2-4-81 आमः
index: 2.4.81 sutra: आमः
आमः लेः लुक्
index: 2.4.81 sutra: आमः
'आम्' प्रत्ययात् परस्य लकारस्य लुक् भवति ।
index: 2.4.81 sutra: आमः
The लकार that follows the 'आम्' प्रत्यय is removed.
index: 2.4.81 sutra: आमः
आमः परस्य लेः लुग् भवति। ईहाञ्चक्रे। ऊहाञ्चक्रे। ईक्षाञ्चक्रे।
index: 2.4.81 sutra: आमः
आमः परस्य लेर्लुक् स्यात् ॥
index: 2.4.81 sutra: आमः
आमः परस्य लुक्॥
index: 2.4.81 sutra: आमः
'आम्' इति कश्चन प्रत्ययः अस्ति । कास्प्रत्ययादाममन्त्रे लिटि 3.1.35 इत्यतः भीह्रीभृहुवां श्लुवच्च 3.1.39 इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य वर्तमानसूत्रेण लोपः भवति ।
यथा - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -
एध् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ एध् + आम् + ल् [इजादेश्च गुरुमतोऽनृच्छः 3.1.36 इति आम्-प्रत्ययः]
→ एध् + आम् [आमः 2.4.81 इति लकारस्य लुक्]
→ एध् + आम् + चक्रे [कृञ्चानुप्रयुज्यते लिटि 3.1.40 इति कृ-धातोः अनुप्रयोगः । आम्प्रत्ययवत् कृञोनुप्रयोगस्य 1.3.63 इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् 'चक्रे' इति]
→ एधांचक्रे [मोऽनुस्वारः 8.3.23 इति मकारस्य अनुस्वारः]
→ एधाञ्चक्रे [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
ज्ञातव्यम् - अत्र निर्दिष्टः 'आम्' इति प्रत्ययः अस्ति, आगमः न । तथा च, अत्र मकारः इत्संज्ञकः अपि नास्ति ।
index: 2.4.81 sutra: आमः
आमः - आमः ।मन्त्रे घसह्वरे॑त्यतो लेरिति,ण्यक्षत्रियार्षञित॑ इत्यतो लुगिति चानुवर्तते । तदाह — आमः परस्य लेरिति । अत्रेदमवधेयम् — 'कृन्मेजन्त' इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात् । तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ 'आम' इति लुक् । लेरित तु नानुवर्तते ।मान्तं कृदन्तमव्यय॑मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम् । ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक् । 'आम' इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम् ।आमः परस्य ले॑रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् ।
index: 2.4.81 sutra: आमः
आमः॥ आम उतरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र'तिङ्ङतिङः' इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां'नञ्' सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः - शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि ठमगत्यादिषुऽ, तिपो णल्, आम - अत्र प्राप्तोति, अर्थवत्वात्?'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति अत्र न भविष्यति॥