ऊँ
1-1-18 ऊँ प्रगृह्यम् शाकल्यस्य इतौ अनार्षे उञः
Sampurna sutra
Up
शाकल्यस्य (मतेन) उञः अनार्षे इतौ प्रगृह्यम् ऊँ
Neelesh Sanskrit Brief
Up
'उञ्' इति निपातस्य अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यः 'ऊँ' आदेशः विकल्पेन भवति ।
Neelesh English Brief
Up
According to Shakalya, the 'उञ्' when followed by the अवैदिक 'इति' word gets optionally converted to प्रगृह्य ऊँ.
Kashika
Up
उञ इति वर्तते। उञ इतावनार्षे ऊँ इत्ययमादेशो भवति दीर्घोऽनुनासिकश्च शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्च। शाकल्यस्य ग्रहणं विभाषार्थमिहाप्यनुवर्तते, तेन त्रीणि रूपाणि भवन्ति। उ इति। विति। ऊँ इति॥
Siddhanta Kaumudi
Up
उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् अष्टमम् सूत्रम् । प्रगृह्यसंज्ञकस्य 'उञ्' इत्यस्य स्थाने 'ऊँ' आदेशस्य विधानम् अनेन सूत्रेण क्रियते ।
उञ्-शब्दः — <<चादयोऽसत्वे>> 1.4.57 अस्मिन् सूत्रे निर्दिष्टे 'चादिगणे' उञ्' इति कश्चन निपातः विद्यते । <<प्राग्रीश्वरान्निपाताः>> 1.4.56 अनेन सूत्रेण अस्य निपातसंज्ञा भवति । अस्मात् निपातात् अनन्तरम् 'इति' अयम् शब्दः विद्यते चेत् <<उञः>> 1.1.17 इत्यनेन अस्य वैकल्पिक-प्रगृह्यसंज्ञा अपि भवति । एतादृश्यां प्रगृह्यसंज्ञायां प्राप्तायाम् अस्य निपातस्य शाकल्यस्य मतेन विकल्पेन प्रगृह्यसंज्ञकः 'ऊँ' (दीर्घः उदात्तः अनुनासिकः ऊकारः) इति आदेशः भवति — इति वर्तमानसूत्रस्य आशयः । प्रगृह्यसंज्ञायां जातायाम् <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन अच्सन्धौ प्रकृतिभावे कृते 'ऊँ इति' इत्यत्र अच्सन्धिकार्यं न भवति ।
<<उञः>> 1.1.17 इति सूत्रेण उञ्-इत्यस्य प्रगृह्यसंज्ञा शाकल्यस्य मतेन भवति । एतादृशी प्रगृह्यसंज्ञा क्रियते चेत् पुनः शाकल्यस्य एव मतेन, परन्तु विकल्पेन अस्य 'ऊँ' आदेशः अपि सम्भवति । 'ऊँ' आदेशस्य प्रगृह्यसंज्ञायाः तु अत्र वैकल्पिकत्वं नास्ति, तस्य प्रगृह्यसंज्ञा नित्या एव, यतः उञ्-इत्यस्य प्रगृह्यसंज्ञायाम् सत्याम् एव तस्य ऊँ-आदेशः उक्तः अस्ति ।
उञ्-शब्दस्य विषये प्रगृह्यसंज्ञायाः विकल्पाः
<<उञः>>
1.1.17 तथा <<ऊँ>>
1.1.18 एताभ्याम् द्वाभ्याम् सूत्राभ्याम् मिलित्वा उञ्-शब्दस्य विषये प्रगृह्यसंज्ञाविषयकाः आहत्य त्रयः नियमाः उक्ताः सन्ति —
1. अवैदिके इति-शब्दे परे उञ्-इत्यत्र प्रगृह्यसंज्ञा भवति, तस्य अग्रे ऊँ-आदेशः अपि विधीयते । ऊँ-आदेशस्य प्रगृह्यसंज्ञा तु भवत्येव ।
उ + इति
→ ऊँ इति [<<ऊँ>> 1.1.8 इत्यनेन वैकल्पिकः प्रगृह्यः ऊँ-आदेशः । <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इति अत्र अग्रे सन्धिः निषिध्यते ।]
2. अवैदिके इति-शब्दे परे उञ्-इत्यस्य प्रगृह्यसंज्ञा भवति, परन्तु तस्य अग्रे ऊँ-आदेशः न भवति ।
उ + इति
→ उ इति [<<उञः>> 1.1.17 इत्यनेन वैकल्पिकम् प्रगृह्यत्वम् । <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इति अत्र अग्रे सन्धिः निषिध्यते ।]
3. अवैदिके इति-शब्दे परे उञ्-इत्यस्य प्रगृह्यसंज्ञा एव न भवति । अतः तस्य अग्रे ऊँ-आदेशः नैव सम्भवति ।
