वेत्तेर्विभाषा

7-1-7 वेत्तेः विभाषा झः अत् रुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति। संविदते, संविद्रते। संविदताम्, संविद्रताम्। समविदत, समविद्रत। वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत् — विन्ते, विन्दाते, विन्दत इति॥

Siddhanta Kaumudi

Up

वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संपृच्छते । संस्वरते ।<!अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा, इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥ धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 1 ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः ।<!उपसर्गादस्यत्यूह्योर्वेति वाच्यम् !> (वार्तिकम्) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वेत्तेर्विभाषा>> - वेत्तेर्विभाषा । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यत आदित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।शीङो रु॑डित्यतो रुडिति च । तदाह — वेत्तेः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति ।संपूर्वेभ्यस्त॑ङिति शेषः । द्वयोरिति । भौवादिकस्य, इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ।सर्तिशास्त्यर्तिभ्यश्च॑ इत्यत्रेत्यर्थः । मा समृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोपः । माङ्योगे मा समृतेत्यादि । माङ्योगाऽभावे तु समार्तेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माङ्योगाऽभावे आडागमे उदाहरति — समार्तेति । समा ऋ स् त इति स्थितेउश्चे॑ति कित्त्वाद्गुणनिषेधे 'आटश्च' इति वृदिंध बाधित्वा परत्वात्ह्रस्वादङ्गा॑दिति सिचो लोपेआटश्चे॑ति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिज्लोपस्याऽसिद्धत्वात् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याऽप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम्,सिज्लोप एकादेशे सिद्धो वाच्यः॑ इति वचनेन पूर्वं सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । सर्तिश#आस्त्यर्ति॑ इत्यङ्, तत्र इयर्तेग्र्रहणादिति भावः । 'ऋदृशोऽङि' इति गुणः । समारतेति । 'आटश्च' इति वृद्धिः । इति चेति । इयर्ते रूपमत्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुदातोरुदाहरति — संशृणुते इति । दृशेरुदाहरति - संपश्यते इति । अकर्मकादित्येवेति ।समो गम्यृच्छिभ्या॑मित्यत्र अक्रमकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मंस्तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति ।प्रमादिक इत्याहु॑रित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदाऽसंभवादिति भावः । अध्याहारो वेति ।इति कथयद्भ्यट इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भ्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवोऽकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति, धात्वर्थेनोपसंग्रहादिति, प्रसिद्धेरिति, अविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । 'कर्मण' इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकर्मकत्वमिति भावः । अस्याऽर्थान्तरे क्वचिदकर्मकत्वमुदाहरति — नदी वहतीति । स्यन्दते इति । प्ररुआवतीत्यर्थः । धात्वर्थोपसङ्ग्रहे उदाहरति — जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप आत्मनः' इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति । वर्षकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद्यो न संशृणुते = स्वरहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिन्नकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणोऽविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्रोर्वेति ।आत्मनेपद॑मिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूह्योः सकर्मकत्वनियमादिति भावः ।

Padamanjari

Up

संविद्रत इति । समो गम्यृच्छि इत्यादिनात्मनेपदम् । वित इत्यादि । विद विचारणे, रुधादिरनुदातेत् । सतालाभार्थयोस्तु विकरणव्यवधानादेवाग्रहणम् । अत्र च बहुवचनं प्रत्युदाहरणम्, इतरयोरुपन्यासो विचारणार्थस्येदं बहुवचने रुपमिति प्रदर्शनार्थम् । विदन्ते इति रुपस्य लाभार्थे तौदादिके स्वरितेत्वादात्मनेपदे एकवचने शे मुचादीनाम् इति नुम्यपि कृते सम्भवात् । किञ्च - वेतेरिति श्तिपा निर्द्देशादेव यङ्लुकि न भवति - व्यतिवेविदते इति ॥