1-3-63 आम्प्रत्ययवत् कृञः अनुप्रयोगस्य धातवः आत्मनेपदम् कर्तरि
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
अनुप्रयोगस्य कृञः आम्प्रत्ययवत् पूर्ववत्
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
कृ-धातोः अनुप्रयोगः क्रियते चेत् तस्य पदम् मूलधातुवत् भवति ।
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
When the verb root कृ is used after the आम् प्रत्यय, the verb root कृ gets the same पद as the original verb to which the आम् प्रत्यय has been attached.
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
अकर्त्रभिप्रायार्थोऽयमारम्भः। आम्प्रत्ययो यस्मात् सोऽयमाम्प्रत्ययः। आम्प्रत्ययस्य इव धातोः कृञोऽनुप्रयोगस्य आत्मनेपदं भवति। ईक्षाञ्चक्रे। ईहाञ्चक्रे। यदि विध्यर्थम् एतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकार इति कर्त्रभिप्राये क्रियाफले अत्मनेपदं प्राप्नोति। न एष दोषः। उभयमनेन क्रियते, विधिः नियमश्च। कथम्? पूर्ववतिति वर्तते। स द्वितीयो यत्नो नियमार्थो भविष्यति। कृञः इति किम्? ईक्षामास। ईक्षाम्बभूव। कथं पुनरस्य अनुप्रयोगः यावता कृञ् च अनुप्रयुज्यते लिति 3.1.40 इत्युच्यते? कृञिति प्रत्याहारग्रहणं तत्र विज्ञायते। क्व संनिविष्टानां प्रत्याहारः? अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5.4.50 इति कृशब्दादारभ्य यावत् कृञो द्वितीयतृतीयशम्बबीजात् कृषौ 5.4.58 इति ञकरम्।
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञोऽप्यात्मनेपदम्॥
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
'आम्' इति कश्चन प्रत्ययः अस्ति । कास्प्रत्ययादाममन्त्रे लिटि 3.1.35 इत्यतः भीह्रीभृहुवां श्लुवच्च 3.1.39 इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य आमः 2.4.81 इत्यनेन लोपः भवति । एवं कृते कृञ् चानुप्रयुज्यते लिटि 3.1.40 इत्यनेन आम्-प्रत्ययात् परः कृ-धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य उचितं रूपमागच्छन्ति । एतेषु त्रिषु धातुषु भू-धातुः अस्-धातुः च परस्मैपदिनौ स्तः, अतः ताभ्याम् नित्यम् परस्मैपदस्यैव प्रत्ययाः भवन्ति । परन्तु कृ-धातुः उभयपदी अस्ति । अतः तस्य किम् पदम् भवेत् इति प्रश्नः जायते । अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण लभ्यते -
1) यदि मूलधातुः परस्मैपदी अस्ति तर्हि कृ-धातोः परस्मैपदस्य प्रत्ययाः भवन्ति ।
2) यदि मूलधातुः आत्मनेपदी अस्ति तर्हि कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
2) यदि मूलधातुः उभयपदी अस्ति तर्हि कर्तृगामिनि क्रियाफले स्थिते कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति, अन्येषु स्थितिषु च कृ-धातोः परस्मैपदस्य प्रत्ययाः भवन्ति ।
यथा -'एध्' धातोः प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -
एध् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ एध् + आम् + ल् [इजादेश्च गुरुमतोऽनृच्छः 3.1.36 इति आम्-प्रत्ययः]
→ एध् + आम् [आमः 2.4.81 इति लकारस्य लुक्]
अग्रे कृञ्चानुप्रयुज्यते लिटि 3.1.40 इत्यनेन कृ-धातोः अनुप्रयोगः भवति । अत्र यद्यपि कृ-धातुः उभयपदी अस्ति, तथापि 'एध्' धातुः आत्मनेपदी अस्ति अतः आम्प्रत्ययवत् कृञोनुप्रयोगस्य 1.3.63 इत्यनेन कृ-धातोः अपि आत्मनेपदम् एव भवति । अतः -
→ एध् + आम् + चक्रे [कृ-धातोः आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् 'चक्रे']
→ एधांचक्रे [मोऽनुस्वारः 8.3.23 इति मकारस्य अनुस्वारः]
→ एधाञ्चक्रे [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'आम्प्रत्ययवत्' अयम् 'अतद्गुणसंविज्ञानबहुव्रीहिसमासः' अस्ति । 'आम्-प्रत्ययः यस्मात् कृतः अस्ति, सः धातुः आम्-प्रत्ययं विना यस्मिन् पदे प्रयुज्यते, तस्मिन् पदे एव कृ-धातोः अपि प्रयोगः करणीयः' - इति अस्य आशयः ।
