क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः
1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
क्रुध्, द्रुह्, ईर्ष्य् तथा च असूय - इत्यर्थकानां धातूनां प्रयोगे "यं प्रति कोपः जायते" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्तः यज्ञदत्ताय क्रुद्ध्यति, द्रुह्यति, ईर्ष्यति, असूयति ।
Kashika
Up
अमर्षः क्रोधः। अपकारो द्रोहः। अक्षमेर्ष्या। गुणेषु दोषाविष्करणमसूया। क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः, तत् कारकं संप्रदानसंज्ञे भवति। क्रोधस्तावत् कोप एव, द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते। तस्मात् सामान्येन विशेषणं <<यं प्रति कोप>> इति। देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्तायेर्ष्यति। देवदत्तायासूयति। यं प्रति कोप इति किम्? भार्यामीर्ष्यति, मैनामन्यो द्राक्षीदिति॥
Siddhanta Kaumudi
Up
क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं षष्ठं सूत्रम् । अनेन सूत्रेण <<क्रुध् (क्रोधे)>> <{4.86}>, <<द्रुह् (जिघांसायाम्)>> <{4.96}>, <<ईर्ष्य् (ईर्ष्यायाम्)>> <{1.588}>, तथा च <<असूय>> (कण्ड्वादिः) - इत्येतेषां विषये सम्प्रदानसंज्ञा विधीयते । एतासाम् क्रियाणाम् कर्ता यं प्रति कोपं करोति तत् कारकम् प्रकृतसूत्रेण सम्प्रदानसंज्ञं भवति । क्रमेण उदाहरणानि एतानि -
1. <<क्रुध् (क्रोधे)>> <{4.86}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अमर्षः (क्रोधः) इति दत्तः अस्ति । क्रोधस्य प्रथमः सोपानः कोपः अस्ति /hl> इति शास्त्रेषु स्वीकृतम् अस्ति । अतः अत्र यस्य विषये कोपः जायते (इत्युक्ते, यस्य विषये अग्रे क्रोधः अपि क्रियते) तस्य सम्प्रदानसंज्ञा भवति । यथा - देवदत्तः यज्ञदत्ताय क्रुध्यति ।
2. <<द्रुह् (जिघांसायाम्)>> <{4.96}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अपकारः इति दीयते । अपकारः इत्युक्ते दुःखजनिका क्रिया । सा क्रिया यया अन्यस्य अहितं भवति, द्रोहः नाम्ना ज्ञायते । अस्य द्रोहस्य मूले अपि कोपः एव वर्तते, अतः यं प्रति कोपः विद्यते (इत्युक्ते यस्य विषये द्रोहः क्रियते) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्ताय द्रुह्यति ।
3. <<ईर्ष्य् (ईर्ष्यायाम्)>> <{1.588}> - काशिकायां, कौमुद्यां च अस्य धातोः अर्थः अ-क्षमा इति दीयते । क्षमा इत्युक्ते तितिक्षा (tolerating something). अक्षमा इत्युक्ते अतितिक्षा (unable to tolerate something) । प्रकृतसूत्रस्य सन्दर्भे इदम् असहनम् "अन्यस्य उत्कर्षस्य, प्रगतेः च विषये" अस्ति । अस्याः ईर्ष्यायाः अपि प्रथमः सोपानः कोपः इत्येव अस्ति इति शास्त्रे निर्दिश्यते । एतादृशः कोपः यं प्रति जायते (इत्युक्ते यस्य विषये अग्रे मनसि ईर्ष्या उत्पद्यते) तस्य निर्देशार्थम् प्रकृतसूत्रेण सम्प्रदानसंज्ञा भवति । यथा, देवदत्तः यज्ञदत्ताय ईर्ष्यति ।
