दिवः कर्म च
1-4-43 दिवः कर्म च आ कडारात् एका सञ्ज्ञा कारके साधकतमं करणम्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
दिव्-धातोः प्रयोगे यत् साधकतम्, तत् कारकं कर्मसंज्ञकं करणसंज्ञकं च भवति । यथा - अक्षान् दीव्यति, अक्षैः दीव्यति ।
Kashika
Up
पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम्, तत् कर्मसंज्ञं भवति चकारात् करणसंज्ञं च। अक्षान् दीव्यति। अक्षैर्दीव्यति॥
Siddhanta Kaumudi
Up
दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयं सूत्रम् । अनेन सूत्रेण <<दिव् (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)>> <{4.1}>, अस्य धातोः साधकतमस्य (प्रकृष्टोपकारकस्य) कर्मसंज्ञा विधीयते । यद्यपि धातुपाठे दिव्-धातोः बहवः अर्थाः उक्ताः सन्ति, तथापि प्रकृतसूत्रस्य सन्दर्भेण क्रीडा (द्यूतक्रीडा) इत्येव अर्थः अत्र स्वीक्रियते । सामान्यरूपेण अस्यां द्यूतक्रीडायां प्रकर्षेण उपयोगिनः सन्ति अक्षाः (dice) । अतः द्यूतक्रिडायां अक्षाः एव साधकतमत्वेन परिगण्यन्ते, अतश्च अक्षपदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, अक्षान् दीव्यति, । किञ्च, सूत्रे चकारग्रहणसामर्थ्यात् <<साधकतमं करणम्>> 1.4.42 इत्यनेन अक्षपदार्थस्य करणसंज्ञा अपि भवति, येन अक्षैः दीव्यति इत्यपि प्रयोगः सिद्ध्यति । एवमेव, मनस्-पदार्थम् साधकतमं मत्वा, तस्य कर्मसंज्ञां करणसंज्ञां च कृत्वा मनसा दीव्यति तथा च मनः दीव्यति इति प्रयोगौ अपि सङ्गच्छेते ।
संज्ञाद्वयस्य युगपत्-विधानम्
अत्र इदम् अवधेयम्, यत् प्रकृतसूत्रेण <<दिव्>>-धातोः प्रयोगे
साधकतमस्य कर्मसंज्ञा तथा च करणसंज्ञा युगपत् विधीयते । इत्युक्ते, एकस्मिन् एव समये अक्षपदार्थः कर्मसंज्ञकः अपि अस्ति, करणसंज्ञकः अपि अस्ति । एतादृशं संज्ञाद्वयस्य युगपत् विधानम्
मनसादेवः तथा च
देवदत्तः यज्ञदत्तेन अक्षैः देवयते इत्येतयोः द्वयोः प्रयोगयोः साधुत्वज्ञापनार्थम् आवश्यकम् अस्ति । क्रमेण विवरणम् एतादृशम् -
1. मनसादेवः - मनसा दीव्यति इति वृत्तिवाक्ये, मनस्-शब्दस्य कर्मसंज्ञां स्वीकृत्य <<कर्मण्यण्>> 3.2.1 इत्यनेन <<अण्>>-प्रत्यये कृते, तथा च तस्मिन्नेव समये मनस्-शब्दस्य करणसंज्ञां स्वीकृत्य, तस्याः निर्देशार्थम् विग्रहवाक्ये मनसा इति तृतीयान्तं रूपं प्रयुज्य, अग्रे उपपदसमासे मनस् + टा + दिव् + अण् इति स्थिते, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन तृतीयैकवचनस्य <<टा>>-प्रत्ययस्य लुकि प्राप्ते, <<मनसः संज्ञायाम्>> 6.3.4 इत्यनेन प्रत्ययस्य अलुक् भवति । अग्रे <<दिव्>>-धातोः उपधागुणं कृत्वा मनसादेवः इति शब्दः सिद्ध्यति । अनेन प्रकारेण अस्य शब्दस्य सिद्धौ कर्मसंज्ञासामर्थ्यात् अण्-प्रत्ययः, तथा च करणसंज्ञासामर्थ्यात् तृतीया, तस्याः च अलुक् - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते ।
2. देवदत्तः यज्ञदत्तेन अक्षैः देवयते - इदं णिजन्तवाक्यम् अस्ति, यस्य आशयः "यज्ञदत्तः अक्षैः दीव्यति, देवदत्तः तं तथा कर्तुं प्रेरयति" इति वर्तते । अत्र णिजन्तवाक्ये अक्षपदार्थस्य युगपत् कर्मसंज्ञा तथा च करणसंज्ञा आवश्यकी वर्तते । तदित्थम् - अक्ष-पदार्थस्य करणसंज्ञाम् स्वीकृत्य तस्याः निर्देशार्थम् तृतीयायाः प्रयोगः साधुत्वं प्राप्नोति , येन अक्षैः इति शब्दः सिद्ध्यति । किञ्च, तस्मिन्नेव समये, अक्ष-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते, येन <<दिव्>>-धातुः सकर्मकः