ह्रस्वं लघु
1-4-10 ह्रस्वं लघु आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
ह्रस्वं लघु
Neelesh Sanskrit Brief
Up
ह्रस्वस्वरः लघुसंज्ञकः भवति ।
Neelesh English Brief
Up
A ह्रस्व स्वर gets the term लघु.
Kashika
Up
मात्रिकस्य ह्रस्वसंज्ञा कृता, तस्यानेन लघुसंज्ञा विधीयते। ह्रस्वमक्षरं लघुसंज्ञं भवति। भेत्ता। छेत्ता। अचीकरत्। अजीहरत्। लघुप्रदेशाः — <<पुगन्तलघूपधस्य च>> ७.३.८६ इत्येवमादयः॥
Siddhanta Kaumudi
Up
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा लघु इति संज्ञा अनेन सूत्रेण पाठ्यते । यः स्वरः ह्रस्वः अस्ति, तस्य औत्सर्गिकरूपेण लघु इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा-
1. शिव इति शब्दे शकारोत्तरः इकारः, वकारोत्तरः अकारः च लघुसंज्ञकौ स्तः ।
2. स्मृति इति शब्दे मकारोत्तरः ऋकारः, तकारोत्तरः इकारः च लघुसंज्ञकौ स्तः ।
3. गुरु इति शब्दे गकारोत्तरः उकारः, रेफोत्तरः उकारः च लघुसंज्ञकौ स्तः ।
लघुसंज्ञायाः प्रयोजनम्
लघुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । त्रीणि उदाहरणानि एतानि -
1. <<पुगन्तलघूपधस्य च>> 7.3.86 अनेन सूत्रेण सार्वधातुके, आर्धधातुके वा प्रत्यये परे अङ्गस्य उपधा-लघु-वर्णस्य गुणादेशः भवति । यथा, तृच्-प्रत्यये परे भिद्-धातोः उपधा-इकारस्य ह्रस्वत्वात् लघुसंज्ञायां सत्याम् गुणादेशे (एकारे) कृते भेत्तृ इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् —
भिदिँर् (विदारणे, रुधादिः, <{7.2}>)
→ भिद् + तृच् [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः]
→ भेद् + तृ [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधा-लघु-वर्णस्य गुणादेशः । इकारस्य गुणः एकारः]
→ भेत् + तृ [<<खरि च>> 8.4.55 इति चर्त्वम्]
→ भेत्तृ
2. यस्मिन् प्रातिपदिके अन्तिमः स्वरः इक्-प्रत्याहारस्थः अस्ति, तथा च उपोत्तमः स्वरः (second last स्वर) लघुसंज्ञकः अस्ति, तस्मात् <<इगन्ताच्च लघुपूर्वात्>> 5.1.131 अनेन सूत्रेण भावार्थे अण् इति तद्धितप्रत्ययः विधीयते । यथा, मुनि इति शब्दे अन्तिमः स्वरः इक्-प्रत्याहारस्थः (= इकारः) तथा च उपोत्तमः स्वरः उकारः (= लघुसंज्ञकः) अस्ति इति कारणात् अस्मात् शब्दात् भावार्थे अण्-प्रत्ययः भवति । प्रक्रिया इयम् —
मुनि + अण् [<<इगन्ताच्च लघुपूर्वात्>> 5.1.131 इति अण्]
--> मौनि + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
--> मौन् + अ [<<यस्येति च>> 6.4.148 इति इकारलोपः]
--> मौन
3. यस्मिन् धातौ उपधायां लघुस्वरः विद्यते, तस्मात् विहितस्य णिच्-प्रत्ययस्य ल्यप्-प्रत्यये परे <<ल्यपि लघुपूर्वात्>> 6.4.146 इत्यनेन अयादेशः भवति । यथा -
प्र + कथ (स्तेये, <{10.1}>) + णिच् + ल्यप्
--> प्र + कथ् + इ + य [<<अतो लोपः>> 6.4.48 इति अकारलोपः]
--> प्र + कथ् + अय् + य [ <<ल्यपि लघुपूर्वात्>> 6.4.146 इति णिच्-प्रत्ययस्य अयादेशः]
--> प्रकथय्य
अष्टाध्याय्यां लघुसंज्ञायाः प्रयोगः
अष्टाध्याय्याम् लघुसंज्ञायाः साक्षात् प्रयोगः सप्तसु सूत्रेषु कृतः अस्ति —
1. <<इगन्ताच्च लघुपूर्वात्>> 5.1.131
2. <<ल्यपि लघुपूर्वात्>> 6.4.56
3. <<र ऋतो हलादेर्लघोः>> 6.4.161
4. <<अतो हलादेर्लघोः>> 7.2.7
5. <<पुगन्तलघूपधस्य च>> 7.3.86
6. <<सन्वल्लघुनि चङ्परेऽनग्लोपे>> 7.4.93
7. <<दीर्घो लघोः>> 7.4.94
अनुवृत्तिरूपेण तु अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
लघुसंज्ञायाः बाधं कृत्वा गुरुसंज्ञाविधानम्
यस्मात् ह्रस्वस्वरात् अनन्तरम् संयोगः अस्ति, तस्य ह्रस्वस्वरस्य <<संयोगे गुरु>> 1.4.11 इत्यनेन अग्रिमसूत्रेण गुरु इति संज्ञा भवति । इयं गुरुसंज्ञा एकसंज्ञाधिकारसामर्थ्यात् प्रकृतसूत्रकृतां लघुसंज्ञां बाधते । यथा, कृष्ण अस्मिन् शब्दे विद्यमानस्य ककारोत्तरस्य ऋकारस्य <<संयोगे गुरु>> 1.4.11 इत्यनेन गुरुसंज्ञा भवति, या प्रकृतसूत्रकृतां लघुसंज्ञां बाधते ।
##Balamanorama
<<ह्रस्वं लघु>> - ह्रस्वं लघु । ह्रस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम् । अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि ।
##Padamanjari
इह सर्पिष्ट्वामित्यत्र'ह्रस्वातादौ तद्धिते' इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्तव्यम्॥