1-1-17 उञः प्रगृह्यम् शाकल्यस्य इतौ अनार्षे
शाकल्यस्य (मतेन) अनार्षे इतौ उञ् प्रगृह्यम्
'उञ्' इति निपातः अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।
According to Shakalya, the निपात 'उञ्', when followed by the word 'इति' in a non vedic context, gets the term 'प्रगृह्य'.
शाकल्यस्येतावनार्ष इति वर्तते। उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्याचार्यस्य मतेन। शाकल्यस्येति विभाषार्थम् । उ इति। विति॥
उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् सप्तमं सूत्रम् । 'उञ्' इति निपातस्य अवैदिके 'इति' शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते ।
<<उञ ऊँ>> - ऊँ । इदमप्येकपदं सूत्रम् । ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः । उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च । तदाह — उञ इताविति । ऊँ ईतीति । उक्तविधे ऊँकारादेशे रूपम् । प्रगृह्रत्वात्प्रकृतिभावः । एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सतिउ इती॑ति रूपम् । प्रगृह्रत्वस्याप्यभावे सति यणादेशेविती॑ति रूपमिति त्रीणि रूपाणि फलितानि । तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम् । एकसूत्रत्वे तु उञ इतौ परे 'ऊँ' इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात् । तदभावपक्षे तुनिपात एका॑जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत । ततश्च 'ऊँ इति 'उ इती॑ति रूपद्वयमेव स्यात्,विती॑ति रूपं न लभ्येत । अतो विभज्य व्याख्यातम् ।
यद्ययमेको योगः स्याद् 'उञ ऊँ' इति यथापठितं सूत्रकारेण, ततः 'उञः' इत्यस्य श्रुतेनादेशेन सम्बन्धः स्याद्, न प्रगृह्यसंज्ञया; सा तु 'निपात एकाजनाङ्' इति नित्यैव स्यात्, शाकल्यश्रुत्यनुवृत्या चादेशे विकल्पिते रूपद्वयमेव स्याद्- उ इति, ऊ इतीति; न तु वितीति तृतीय । अतो विभज्य व्याचष्टे । तत्र यद्यपि पूर्वसूत्रेषु सामानाधिकरण्येन निर्देशात्प्रदेशेष्विव प्रगृह्यशब्दो द्विवचनाद्यभिधेयः, तथापीह षष्ठीनिर्देअषात्स्वरूपपदार्थकः सम्पद्यते । अत एवाह - उञः प्रगृह्यसंज्ञा भवतीति । प्रगृह्यमित्येषा संज्ञा भवतीत्यर्थः । पुर्वत्र तु द्विवचनं प्रगृह्यसंज्ञं भवतीत्युक्तम्, अनेन च प्रगृह्यसंज्ञाया एव विकल्पनाद्- उ इति, वितीति साधितं रूपद्वयम् ॥