4. <<असूय>> (कण्ड्वादिः) - अयं धातुः कण्ड्वादिगणस्य धातुः अस्ति । <<असू>> इति प्रातिपदिकात् <<कण्ड्वादिभ्यो यक्>> 3.1.27 इति सूत्रेण यक्-प्रत्यये कृते <<असूय>> इति धातुः सिद्ध्यति । काशिकायां, कौमुद्यां च अस्य अर्थः गुणेषु दोष-आविष्करणम् इति दीयते । कस्यचित् गुणेषु अपि दोषदर्शनम्, इत्युक्ते द्वेषवृत्तिः असूया नाम्ना ज्ञायते इति अत्र आशयः । अयमेव अर्थः "असूयति" इति धातुरूपेण अपि प्रकटीभवति । अस्याः असूयायाः अपि प्रथमसोपानः कोपः एव अस्ति, अतः यं प्रति कोपः जायते (इत्युक्ते यं प्रति असूया भवति) तस्य प्रकृतसूत्रेण सम्प्रदानसंज्ञा विधीयते ।
कोपः इत्यस्य विषये
प्रकृतसूत्रे निर्दिष्टाः <<क्रुध्>>, <<द्रुह्>>, <<ईर्ष्य्>> तथा च <<असूय>> - एतासां क्रियाणाम् अर्थाः यद्यपि पृथक् सन्ति, तथापि एतासु सर्वासु अपि क्रियासु कोपः इति सामान्य-अंशः अवश्यम् विद्यते - इति भाष्यकारः प्रकृतसूत्रे स्पष्टीकरोति । इत्युक्ते, कोपः इति क्रोध-द्रोह-ईर्ष्या-असूयार्थानाम् प्रथमसोपानरूपेण स्वीकृतः अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते - न हि अकुपितः क्रुध्यति, न वा अकुपितः द्रुह्यति, न वा अकुपितः ईर्ष्यति, न वा अकुपितः असूयति । क्रोधादीनां प्रथमसोपानरूपेण कोपः एव उद्भवति, अतएव प्रकृतसूत्रे यं प्रति कोपः इति निर्देशः लभ्यते - इति अत्र भाष्यकारस्य आशयः वर्तते । अस्याः एव कोपावस्थायाः वर्णनं कुर्वन् कैयटः ब्रूते - अननद्भूता कोपावस्था । कोपावस्थायां केवलं चित्ते परिवर्तनं भवति, मुखे, शरीरे च न किञ्चन परिवर्तनं दृश्यते इति अत्र कैयटस्य आशयः अस्ति । अग्रे द्वितीये सोपाने क्रोध-द्रोह-ईर्ष्या-असूयासु तु मुखे अपि परिवर्तनं भवति - यथा, नेत्रे स्फुरतः, ध्वनिः उन्नतः भवति, मुखे रक्तवर्णः वर्धते - इत्यादिकम् । अतएव अस्य वर्णनं कैयटेन इत्थं क्रियते - द्वितीया च उद्भूता विकृतवाक्कायव्यापार-अनुमीयमाना इति ।
क्रुधद्रुहेर्ष्यासूयार्थ: इति शब्दस्य विषये
सूत्रे प्रयुक्तः क्रुधद्रुहेर्ष्यासूयार्थानाम् इति शब्दः क्रुधद्रुहेर्ष्यासूयार्थ इत्यस्य षष्ठीबहुवचनम् अस्ति । क्रुधद्रुहेर्ष्यासूयार्थ इत्यत्र <<क्रुध>>, <<द्रुह>>, <<ईर्ष्य>> तथा च <<असूय>> इत्येतेषां इतरेतरद्वन्द्वसमासः विद्यते । क्रुधश्च द्रुहश्च ईर्ष्या च असूया च इति क्रुधद्रुहेर्ष्यासूयाः । अस्य च अग्रे अर्थ इत्यनेन सह क्रुधद्रुहेर्ष्यासूयाः अर्थः येषाम् ते इति बहुव्रीहिसमासे कृते क्रुधद्रुहेर्ष्यासूयार्थ इति प्रातिपदिकं सिद्ध्यति । अस्मिन् प्रातिपदिके विद्यमानस्य द्वन्द्वसमासस्य अन्ते अर्थ इति यत् पदं स्थापितम् अस्ति, तत् <<द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते>> इति न्यायेन समासस्य प्रत्येकं पदेन सह अन्वेति । अतः अत्र क्रुधार्थाः, द्रुहार्थाः, ईर्ष्यार्थाः