इजादेश्च गुरुमतोऽनृच्छः

3-1-36 इजादेः च गुरुमतः अनृच्छः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः आम् लिटि

Sampurna sutra

Up

इजादेः गुरुमतः अनृच्छः धातोः लिटि आम् प्रत्ययः परश्च

Neelesh Sanskrit Brief

Up

इजादिः गुरुमान् च यः धातुः, तस्य लिट्-लकारे परे आम् प्रत्ययः भवति । परन्तु ऋच्छ्-धातोः विषये अयं प्रत्ययः न भवति ।

Neelesh English Brief

Up

A verb which can be called as 'इजादिः गुरुमान्' gets an आम् प्रत्यय when followed by लिट्-लकार. However, this प्रत्यय is not seen for the verb root ऋच्छ्.

Kashika

Up

इजादिर्यो धातुर्गुरुमान् ऋच्छतिवर्जितः, तस्माच्च लिटि परत आम् प्रत्ययो भवति। <<ईह चेष्टायाम्>>, <<ऊह वितर्के>>। ईहाञ्चक्रे। ऊहाञ्चके्र। इजादेरिति किम्? ततक्ष। ररक्ष। गुरुमत इति किम्? इयज। उवप। अनृच्छ इति किम्? आनर्च्छ, आनर्च्छतुः, आनर्च्छुः॥ ऊर्णोतेश्च प्रतिषेधो वक्तव्यः॥ प्रोर्णुनाव। अथवा —

वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्।

आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्॥

Siddhanta Kaumudi

Up

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् । आस्कासोरामूविधानाज्ज्ञापकात् ॥

Laghu Siddhanta Kaumudi

Up

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि॥

Neelesh Sanskrit Detailed

Up

'ऋच्छ्' धातुं विहाय अन्ये ये इजादि-गुरुमत्-धातवः, तेषां लिट्लकारस्य विषये 'आम्' प्रत्ययः भवति । किम् नाम 'इजादिः गुरुमान् धातुः' ? - 1. यस्य धातोः आदिवर्णः 'इच्' प्रत्याहारस्य वर्णः (इत्युक्ते अवर्णं विहाय कश्चन अन्यः स्वरः) अस्ति, सः धातुः इजादिः अस्ति इत्युच्यते । 2. यस्मिन् धातौ कश्चन वर्णः गुरुसंज्ञकः अस्ति, सः धातुः गुरुमान् धातुः अस्ति इत्युच्यते । (किम् नाम गुरुसंज्ञकः वर्णः? - <<दीर्घं च>> 1.4.12 इत्यनेन दीर्घः स्वरः नित्यं गुरुसंज्ञकः भवति । तथा च, <<संयोगे गुरु>> 1.4.11 इत्यनेन ह्रस्वः स्वरः अपि अग्रे संयोगः अस्ति चेद् गुरुसंज्ञकः भवति ।) 3. यः धातुः इजादिः गुरुमान् च अस्ति, सः 'इजादिः गुरुमान्' इति नाम्ना ज्ञायते । कानिचन उदाहरणानि - इन्व्, ईक्ष्, उम्भ्, ऊष्, ऋम्फ्, ॠ, एध्, ओख् । एतादृशानाम् धातूनाम् लिट्लकारस्य प्रत्यये परे 'आम्' इति प्रत्ययः भवति । परन्तु 'ऋच्छ्' अस्य विषये अयम् प्रत्ययः न भवति । अत्र एतत् स्मर्तव्यम् यत् 'आम्' इत्यत्र मकारः इत्संज्ञकः नास्ति । अतः 'आम्' इति 'मित्' नास्ति, अतः अयमागमः अपि नास्ति । उदाहरणम् एतम् - एध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एध् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → एध् + आम् + ल् [<<इजादेश्च गुरुमतोऽनृच्छः>> 3.1.36 इति आम्-प्रत्ययः] → एध् + आम् [<<आमः>> 2.4.81 इति लकारस्य लुक्] → एध् + आम् + चक्रे [<<कृञ्चानुप्रयुज्यते लिटि>> 3.1.40 इति कृ-धातोः अनुप्रयोगः । <<आम्प्रत्ययवत् कृञोनुप्रयोगस्य>> 1.3.63 इति तस्य आत्मनेपदम् । तस्य प्रथमपुरुषैकवचनम् 'चक्रे' इति] → एधांचक्रे [<<मोऽनुस्वारः>> 8.3.23 इति मकारस्य अनुस्वारः] → एधाञ्चक्रे [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] एवमेव अन्येषाम् धातूनाम् रूपाणि अपि एतादृशमेव सिद्ध्यन्ति । यथा - 1) इन्व् - इन्वाञ्चकार [अत्र धातुः परस्मैपदी अस्ति अतः कृ-धातोः परस्मैपदम् भवति ।] 2) ईक्ष् - ईक्षाञ्चक्रे 3) ऊष् - ऊषाञ्चकार 4) ॠ - अराञ्चकार 'ऋच्छ्' धातोः विषये अयम् प्रत्ययः न भवति, अतः अस्य लिट्-लकारस्य रूपाणि 'आनर्च्छ, आनर्च्छतुः, आनर्च्छुः' इति भवन्ति ।