उ + इति
→ विति [<<इको यणचि>> 6.1.77 इति उकारस्य यणादेशे वकारः, ततः वर्णमेलनम्]
अवैदिकः इति-शब्दः अग्रे नास्ति चेत् तु <<निपात एकाजनाङ्>>
1.1.14 इति सूत्रेण 'उञ्' शब्दस्य नित्यमेव प्रगृह्यसंज्ञा भवति ।
सूत्रे 'अनार्षे' इत्यस्य अनुवृत्तेः प्रयोजनम्
'आर्ष' इति शब्देन अत्र वैदिकवाङ्मयं गृह्यते, अतः 'अनार्षे' इति निर्देशात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति ।
वैदिकवाङ्मयस्य विषये तु 'इति' शब्दे परे 'उ' इत्यस्य निपातस्य ऊँ इति आदेशः विकल्पेन अपि न भवति — इति अत्र आशयः ।
भाष्यकारकृतः योगविभागः
पाणिनेः मूलसूत्रपाठे <<ऊञः>>
1.1.17 तथा <<ऊँ>>
1.1.18 इत्येतयोः द्वयोः सूत्रयोः स्थाने <<उञः ऊँ>> इति एकमेव सूत्रम् स्थापितम् आसीत् । परन्तु महाभाष्ये पतञ्जलिमुनिः अस्य स्थाने <<उञः>>
1.1.17 तथा <<ऊँ>>
1.1.18 इति द्वे सूत्रे स्थापितवान् । अस्य योगविभागस्य मुख्यम् प्रयोजनम् अस्ति
'विति' इति रूपस्य सिद्धिः — इति । <<उञः ऊँ>> इति एकमेव सूत्रं क्रियते चेत् — 'शाकल्यस्य मतेन उञ्-इत्यस्य प्रगृह्यसंज्ञकः ऊँ-आदेशः भवति' इति सूत्रार्थः फलेत्, येन तद्भिन्नपक्षे <<निपात एकाजनाङ्>>
1.1.14 इत्यनेन उञ्-इत्यस्य नित्यमेव प्रगृह्यसंज्ञायां जातायाम् 'उ + इति = विति' इति प्रयोगः नैव साधुत्वं प्राप्नुयात् । अतः अत्र <<ऊञः>>
1.1.17 इति पृथक् सूत्रं निर्माय 'ऊञ्-इत्यस्य प्रगृह्यसंज्ञा केवलं शाकल्यस्य मतेन भवति' इति अर्थं कृत्वा 'विति' इति प्रयोगस्य साधुत्वं सम्पाद्यते ।
'किम् + उ + इति' इत्यत्र सन्धिविकल्पाः
'किम् उ इति' इत्यत्र 'उञ्' इति अव्ययस्य प्रयोगः 'इति' शब्दात् पूर्वं कृतः अस्ति । अत्र आहत्य पञ्च रूपाणि सम्भवन्ति —
1. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञां कृत्वा, तस्य विकल्पेन ऊँ-आदेशः ; तदभावे विकल्पेन <<मय उञो वो वा>> 8.3.33 इति सूत्रेण वकारादेशं कृत्वा आहत्य त्रीणि रूपाणि सम्भवन्ति —
किम् उ इति [<<उञः>> 1.1.17 इति प्रगृह्यसंज्ञा ।]
→ किम् उ इति / किम् ऊँ इति / किम् व् इति [<<ऊँ>> 1.1.18 इति वैकल्पिकः ऊँ-आदेशः । तदभावे <<मय उञो वो वा>> 8.3.33 इति सूत्रेण विकल्पेन मकारादेशः]
→ किमु इति / किमूँ इति / किम्विति ।
2. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा न क्रियते चेत् तस्य, यणादेशे वकारः भवति । वकारे परे मकारस्य अनुस्वारादेशः भवति, ततश्च तस्य विकल्पेन परसवर्णः भवति, येन द्वे रूपे सिद्ध्यतः —
किम् उ इति
→ किम् व् इति [<<इको यणचि>> 6.1.77 इति उकारस्य यणादेशे वकारः भवति ।]
→ किं विति [<<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारादेशः]
→ किं विति / किव्ँविति [<<वा पदान्तस्य>> 8.4.59 इति वैकल्पिकः परसवर्णः]
एतादृशम् अत्र पञ्च रूपाणि सिद्ध्यन्ति । वस्तुतस्तु इतोऽपि अग्रे केचन विकल्पाः विद्यन्ते, यैः आहत्य विंशतिः रूपाणि सम्भवन्ति । प्रौढमनोरमाकारस्य मतेन तु अत्र अष्टाविंशतिः रूपाणि सम्भवन्ति । एतेषाम् सर्वेषां विवरणम् <<मय उञो वो वा>>
8.3.33 इति सूत्रार्थे द्रष्टव्यम् ।
Balamanorama
Up
Padamanjari
Up