तथा च असूयार्थाः इति अर्थः सिद्ध्यति । अतएव, केवलं क्रुध्-द्रुह्-ईर्ष्य्-असूय-धातूनां विषये एव न, अपितु अस्मिन्नेव अर्थे प्रयुज्यमाणानाम् अन्येषां धातूनां सन्दर्भे अपि प्रकृतसूत्रेण अवश्यं सम्प्रदानसंज्ञा भवितुम् अर्हति । यथा - देवदत्ताय भामते, देवदत्ताय अपराध्यति,देवदत्ताय सूर्क्ष्यति, देवदत्ताय ईर्क्ष्यति इत्यादिषु वाक्येषु अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति ।
<<कुप्>>-धातोः विषये प्रकृतसूत्रस्य प्रयोगः
दिवादिगणस्य <<कुप् (क्रोधे)>> <{4.146}> धातोः विषये प्रकृतसूत्रस्य प्रयोगः भवेत् वा - अस्मिन् विषये वैयाकरणेषु मतान्तराणि विद्यन्ते । नागेशः लघुशब्देन्दुशेखरे कुप्-धातोः योगे प्रकृतसूत्रस्य प्रयोगः न भवति इति स्पष्टीकृत्य <<षष्ठी शेषे>> 2.3.50 इत्यनेन षष्ठीविभक्तेः प्रयोगं कृत्वा देवदत्तस्य कुप्यति इत्यस्य प्रयोगस्य साधुत्वं प्रतिपादयति । बालमनोरमायाम् अपि अस्यैव पक्षस्य समर्थनं कृत्वा उच्यते - कुप्यति कस्मैचित् इत्यादि असाधु एव - कोपमूलकत्व-अभावात्, क्रुध्यार्थक-अभावात् च । <<कुप्>>-धातोः विषये प्रथमसोपानात् अनन्तरम् क्रोधादिकः द्वितीयः सोपानः नैव वर्तते, अतः तस्य विषये प्रकृतसूत्रस्य प्रयोगः नैव करणीयः - इति बालमनोरमाकारस्य अत्र आशयः अस्ति । परन्तु माधवीयधातुवृत्तौ, प्रक्रियासर्वस्वग्रन्थे च हरये कुप्यति, देवदत्ताय कुप्यति इत्यादीनि उदाहरणानि अपि साधुरूपेण प्रदर्शितानि लभ्यन्ते, अतः एतेषां ग्रन्थकर्तॄणां मतेन कुप्-धातोः सन्दर्भेण अपि प्रकृतसूत्रस्य प्रयोगः अवश्यं भवितुम् अर्हति । तत्त्वबोधिन्याम्, वैयाकरणभूषणसारे तु द्वौ अपि पक्षौ प्रदर्शितौ स्तः ।
कुप्-धातुः अकर्मकः अस्ति, अतः "देवदत्तम् कुप्यति" इति प्रयोगः तु सर्वथा अनुचितः एव ज्ञेयः ।
<<द्विष्>>-धातोः विषये प्रकृतसूत्रस्य प्रयोगः
अदादिगणस्य <<द्विष् (अप्रीतौ)>> <{2.3}> अस्य धातोः मूलः अर्थः अप्रीतिः = अनभिनन्दनम् = निन्दा इति अस्ति । अयम् अर्थः "क्रोधः, द्रोहः, ईर्ष्या, असूया" - इत्येतेभ्यः पृथक् वर्तते । अतश्च, <<द्विष्>>-धातोः विषये प्रकृतसूत्रस्य प्रयोगः नैव करणीयः इत्यत्र वैयाकरणवृन्दे ऐकमत्यं वर्तते । अमुम् एव विषयम् स्पष्टीकुर्वन् तत्त्वबोधिनीकारः ब्रूते - द्विषादौ अतिप्रसङ्गवारणाय विशिष्य उपादानम् । <<द्विष्>>-इत्यादिकानां भिन्नार्थक-धातूनां योगे प्रकृतसूत्रस्य प्रयोगः मा भूत् - इति स्पष्टीकर्तुम् एव अत्र क्रुधादीनां विशेषरूपेण ग्रहणं कृतम् अस्ति - इति अत्र पदमञ्जरीकारस्य आशयः वर्तते । अतएव यो अस्मान् द्वेष्टि, यं च वयं द्विष्मः इत्यादिषु वाक्येषु प्रकृतसूत्रस्य प्रयोगः न भवति ।
दलकृत्यम्
1. क्रुधद्रुहेर्ष्यासूयार्थानाम् इति किमर्थम् ? द्विष्-इत्यादीनां विषये प्रकृतसूत्रस्य प्रयोगः मा भूत् । यथा - यो अस्मान् द्वेष्टि इत्यत्र प्रकृतसूत्रेण सम्प्रदानत्वं नैव विधीयते ।
