संयोगे गुरु
1-4-11 संयोगे गुरु आ कडारात् एका सञ्ज्ञा ह्रस्वं
Sampurna sutra
Up
संयोगे ह्रस्वं गुरु
Neelesh Sanskrit Brief
Up
संयोगे परे ह्रस्वस्वरः गुरुसंज्ञकः भवति ।
Neelesh English Brief
Up
A ह्रस्व स्वर which is followed by a संयोग gets the term गुरु.
Kashika
Up
ह्रस्वमिति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा। भिक्षा। गुरुप्रदेशाः — <<गुरोश्च हलः>> ३.३.१०३ इत्येवमादयः॥
Siddhanta Kaumudi
Up
संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi
Up
संयोगे परे ह्रस्वं गुरु स्यात् ॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा गुरु इति संज्ञा अनेन सूत्रेण पाठ्यते । ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण संयोगः विद्यते चेत् तस्य ह्रस्वस्वरस्य गुरु इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा-
1. अर्थ इति शब्दे आदिस्थः अकारः गुरुसंज्ञकः अस्ति, यतो हि अस्मात् अकारात् अनन्तरम् अव्यवहितरूपेण रेफ-थकार-संयोगः विद्यते ।
1. मित्र इति शब्दे मकारोत्तरः इकारः गुरुसंज्ञकः अस्ति ।
2. पुष्प इति शब्दे पकारोत्तरः उकारः गुरुसंज्ञकः अस्ति ।
3. कृष्ण इति शब्दे ककारोत्तरः ऋकारः गुरुसंज्ञकः अस्ति ।
गुरुसंज्ञया लघुसंज्ञायाः बाधः
ह्रस्वस्वरस्य <<ह्रस्वं लघु>> 1.4.10 इत्यनेन औत्सर्गिकरूपेण लघुसंज्ञायां प्राप्तायाम्, तस्मात् स्वरात् अव्यवहितपरः संयोगः अस्ति चेत्, तस्यैव स्वरस्य <<संयोगे गुरु>> 1.4.11 इति सूत्रेण गुरुसंज्ञा अपि भवति । इयं गुरुसंज्ञा एकसंज्ञाधिकारात् पूर्वं प्राप्तां लघुसंज्ञाम् बाधते । यस्य ह्रस्वस्वरस्य गुरुसंज्ञा भवति, तस्य लघुसंज्ञा न भवति इत्यर्थः ।
गुरुसंज्ञायाः प्रयोजनम्
गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां भिन्नाः विधयः पाठिताः वर्तन्ते । अस्य द्वे उदाहरणे एतादृशे -
1. यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् <<गुरोश्च हलः>> 3.3.103 इति सूत्रेण अ इति कृत्प्रत्ययः भवति । यथा कुण्ड् इति धातोः अनेन सूत्रेण अ-प्रत्यये कृते कुण्डा इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
कुडिँ (दाहे, भ्वादिः, <{1.303}>)
→ कुन्ड् [<<इदितो नुम् धातोः>> 7.1.58 इति नुमागमः]
→ कुन्ड् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः ककारोत्तरः उकारः <<संयोगे गुरु>> 1.4.11 इत्यनेन गुरुसंज्ञकः अस्ति । अतः <<गुरोश्च हलः>> 3.3.103 इति सूत्रेण अस्मात् धातोः अ-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः अपि विधीयते ।]
→ कुण्ड् + अ + आ [<<नश्चापदान्तस्य झलि>> 8.3.24, <<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति नकारस्य अनुस्वार-परसवर्णौ]
→ कुण्डा [<<अकः सवर्णे दीर्घः>> 6.1.101 ]
2. यः धातुः इजादिः अस्ति, तथा च यस्मिन् गुरुसंज्ञकः स्वरः विद्यते, तादृशात् धातोः लिट्लकारस्य प्रक्रियायाम् आम् इति प्रत्ययः विधीयते । यथा -
इविँ (व्याप्तौ, <{1.670}>
--> इन्व् [<<इदितो नुम् धातोः>> 7.1.58 इति नुमागमः]
--> इन्व् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्]
→ इन्व् + आम् + ल् [इन्व्-धातौ विद्यमानः इकारः <<संयोगे गुरु>> 1.4.11 इत्यनेन गुरुसंज्ञकः भवति । अतः अस्मात् धातोः लिट्लकारप्रक्रियायाम् <<इजादेश्च गुरुमतोऽनृच्छः>> 3.1.36 इति आम्-प्रत्ययः विधीयते ।]
→ इन्व् + आम् [<<आमः>> 2.4.81 इति लकारप्रत्ययस्य लुक् ]
→ इन्व् + आम् + चकार [ <<कृञ्चानुप्रयुज्यते लिटि>> 3.1.40 इति कृ-धातोः अनुप्रयोगः । <<आम्प्रत्ययवत् कृञोनुप्रयोगस्य>> 1.3.63 इति तस्य परस्मैपदे प्रयोगः । तस्य प्रथमपुरुषैकवचनम् चकार इति]
→ इन्वाञ्चकार [<<मोऽनुस्वारः>> 8.3.23 इति मकारस्य अनुस्वारः, ततः <<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः ]
अष्टाध्याय्यां गुरुसंज्ञायाः प्रयोगः
अष्टाध्याय्याम् गुरुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —
1. <<गुरोश्च हलः>> 3.3.103
2. <<इजादेश्च गुरुमतोऽनृच्छः>> 3.1.36
3. <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे >> 4.1.78
4. <<योपधाद्गुरूपोत्तमाद्वुञ्>> 5.1.132
5. <<गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् >> 8.2.86
अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
##Balamanorama
<<संयोगे गुरु>> - संयोगे गुरु ।ह्रस्व॑मित्यनुवर्तते । तदाह — संयोगे पर इत्यादिना ।
##Padamanjari