अम् सम्बुद्धौ

7-1-99 अम् सम्बुद्धौ चतुरनडुहोः

Sampurna sutra

Up

चतुर्-अनडुहोः अङ्गस्य सम्बुद्धौ अम्

Neelesh Sanskrit Brief

Up

चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अम्-आगमः भवति ।

Neelesh English Brief

Up

The words चतुर् and अनडुह् get an अमागम when followed by सुँ प्रत्यय of सम्बोधन-एकवचन.

Kashika

Up

संबुद्धौ परतश्चतुरनडुहोरमागमो भवति। पूर्वस्यायमपवादः। हे प्रियचत्वः। हे प्रियानड्वन्॥

Siddhanta Kaumudi

Up

चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः । अनडुहा ॥

Laghu Siddhanta Kaumudi

Up

हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥

Neelesh Sanskrit Detailed

Up

'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे <<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यनेन उदात्तसंज्ञकः 'आम्' आगमः भवति । सम्बोधनैकवचनस्य सुँ-प्रत्यये परे तं बाधित्वा वर्तमानसूत्रेण अम्-आगमः विधीयते । यत्र चतुर्-शब्दः समस्तपदस्य अन्ते अस्ति, तत्रापि अनेन सूत्रेण अम्-आगमः भवति । मित्वात् अयमागमः <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणे एते - 1. 'प्रियाः चत्वारः यस्य सः' अस्मिन् अर्थे 'प्रियचतुर्' शब्दः सिद्ध्यति । अस्य सम्बोधनैकवचनस्य प्रक्रियायाम् - प्रियचतुर् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → प्रियचतु अम् र् + सुँ [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यनेन उदात्तसंज्ञकः 'आम्' आगमे प्राप्ते, अपवादत्वेन <<अम् सम्बुद्धौ>> 7.1.99 इति अम्-आगमः] → प्रियचत्व र् स् [<<इको यणचि>> 6.1.77 इति यणादेशः] → प्रियचत्वर् [<<रात्सस्य>> 8.2.24 इति सकारलोपः] → प्रियचत्वः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 2. अनडुह् + सुँ [सम्बुद्धिः] → अनडु अम् ह् + स् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इति आम्-आगमे प्राप्ते अपवादत्वेन <<अम् सम्बुद्धौ>> 7.1.99 इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।] → अनडु अ नुम् ह् + स् [<<सावनडुहः>> 7.1.82 इत्यनेन नुम्-आगमः] → अनड्वन् ह् स् [<<इको यणचि>> 6.1.77 इत्यनेन यणादेशः] → अनड्वन् ह् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → अनड्वन् [<<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन हकारस्य लोपः]

Balamanorama

Up

<<अम् सम्बुद्धौ>> - ननु अनड्वान् ह् सित्यत्र सुलोपे संयोगान्तलोपे च कृते नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपः किं न स्यात् । नच नुम्विधिसामर्थ्यान्नात्र नलोप इति वाच्यं, नलोपाऽभावस्थले संबुद्धौहे अनड्व॑नित्यत्र नुग्विधेश्चारितार्थत्वात् । तत्र न ङसंबुद्ध्यो॑रिति नलोपप्रतिषेधादित्यत आह-समयोगान्तेति । हकारलोपस्याऽसिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाऽभावात्पदान्तत्वाऽभावाच्च नलोपो नेत्यर्थः । अनड्वानिति । अनुडुह् सिति स्थिते, आम् यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अथ संबुद्धौ हे अनडुह् सिति स्थिते चतुरनडुहोरित्यामागमे प्राप्ते — अम्संबुद्धौ । 'चतुरनडुहोः' इत्यनुवर्तते । तदाह — चतुरनडुहोरिति । अमो मकार इत् । मित्त्वादन्त्यादचः परः । हे अनड्विन्निति । अम्, यण्, नुम्, सुलोपः, संयोगान्तलोपश्च । अनड्वाहाविति । सर्वनामस्थानत्वादाम् । नुम् तु न, तस्य सावेव विधानात् । अनडुह इति । शसादावचि अविकृत एवानडुहशब्द इति भावः ।

Padamanjari

Up

चतुःशब्दस्य केवलस्य सम्बुद्ध्यभावादुपसमस्तस्योदाहरणम् । अनडुहस्तु प्रक्रमाभेदाय, तदन्तविधिरत्रेष्यते इति प्रदर्शनाय च तदन्तस्योदाहरणम् ॥