Balamanorama

Up

<<इजादेश्च गुरुमतोऽनृच्छः>> - इजादेश्च । नञ ऋच्छ इत्यनेन समासेऽनृच्छ इत्यस्मात्पञ्चमी । 'धातोरेकाच' इत्यतो धातोरित्यनुवर्तते ।कास्प्रत्यया॑दित्यत आमिति,लिटीति चानुवर्तते तदाह — इजादिरित्यादिना । आस्कासोरिति ।कास्प्रत्ययादाममन्त्रे लिटी॑ति ,दयायासश्चे॑ति च कास्धातोः, आस्धातोश्चलिटि आम्विहितः । तत्र मकारस्य इत्संज्ञकत्वे 'मिदचोऽन्त्यात्पर' इति आकारादाकारान्तरं स्यात् । ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवतीति आम्विधिरनर्थकः स्यात् । अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः । तथा च एध् आम् ल इति स्थिते —

Padamanjari

Up

इजादेश्च गुरुमतोऽनृच्छः॥ ऋच्छतिवर्जित इति। ऋच्छतिना त्यक्तः तद्रूपरहित इत्यर्थः। ऋच्छतेरन्य इति यावत्। इयज, उवपेति। यजिवप्योरुतमे णलि'णलुतमो धा' इति णित्वाभावपक्षे वृद्ध्यभावाद् गुरूपोतमत्वाभावः। अथ थलि प्रत्युदाहरणम् - इयजिथ, इयष्ठ; उवपिथ, उवप्थेति। नन्वत्र सन्निपात परिभाषयैव न भविष्यति, लिट्सन्निपातजं हि अभ्यासम्य संप्रसारणं तद्विघातकस्यामो निमितं न भवति, आमि हि सति लेर्लुका भवितव्यमिति लिट्सन्निपातमसौ विहन्यात्? इदं तर्हि प्रत्युदाहरणम् - इयेषेति, न ह्यत्र लिट्सन्निपातजमिजादित्वम्। अथ क्रियमाणेऽपि गुरुमद्ग्रहणे कस्मादेवात्र न भवति, यावता गुणे कृते गुरुमानेष भवति? एवमीषतुरित्यादावपि सवर्णदीर्धत्वे कृते गुरुमानेव भवति? सत्यम्; सति गरुमद्ग्रहणे सन्निपातपरिभाषयैवात्राप्याम् न भवति, लिडानन्तर्यहेतुकत्वाद् गुरुमतायाः। अथ वा'गुरुनतः' इति नित्ययोगे मतुप्, नित्यं यस्य गुरुणाभिसम्बन्धः। यद्येवम्, ठुछी विवासेऽ व्युच्छाञ्चकार, ठुच्छ उञ्छेऽ उच्छाञ्चकार आगमनिमिता चास्य गुरुमता, तस्मादाम् न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमनृच्छ इत्याह, तज्ज्ञापयति - भवत्येवञ्जातीयके आमिति। स तर्हि ज्ञापकार्थमृच्छतिप्रतिषेधो वक्तव्यो भवति। ननु चचाम्निवृत्यर्थ एवासौ कर्तव्यः, नार्थ आम्निवृत्यर्थेन? ज्ञापकात्सिद्धम्, यदयम् ठृच्छत्यृताम्ऽ इति लिटि परतो गुणं शास्ति, तज्ज्ञापयति - नास्मादाम् भवतीति। न च तत्रर्छतीत्यर्तेश्तिपानिर्द्देशः; ठृच्छति ऋ ऋताम्ऽ इत्यर्तेरपि स्वरूपेणैव प्रश्लेषात्। प्रश्लेषे बहुवचनमत्र प्रमाणम्। अर्तेश्च लिटि गुणवि धाने प्रयोजनं तत्रेव वक्ष्यामः। तस्माद्दच्छतेर्गुणविधानं ज्ञापकमेव। तस्मादाम्न भवतीति स एषोऽनृच्छ इति प्रतिषेधो ज्ञापकार्थ एव कर्तव्यः स्यात्। एवं हि लिटीति विहितविशेषणम् - इजादेर्गुरुमतो यो लिड्विहितस्तत्रेति। तेन लिड्निमिता यस्य गुरुमता तस्माच्च न भविष्यति, आगमनिमिता यस्य गुरुमता तस्माच्च भविष्यति। ठनृच्छऽ इति प्रतिषेधस्तु क्रियताम्, मा वा कारि। क्वचितु गुरुमत इति किम्, उबोषेति पठ।ल्ते, तत्र उवोषेत्युदाहरणमयुक्तम्, ठुषविदजागृब्यःऽ इति विकल्पविधानमनवकाशं स्यात्। प्रोर्णुनावेति।ठजादेर्द्धितीयस्यऽ'न न्द्राः संयोगादयः' इति नुशब्दस्य द्विर्वचनं कार्यान्तरसिद्ध्यर्थम्, अवश्यमूर्णोतेर्णुवद्भाववो वाच्यः, तेनैवामोऽपि प्रतिषेधः सिद्ध इत्याह - अथ वा वाच्य इति। तत्र यङ् भावाइतिदेशः, आमिटोस्त्वभावातिदशः; नौतेस्तयोरभावात्। उडुपग्रहःऊउइट्प्रतिषेधः,'विभाषा गुणे' इति पञ्चमी। फलस्य चात्र हेतुत्वं यथा - अध्ययनेन वसतीति। एकाचेति वर्तमाने र्ठ्श्युकः कितिऽ इति य इट्प्रतिषेधः ततोऽपि हेतोर्णुवद्भावो वाच्य इत्यर्थः। उदाहरणानि - प्रोर्णोनूयते, प्रोर्णुनाव, प्रोर्णुतः, प्रोर्णुतवानिति॥