भवति, तथा च शुद्धकर्तुः (<<यज्ञदत्त>>पदार्थस्य) णिजन्तप्रयोगे कर्तृसंज्ञा न बाधते । यदि <<दिव्>>-धातुः अकर्मकरूपेण परिगण्येत, तर्हि <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> 1.4.52 इत्यनेन सूत्रेण <<दिव्>>-धातोः शुद्धकर्ता (यज्ञदत्तः) णिजन्तप्रयोगे कर्मसंज्ञकः अभविष्यत्, येन यज्ञदत्तेन इति प्रयोगः असाधुत्वं प्राप्नुयात् । एतदेव न, अपितु, <<दिव्>>-धातोः अकर्मकत्वे सति <<अणावकर्मकाच्चित्तवत्कर्तृकात् >> 1.3.88 इत्यनेन सूत्रेण <<णिच्>>-प्रत्ययान्त-<<दिव्>>-धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः समभविष्यन्, येन देवयते इति प्रयोगः अपि असाधुत्वं प्राप्नुयात् । एतौ दोषौ दूरीकर्तुम् अत्र अक्ष-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते । एतादृश्यां कर्मसंज्ञायां सत्यां <<दिव्>>-धातुः सकर्मकः भवति, येन शुद्ध-कर्तुः (यज्ञदत्तपदार्थस्य) णिजन्तप्रयोगे अपि कर्तृसंज्ञा एव तिष्ठति, तथा च एतादृशस्य अनभिहित-शुद्ध-कर्तुः निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>> 2.3.18 इत्यनेन तृतीया एव विधीयते, येन यज्ञदत्तेन इति प्रयोगः साधुत्वं प्राप्नोति । एवमेव, <<दिव्>>-धातोः सकर्मकत्वात् <<अणावकर्मकाच्चित्तवत्कर्तृकात् >> 1.3.88 इति अकर्मक-धातु-विशिष्टं सूत्रम् अपि न प्राप्नोति, येन देवयते इति णिजन्तधातोः आत्मनेपदे कृतः प्रयोगः अपि <<णिचश्च>> 1.3.74 इत्यनेन अवश्यमेव साधुत्वं प्राप्नोति । एतादृशम्, देवदत्तः यज्ञदत्तेन अक्षैः देवयते इत्यत्र, यज्ञदत्तेन तथा च देवयते इति प्रयोगार्थं कर्मसंज्ञा, अपि च अक्षैः इति प्रयोगार्थम् करणसंज्ञा - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते ।
##Balamanorama
<<दिवः कर्म च>> - दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह — दिवः साधकतममिति । दिवुधात्वर्थं प्रति साधकतममित्यर्थः । चादिति । चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः ।
##Padamanjari
ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रीडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह - पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् । नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह - चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात् - यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारात्तु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीया - “मनसः संज्ञायाम्” इत्यलुक् - मनसा देवः। इह चाक्षैर्देवयते देवदतो यज्ञदतेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् 'गतिबुद्धि' इत्यादिनाऽण्यन्तावस्थायां कर्तुर्यज्ञदतस्य कर्मसंज्ञा न भवति, “अणावकर्मकात्" इति परस्मैपदं च। यदि तर्हि समावेशः - अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः - विदेवना अक्षाः, 'करणाधिकरणयोश्च' इति ल्युट्; कर्मसंज्ञाया अवकाशः - दीव्यन्ते भवताक्षाः, 'भावकर्मणोः' इति यगात्मनेपदे, अक्षानित्यत्रोभयसंज्ञाकार्यप्रसङ्गे परत्वात्तृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च 'कर्मणि द्वितीया' इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः - दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वातृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्चैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात् ।