गुरोश्च हलः

3-3-103 गुरोः च हलः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हलन्तो यो धातुर्गुरुमान्, ततः स्त्रियामकारः प्रत्ययो भवति। क्तिनोऽपवादः। कुण्डा। हुण्डा। ईहा। ऊहा। गुरोरिति किम्? भक्तिः। हल इति किम्? नीतिः॥

Siddhanta Kaumudi

Up

गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥<!निष्ठायां सेट इति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । आप्तिः । तितुत्र-<{SK3163}> इति नेट् । दीप्तिः ॥<!तितुत्रेष्वग्रहादीनामिति वाच्यम् !> (वार्तिकम्) ॥ निगृहीतिः । निपठितिः ॥

Laghu Siddhanta Kaumudi

Up

गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रकृतस्य धातोर्हला विशेषणातदन्तविधिरित्याह - हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह - गुरुमानिति । विपर्ययस्तु न न भवति - गुर्वन्तो यो धातुर्हल्वानिति;'चेष्टायामनध्वनि' ठाशंसायां भूतवच्चऽ इति निर्देशात् । कुण्डा, हुण्डेति ।'कुडि दाहे' ,'हुडि संघाते' ॥