्षायामपि आदरं प्रकटितुम् बहुवचनस्य प्रयोगः कृतः दृश्यते । यथा - एकम् मनुष्यमुद्दिश्य अपि 'भवन्तः कथम् सन्ति' इतिप्रकारेण प्रश्नः पृछ्यते । अयं प्रयोगः व्याकरणसम्मतः नास्ति । मूलतः एकवचनस्य प्रयोगेण अनादरः भवति, बहुवचनस्य प्रयोगेण च आदरः दर्श्यते, एतादृशम् चिन्तनमयोग्यम् एव । वचनानां प्रयोगः केवलं सङ्ख्यायाः विवक्षायाम् भवति, आदरस्य / अनादरस्य विवक्षायाम् न, एतत् स्मर्तव्यम् ।
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्व्येकयोर्द्विवचनैकवचने - द्वयेकयोः ।द्वयेकयो॑रिति भावप्रधानो निर्देशः, अन्यथाद्वयके॑ष्विति स्यादित्यभिप्रेत्य व्याचष्टे — द्वित्वैकत्वयोरिति ।
index: 1.4.22 sutra: द्व्येकयोर्द्विवचनैकवचने
द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एवठ्द्व्येकयोःऽ इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थःउवाच्योऽभिधीयतेउकथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र'संख्याया अल्पीयस्यः' इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये॥