आमेतः

3-4-90 आम् एतः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः

Sampurna sutra

Up

लोटः लस्य एतः आम्

Neelesh Sanskrit Brief

Up

लोट्-लकारस्य विषये प्रत्यये विद्यमानस्य एकारस्य आम्-आदेशः भवति ।

Neelesh English Brief

Up

An एकार present in the प्रत्ययाः of लोट्-लकार is converted to आम्.

Kashika

Up

लोट इत्येव। लोट्संबन्धिन एकारस्य आमित्ययमादेशो भवति। पचताम्,पचेताम्, पचन्ताम्॥

Siddhanta Kaumudi

Up

लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥

Laghu Siddhanta Kaumudi

Up

लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥

Neelesh Sanskrit Detailed

Up

लोट्लकारस्य विषये तिङ्-प्रत्ययेषु यत्र एकारः दृश्यते, तत्र तस्य आम्-आदेशः भवति । परस्मैपदस्य नव प्रत्ययेषु कुत्रापि एकारः न दृश्यते, अतः अस्य सूत्रस्य प्रसक्तिः केवलमात्मनेपदस्य प्रत्ययेषु एव भवति । तनादिगणस्य तन्-धातुं स्वीकृत्य आत्मनेपदस्य सर्वेषां प्रत्ययानाम् प्रक्रिया इयम् - 1. प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः - तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + त [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् त-प्रत्ययः] → तन् + उ + त [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन अकारस्य एकारः] → तन् + उ + ताम् [<<आमेतः>> 3.4.90 इति एकारस्य आम्-आदेशः] → तनुताम् 2. प्रथमपुरुषद्विवचनस्य 'आताम्' प्रत्ययः - तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + आताम् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषद्विवचनस्य विवक्षायामाताम्-प्रत्ययः] → तन् + उ + आताम् [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + आते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन टिसंज्ञकस्य 'आम्'-इत्यस्य एकारः] → तन् + उ + आताम् [<<आमेतः>> 3.4.90 इति एकारस्य आम्-आदेशः] → तन्वाताम् [<<इको यणचि>> 6.1.77 इति यणादेशः] 3. प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययः - तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + झ [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झ-प्रत्ययः] → तन् + उ + झ [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + अत [<<आत्मनेपदेष्वनतः>> 7.1.5 इत्यनेन झ्-इत्यस्य अत्-आदेशः] → तन् + उ + अते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन अत्-इत्यस्य एकारः] → तन् + उ + अताम् [<<आमेतः>> 3.4.90 इति एकारस्य आम्-आदेशः] → तन्वताम् [<<इको यणचि>> 6.1.77 इति यणादेशः] 4. मध्यमपुरुषैकवचनस्य 'थास्' प्रत्ययः - अस्य प्रत्ययस्य <<थासस्से>> 3.4.80 इत्यनेन से-आदेशः भवति । अग्रे <<आमेतः>> 3.4.90 इत्यनेन एकारस्य आम्-आदेशे प्राप्ते <<सवाभ्यां वामौ>> 3.4.91 इत्यनेन अपवादत्वेन एकारस्य वकारादेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति । 5. मध्यमपुरुषद्विवचनस्य 'आथाम्' प्रत्ययः - तन् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → तन् + आथाम् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषद्विवचनस्य विवक्षायामाथाम्-प्रत्ययः] → तन् + उ + आथाम् [<<तनादिकृञ्भ्यः उः>> 3.1.79 इति उ-प्रत्ययः] → तन् + उ + आथे [<<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन टिसंज्ञकस्य 'आम्'-इत्यस्य एकारः] → तन् + उ + आथाम् [<<आमेतः>> 3.4.90 इति एकारस्य आम्-आदेशः] → तन्वाथाम् [<<इको यणचि>> 6.1.77 इति यणादेशः] 6. मध्यमपुरुषबहुवचनस्य 'ध्वम्' प्रत्ययः - अस्य प्रत्ययस्य <<टित आत्मनेपदानां टेरे>> 3.4.79 इत्यनेन एकारादेशेन 'ध्वे' भवति । अग्रे <<आमेतः>> 3.4.90 इत्यनेन एकारस्य आम्-आदेशे प्राप्ते <<सवाभ्यां वामौ>> 3.4.91 इत्यनेन अपवादत्वेन एकारस्य अम्-आदेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति । 7. उत्तमपुरुषस्य प्रत्ययानाम् विषये <<एत ऐ>> 3.4.93 इत्यनेन एकारस्य ऐकारादेशः भवति, अतः वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

Balamanorama

Up

<<आमेतः>> - आमेतः । आम्-एत इति च्छेदः ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम् । एधेतामिति । आताम् । टेरेत्वं । शप् ।सार्वधातुकमपि॑दिति ङित्त्वादातो ङित इत्याकारस्य इय् । गुणः । यकारलोपः । 'आमेत' इत्येकारस्य आम् । एधन्तामिति । झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् ।अथ लोटस्थासः सेभावे शपि एध — से इति स्थिते ।

Padamanjari

Up

लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि'निर्दिश्यमानस्यादेशा भवन्ति' इति परिहारो वाच्यः स्यादित्यर्थः ॥