5-1-132 योपधात् गुरूपोत्तमात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि
'तस्य भावः, कर्मणि च' (इति) योपधात् गुरुपोत्तमात् वुञ्
'भावः' तथा 'कर्म' एतयोः अर्थयोः षष्ठीसमर्थात् यकारोपध-गुरूपोत्तम-शब्दात् वुञ्-प्रत्ययः भवति ।
त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम्। गुरुरुपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधाद् गुरूपोत्तमाद् वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्। योपधादिति किम्? विमानत्वम्। गुरूपोत्तमादिति किम्? क्षत्रियत्वम्॥ सहायाद् वेति वक्तव्यम्॥ साहायकम्, साहाय्यम्॥
रामणीयकम् । आभिधानीयकम् ।<!सहायाद्वा !> (वार्तिकम्) ॥ साहाय्यम् । साहायकम् ॥
अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'यकारोपध-गुरूपोत्तम-शब्दः' इत्युक्ते किम् तत् जानीमः - [1] यस्य शब्दस्य उपधावर्णः (second last letter) 'य्' इति अस्ति, सः शब्दः 'यकारोपधः' अस्ति इत्युच्यते । यथा - काय, माया, स्थायि, वायु, कार्य - एते सर्वे यकारोपधशब्दाः सन्ति । [2] यस्य शब्दस्य उपोत्तमः स्वरः (second last vowel) गुरुसंज्ञकः अस्ति, सः शब्दः गुरूपोत्तमः अस्ति इत्युच्यते । किम् नाम गुरुः? - [अ] सः ह्रस्वः स्वरः, यस्मात् अनन्तरम् संयुक्ताक्षरमस्ति, <<संयोगे गुरु>> 1.4.11 इत्यनेन गुरूसंज्ञकः भवति । [आ] प्रत्येकः दीर्घः स्वरः <<दीर्घम् च>> 1.4.11 इत्यनेन गुरूसंज्ञकः भवति । गुरूपोत्तमशब्दानाम् कानिचन उदाहरणानि - 'भूत', 'वर्तमान', 'भविष्य' - आदयः । [3] यः शब्दः यकारोपधः अस्ति, गुरूपोत्तमः च अपि अस्ति, सः 'यकारोपध-गुरूपोत्तम-शब्दः' इत्यनेन निर्दिश्यते । यथा - 'रमणीय', 'वसनीय' , 'भविष्य' - आदयः । एतादृशात् 'यकारोपध-गुरूपोत्तम-शब्दात् भावकर्मार्थयोः 'वुञ्' प्रत्ययः भवति । यथा - रमणीयस्य भावः कर्म वा = रमणीय + वुञ् → रमणीय + वु [ञकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, लोपः] → रमणीय + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → रामणीय + अक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → रामणीय् + अक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → रामणीयक रमणीयस्य भावः कर्म वा रामणीयकम् । वसनीयस्य भाव कर्म वा वासनीयकम् । अत्र एकम् वार्त्तिकमपि ज्ञेयम् - <!सहायाद्वेति वक्तव्यम्!> । इत्युक्ते, 'सहाय' शब्दात् भावकर्मार्थयोः विकल्पेन वुञ्-प्रत्ययः भवति - सहायस्य भावः कर्म वा साहायकम् । पक्षे ब्राह्मणादिगणे स्वीकृत्य <<गुणवचनब्राह्मणादिभ्यः कर्मणि च>> 5.1.124 इति ष्यञ्-प्रत्ययः अपि भवति - सहायस्य भावः कर्म वा साहाय्यम् । ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः <<आ च त्वात्>> 5.1.120 इत्यनेन भावकर्मार्थयोः त्व/तल्-प्रत्ययौ अपि भवतः । रमणीयस्य भावः कर्म वा रमणीयत्वम् / रमणीयता । सहायस्य भावः कर्म वा सहायत्वम् / सहायता । विशेषः - अस्मिन् सूत्रे 'उपधा' तथा 'उपोत्तम' एतौ द्वौ अपि शब्दौ प्रयुक्तौ स्तः । एतयोः द्वयोः अर्थौ भिन्नौ स्तः इति स्मर्तव्यम् । 'उपधा' इत्युक्ते अन्यात् पूर्वः वर्णः । उपधावर्णः 'स्वरः' अपि भवितुमर्हति, उत 'व्यञ्जनम्' अपि । परन्तु 'उपोत्तम' अयम् शब्दः केवलम् स्वरस्यैव निर्देशार्थम् प्रयुज्यते । शब्दे विद्यमानः यः अन्तिमः स्वरः, (सः अन्तिमस्थाने भवेत् उत न भवेत्, परन्तु) तस्मात् पूर्वः यः स्वरः विद्यते, सः उपोत्तमस्वरः नाम्ना ज्ञायते । यथा - 'मरुत् = म् + अ + र् + उ + त्' इत्यस्मिन् शब्दे उपधावर्णः 'उ' इति अस्ति, परन्तु उपोत्तमः स्वरः 'अ' इति अस्ति । उपधा is used to represent the second last letter, which can be a vowel or a consonant. On the other hand, उपोत्तम always represents a vowel which is at the second-last position when only vowels are considered (and consonants are ignored).
<<योपधाद्गुरूपोत्तमाद्वुञ्>> - योपधात् । योपधाद्गुरूपोत्तमात्प्रातिपदिकात्षष्ठन्ताद्भावकर्मणोर्वुञित्यर्थः । रामणीयकमिति । रमणीयशब्दाद्वुञ् । आभिधानीयकमिति । अभिधानीयशब्दाद्वञ् । सहायाद्वेति ।वु॑ञिति शेषः । पक्षे ब्राआहृणादित्वात्ष्यञ् । इदंतु वार्तिकं भाष्ये क्वचिन्मृग्यम् ।
यः पत्यन्तो द्वन्द्वस्तस्माद्यक् प्राप्तः, यस्तु हायनान्तस्तस्मादण्प्राप्तः, अन्यस्मात्वलौ, मनोज्ञादिष्वपि गुणवचनात् ष्यञ् प्राप्तः, चोरधूर्ताभ्यामपि ब्राह्मणादित्वात्ष्यञेव, युवशब्दाद्यौवादित्वादण्, शेषेभ्यस्त्वतलौ। अमुष्यपुत्रेति। निपातनात्षष्ठ।ल अलुक् ॥