2. यं प्रति कोपः इति किमर्थम् ? यत्र केवलम् ईर्ष्या (असहनम्) वर्तते, परन्तु सा ईर्ष्या कमपि उद्दिश्य नास्ति, तत्र कोप-अभावात् प्रकृतसूत्रस्य प्रयोगः मा भूत् । यथा, कश्चन देवदत्तः स्वस्य भार्यायाः अन्यैः कृतं वीक्षणम् नैव सहते चेत् तस्य मनसि भार्यायाः कृते असूया (असहनम्) अवश्यं वर्तते परन्तु तत्र विशेषरूपेण कस्यापि कृते कोपः नास्ति । अस्यां स्थितौ प्रकृतसूत्रस्य प्रयोगः न भवति, अतः भार्याम् ईर्ष्यति, मा एनाम् अन्यः द्राक्षीत् (He is intolerent towards his wife being seen by others) अस्मिन् वाक्ये प्रकृतसूत्रस्य उपयोगः न भवति ।
<<क्रुध्>> तथा <<द्रुह्>> धात्वोः विषये बाध्यबाधकभावः
<<क्रुध् (क्रोधे)>> <{4.86}> तथा च <<द्रुह् (जिघांसायाम्)>> <{4.96}> एतौ धातू यदि उपसर्गेण सह प्रयुज्येते, तर्हि तयोः सन्दर्भे यं प्रति कोपः वर्तते तस्य प्रकृतसूत्रेण प्राप्तां सम्प्रदानसंज्ञां बाधित्वा <<क्रुधद्रुहोरुपसृष्टयोः कर्म>> 1.4.38 इति अग्रिमसूत्रेण कर्मसंज्ञा विधीयते । यथा - देवदत्तम् अभिक्रुध्यति, देवदत्तम् अभिद्रुह्यति । उपसर्गं विना प्रयुक्तयोः एतयोः विषये तु प्रकृतसूत्रस्य प्रयोगः अवश्यमेव भवति, यथा - देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति इति ।
##Balamanorama
<<क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः>> - क्रुधाद्यर्थानामिति । क्रुध क्रोधे, द्रुह द्रोहे श्यन्विकरणौ । ईर्ष्य ईर्ष्यायां शब्विकरणः । असूञ् उपतापे कण्ड्वादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति ।रावणादिरिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातेच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात्षष्ठी प्राप्ता । द्रुह्यतीति । कोपाद्धरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात्षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईर्ष्यतीति । ईर्ष्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः । यथाविहितकर्माचारे दम्भादिकृत्वारोपणम् । इह कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम् । एवंच क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थितम् । तथा च कुप्यति कस्मैचिदित्याद्यसाध्वेव, कोपमूलकत्वाभावात्क्रुधार्थकत्वाऽभावाच्च । प्ररूढकोप एव हि क्रोधः, न ह्यकुपितः क्रुध्यति इति भाष्यात् ।
##Padamanjari
गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य शृणोतीतिवत् षष्ठ।लं प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चितदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चितदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते - औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह - क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः॥