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य - आम्प्रत्ययव । 'अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते । तत्राम्प्रत्ययस्यात्मनेपदाऽभावादाह — अतद्गुणसंविधानो बहुव्रीहिरिति । तस्य = अन्यपदार्थस्य, गुणाः = विशेषमानि वर्तिपदार्थरूपाणि,तेषां संविज्ञानं = क्रियान्वयो न तु चित्राणां गवामपि । तथा च प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः ।आम्प्रत्यव॑दिति तृतीयान्ताद्वतिः । अनुप्रयुज्यत इत्यनुप्रयोगः । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी । तदाह — आम्प्रकृत्येत्यादिना । आम्प्रकृतेर्भवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात्कृञोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम्,अनुप्रयोगस्ये॑त्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहण॑मिति भाष्यम् । परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दंचकारेत्यादौ तु परगामिनि क्रियाफले नाऽनेनात्मनेपदम्, आम्प्रकृतेः 'इदि परमैआर्ये' इति धातोरात्मनेपदाऽभावात्, तस्य परस्मैपदित्वात् । एतदर्थमेव आम्प्रत्ययवदित्युपात्तम् । नन्विन्दांचकारेत्यादौ मास्त्वमनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले 'स्वरतञित' इत्यात्मनेपदं दुर्वारम् । अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याऽप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले 'स्वरितञित' इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याऽभावादित्यत आह — इहेति । इह =आम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑ति सूत्रे 'पूर्ववत्सनः' इति पूर्वसूत्रात्पूर्ववदित्यनुवर्त्त्यआम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑त्येकं वाक्यं,पूर्ववत्कृञोऽनुप्रयोगस्ये॑ति अन्यद्वाक्यमति वाक्यद्वयं संपाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण = पूर्वप्रयुक्तेन एधादिधातुना, तुल्यमित्यर्थ- । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयथ्र्याद्द्वितीयं वाक्यं नियमार्थं संपद्यते ।पूर्ववदेव आत्मनेपदं न तु तद्विपरीत॑ मिति । एवं च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृञः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले 'स्वरितञित' इत्यात्मनेपदस्य निवृत्तिः फलति । तदाह — तेनेति । द्वितीयवाक्येनेत्यर्थः । न तङिति । न आत्मनेपदमत्यर्थः । एवं चाऽनुप्रयुज्यमानात्कृञो लिटस्तङि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते — ।
index: 1.3.63 sutra: आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य
नन्वामन्तस्याधातुत्वादद्दष्टमात्मनेपदम्, तत्कथं कृञोऽतिदिश्यते? स्यादियमनुपपतिः, यदि प्रत्ययग्रहणं न क्रियते, कृतेऽपि वा तस्मिन् प्रत्ययग्रहणे कर्मधारयस्तद्गुणसंविज्ञानो वा बहुव्रीहिराश्रीयेत; इह त्वतद्गुणसंविज्ञानो बहुव्रिहिः,धातुरन्यपदार्थस्तदाह - आम्प्रत्ययो यस्मादिति। विग्रहः समुदायः समासार्थ इति, आम् प्रत्ययो यस्येति वग्रहः स्यात्; प्रतियोगिनि षष्ठीनिर्देशात्,'तत्र तस्य' इति षष्ठ।लन्ताद्वतिरित्याह - आम्प्रत्ययस्यैवेति कृञोऽनुप्रयोगस्येति। समानाधिकरणे षष्ठयौ। अनुप्रयोगशब्दः कर्मसाधनः। ईक्षाञ्चक्र इति ।ठीक्ष दर्शनेऽ ठीह चेष्टायाम्ऽ लिट्, ठिजादेश्चऽ इत्याम्, ठामःऽ इति लेर्लुक्। ठकर्त्रभिप्रायार्थोऽयमारम्भःऽ इति ब्रुवता विध्यर्थमेवैतदित्युक्तम्। तत्र दोषमुद्भावयितुमाह - यदीति। किं पुनः कारणं विध्यर्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्यते, न पुनर्नियमार्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्येत? सत्यम्; अकर्त्रभिप्राये याचयाञ्चक्रे, उब्जाञ्चकारेति प्राप्ते आम्प्रत्ययवदेव, तत्र विधिनियमसम्भवे विधिरेव ज्यायान्, तस्मादेवमुच्यते - ठुब्ज आर्जवेऽ, ठुन्भ पूरणेऽ। उभयमित्यादि परिहारः। कथमिति। नैकेनैव यत्नेनोभयं लभ्यमिति भावः। ईक्षाम्बभूवेति।'भवतेरः' 'भुवो वुग् लुङ्लिटोः' । कथं पुनरिति।'कृञः' इत्यत्र स्वरूपग्रहणं मन्यमानस्य प्रश्नः। प्रत्याहारग्रहणमिति। यदि तत्र स्वरूपग्रहणं स्याद्, इह कृञ्ग्रहणमनर्थकं स्याद्; अन्यस्यानुप्रयोगस्याभावादिति भावः। अत एव विपर्ययोऽपि न भवति-तत्र स्वरूपग्रहणं स्याद् इहि प्रत्याहारग्रहणमिति, इह हि प्रत्याहारग्रहणे भ्वस्त्योरप्यात्मनेपदविधिः प्रयोजनम्। यदि चानुप्रयोगविधिना कृञ् एवानुप्रयुक्तः स्यात्, तदा भ्वस्त्योरनुप्रयोगाभावादात्मनेपदविधिरनुपपन्नः स्यात्। तस्मादिह स्वरूपग्रहणम्, आमनुप्रयोगविधौ प्रत्याहारस्येति सिद्धम्। ठभिविधौ सम्पदा चऽ इति सम्पदोऽपि तत्रान्तर्भावादनुप्रयोगः प्राप्तः'सनाद्यन्ता धातवः' इत्यतो धात्वधिकाराद्धातूपसर्गसमुदायस्य न भवति। योऽत्र धातुस्तस्यापि न भवति; अर्थविप्रतिषेधादिति तत्रैव वक्ष्यामः॥