अचि विभाषा

8-2-21 अचि विभाषा पदस्य पूर्वत्र असिद्धम् रः लः ग्रः

Kashika

Up

index: 8.2.21 sutra: अचि विभाषा


अजादौ प्रत्यये परतो ग्रो रेफस्य विभाषा लकारादेशो भवति। निगिरति, निगिलति। निगरणम्, निगलनम्। निगारकः, निगालकः। इयं तु व्यवस्थितविभाषा। तेन गलः इति प्राण्यङ्गे नित्यं लत्वं भवति, गरः इति विषे नित्यं न भवति। निगार्यते,निगाल्यते इति णिलोपस्य स्थानिवद्भावातचि विभाषा इति लत्वविकल्पः। पूर्वत्र असिद्धे न स्थानिवतिति एतदपि सापवादम् एव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति। अन्तरङ्गत्वाद् वा कृते लत्वविकल्पे णिलोपो भविष्यति। गिरौ, गिरः इत्यत्र धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् इति लत्वं न भवति। गिरतिर्वा लत्वविधावधिकृतः, गृणातेरेतद् रूपम्।

Siddhanta Kaumudi

Up

index: 8.2.21 sutra: अचि विभाषा


गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल । जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता ।{$ {!1411 दृङ्!} आदरे$} । आद्रियते । आद्रियेते । आदद्रे । आदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् ।{$ {!1412 धृङ्!} अवस्थाने$} । ध्रियते ॥ अथ परस्मैपदिनः षोडश ॥{$ {!1413 प्रच्छ!} ज्ञीप्सायाम्$} । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः ।{$ {!1414 सृज!} विसर्गे$} । विभाषा सृजिदृशोः <{SK2404}> ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोर्झल्यमकिति <{SK2405}> इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् ।{$ {!1415 टुमस्जो!} शुद्धौ$} । मज्जति । ममज्ज । मस्जिनशोर्झलि <{SK2517}> इति नुम् ।<!मस्जेरन्त्यात्पूर्वो नुम्वाच्यः !> (वार्तिकम्) ॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः ।{$ {!1416 रुजो!} भङ्गे$} । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ।{$ {!1417 भुजो!} कौटिल्ये$} । रुजिवत् ।{$ {!1418 छुप!} स्पर्शे$} । छोप्तां । अच्छौप्सीत् ।{$ {!1419 रुश!} {!1420 रिश!} हिंसायाम्$} । तालव्यन्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति ।{$ {!1421 लिश!} गतौ$} । अलिक्षत् ।{$ {!1422 स्पृश!} संस्पर्शने$} । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्क्ष्यति । अस्प्राक्षीत् । अस्पार्क्षीत् । अस्पृक्षत् ।{$ {!1423 विच्छ!} गतौ$} । गुपूधूप - <{SK2303}> इत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ।{$ {!1424 विश!} प्रवेशने$} । विशति । वेष्टा ।{$ {!1425 मृश!} आमर्शने$} । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् ।{$ {!1426 णुद!} प्रेरणे$} । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः ।{$ {!1427 षद्लृ!} विशरणगत्यवपसादनेषु$} । सीदतीत्यादि भौवादिकवत् । इह पाठोनुम्विकल्पार्थः । सीदति । सीदन्ती । ज्वालादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः ।{$ {!1428 शदॢ!} शातने$} । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । शदेः शितः - <{SK2362}> इत्यात्मनेपदोक्तेः ॥ अथ षट् स्वरितेतः ॥{$ {!1429 मिल!} सङ्गमे$} । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल । मिमिले ।{$ {!1430 मुच्लृ!} मोक्षणे$} ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.21 sutra: अचि विभाषा


गिरते रेफस्य लो वाजादौ प्रत्यये। गिरति, गिलति। जगार, जगाल। जगरिथ, जगलिथ। गरीता, गरिता, गलीता, गलिता॥ {$ {! 41 प्रच्छ !} ज्ञीप्सायाम् $} ॥ ग्रहिज्येति सम्प्रसारणम्। पृच्छति। पप्रच्छ। पप्रच्छतुः। प्रष्टा। प्रक्ष्यति। अप्राक्षीत्॥ {$ {! 42 मृङ् !} प्राणत्यागे $} ॥

Balamanorama

Up

index: 8.2.21 sutra: अचि विभाषा


अचि विभाषा - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । 'कृपो रो लः' इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्रस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्रस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ 'मग्न' इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'सद्लृ शातने' इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य चे' त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः'आद्युदात्तश्चे॑त्यनेनेति भावः । ननु 'शद्लृ शातने' इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे ।

Padamanjari

Up

index: 8.2.21 sutra: अचि विभाषा


धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्प्रत्ययः सन्निधापितः, तस्याचा विशेषणातदादिविधिर्विज्ञायते, यदाह - अजादौ प्रत्यये इति । निगिरतीति । तुदादित्वाच्छः, तस्य ङित्वादिसति गुणे इत्वम् । णिलोपस्य स्थानिवद्भावादिति । पदस्य लत्वविधानादन्तरङ्गत्वाभावात्'पूर्वत्रासिद्धम्' इति च लत्वस्यासिद्धत्वापूर्वं णिलोप एव भवतीति भावः । प्रत्ययलक्षणमप्यत्र शक्यं वक्तुम् । न च वर्णाश्रयत्वम्; ठजादौ प्रत्ययेऽ इत्युक्तत्वात् । कथं पुनः स्थानिवद्भावः, यावता'पूर्वत्रासिद्धे न स्थानिवत्' इति पठ।ल्ते ? अत आह - पूर्वत्रासिद्ध इति । कः पुनरस्यापवादः ? इत्यत आह - तस्य दोष इति । अन्तरङ्गत्वाद्वेति ।'पदस्य' इत्यधिकारात् कालतोऽन्तरङ्गत्वाभावेऽप्यन्तर्भूताजाद्यपेक्षत्वाल्लत्वमन्तरङ्गम्, बहिर्भूतयगपेक्षत्वातु णिलोपो बहिरङ्ग इति भावः । गिरौ, गिर इति । विस्पष्टार्थम् ॥