शीङो रुट्

7-1-6 शीङः रुट् झः अत्

Sampurna sutra

Up

शीङः अङ्गात् झः अतः रूट्

Neelesh Sanskrit Brief

Up

शीङ्-धातोः परस्य झ-प्रत्ययस्य यः अत्-आदेशः भवति तस्य रुट्-आगमः भवति ।

Neelesh English Brief

Up

When the झ-प्रत्यय attached to the verb root शीङ् gets the आदेश अत्, then this आदेश also gets a आगम 'रुट्'.

Kashika

Up

शीङोऽङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्यैव स्याददादेशो न स्यादित्यत एवायमादेशस्यागमो विधीयते। सानुबन्धग्रहणमयङ्लुगर्थम्। तेनेह न भवति — व्यतिशेश्यते॥

Siddhanta Kaumudi

Up

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी ।{$ {!1033 यु!} मिश्रणेऽमिश्रणे च$} ॥

Laghu Siddhanta Kaumudi

Up

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शयाथे । शेध्वे । शये । शेवहे । शेमहे । शिश्ये । शिश्याते । शिश्यिरे । शयिता । शयिष्यते । शेताम् । शयाताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयिषीष्ट । अशयिष्ट ॥ {$ {! 20 इङ् !} अध्ययने $} (धातुपाठे <{02.0041}>) ॥ इडिकावध्युपसर्गतो न व्यभिचरतः । अधीते । अधियाते । अधीयते ॥

Neelesh Sanskrit Detailed

Up

शीङ् (स्वप्ने) इति अदादिगणस्य आत्मनेपदी धातुः । अस्मात् परस्य झ-प्रत्ययस्य <<आत्मनेपदेष्वनतः>> 7.1.5 इत्यनेन अत्-आदेशे कृते तस्य 'रुट्' आगमः भवति । रुट्-इत्यत्र उकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति । टित्वात् <<आद्यन्तौ टकितौ>> 1.1.46 इति अयमाद्यवयवः भवति । यथा, शी-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् - शी + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → शी + झ [<<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ'] → शी + शप् + झ [<<कर्तरि शप्>> 3.1.68 इति ओत्सर्गिकं विकरणम् शप्] → शी + झ [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → शे झ [<<शीङः सार्वधातुके गुणः>> 7.4.21 इति अङ्गस्य गुणः] → शे + अत [<<आत्मनेपदेश्वनतः>> 7.1.5 इति झकारस्य अत्-आदेशः] → शे + रुट् अत [<<शीङो रुट्>> 7.1.6 इति रुट्-आदेशः] → शे + र् अते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः] → शेरते ज्ञातव्यम् - यत्र झकारस्य 'अत्' आदेशः न भवति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शी-धातोः लृट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - शी + लृट् [<<लृट् शेषे च>> 3.3.13 इति लृट्] → शी + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः 'स्य'] → शी + स्य + झ [<<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ'] → शी + इट् + स्य + झ [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → शे + इ + स्य + झ [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → शे + इ + स्य + अन्त [<<झोऽन्तः>> 7.1.3 इति झकारस्य अन्त् -आदेशः] → शे + इ + स्य + अन्ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः] → शयिस्यन्ते [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः] → शयिष्यन्ते [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम् ] अत्र झ-प्रत्ययः अदन्तात् अङ्गात् परः आगच्छति, अतः अत्र <<आत्मनेपदेश्वनतः>> 7.1.5 इत्यस्य प्रसक्तिः नास्ति । अतः अत्र वर्तमानसूत्रेण रुट्-आदेशः अपि न भवति ।

Balamanorama

Up

<<शीङो रुट्>> - शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'अदभ्यस्ता' दित्यतोऽदित्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — शीङः परस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ।षीध्वंलुङ्लिटा॑मित्युक्तेर्न ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे — शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । सेष्व शयाथाम् शेध्वम् । शयै शयावहै शयामहै । अशेत अशयातामशेरत । अशेथाः अशयाथाम् ।अशेध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्टेति । अशयिष्यतेत्यपि ज्ञेयम् । स्तौत्यन्ता इति ।ष्टुञ् स्तुता॑वित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । ञित्त्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । अमिश्रणं पृथग्भावः । सेडयम् ।

Padamanjari

Up

झादेशस्यात् इति । ननु च नेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, शीङ् इत्येषा पञ्चमी अदिति प्रथमायाः षष्ठआआ प्रकल्पयिष्यति, तस्मादित्युतरस्य इति । शेरत इति । सार्वधातुकावयवस्य झस्यादादेशस्तदागमो रुट् तद्ग्रहणेन गृह्यते । अवयवस्य समुदायं प्रत्यवयवत्वं लोकेऽपि दृश्यते, यथा - देवदतस्याङ्गुलिरिति । सार्वधातुकस्याप्यवयवो रुडिति शीडः सार्वधातुके गुणः इति गुणो भवति । किं पुनः कारणं रुडागमो झदेशस्यातो विधीयते, नझकारस्यैव वधीयते, एवं हि न षष्ठी प्रकल्प्या एभवति अत आह - रुडयमिति । यदि तु ककारासञ्जनेन पूर्वान्तः क्रियेत, शेरत इत्यत्र गुणो न स्याद् अनिगन्तत्वात् । तस्मात् परादिरेव वक्तव्यः । स यदिच झकारस्यैव स्यात्, ततो यथा शयान्तै इत्यत्राटा व्यवहितत्वाज्झस्यादादेशो न भवति, तथा शेरते इत्यत्रापि न स्यात् रुटा व्यवहितत्वात् । ननु च युक्तमाटा व्यवधानम्, स हि सार्वधातुकभक्तस्तदेव न व्यवदध्यात्, झकारं तु व्यवदधात्येव, रुट् पुनर्झकारभक्तः स कथं तस्य व्यबधायकः उच्यते गृह्यता तावतद्ग्रहथणेन , तथापि निर्द्दिश्यमानस्यादेशा भवन्तीति यदत्र निर्द्दिश्यते झ इति विशिष्ट्ंअ रुपं न तदनन्तरम्, यश्चानन्तरो रेफझकारसमुदायो न स निर्द्दिश्यत इति न स्यादेवादेशः । अपर आह - आदेशो न स्यादिति, कोऽर्थः झस्य न स्यादिति, कस्य तर्हि स्यात् आदेः परस्य इति रुट एव स्यात् । न च रुटेः वैयर्थ्यं स्यात्, झकारस्य श्रवणार्थत्वात् इति, तच्चिन्त्यमनेकाल्त्वात्सर्वादेशः प्राप्नोति । सर्वादेशे रुटो वैयर्थ्यमिति चेत् किं कुर्मः मा भूदादेशः । शीङ्ः इत्यनुबन्धोच्चारणं यङ्लुग्निवृत्यर्थम् - व्यतिशेश्यते । गुणोऽपि न भवति तत्राप्यनुबन्धनिर्द्दशात् ॥