6-4-90 दोषः णौ असिद्धवत् अत्र आभात् अचि ऊत् उपधायाः
दोषः उपधायाः ऊत् णौ
दुष्-धातोः उपधावर्णस्य णिच्-प्रत्यये परे ऊकारादेशः भवति ।
The उपधा letter of the verb root दुष् is converted to ऊकार when followed by the णिच् प्रत्यय.
दोष उपधाया ऊकार आदेशो भवति णौ परतः। दूषयति, दूषयतः, दूषयन्ति। विकृतग्रहणं प्रक्रमाभेदार्थम्। पूर्वत्र हि गोह इत्युक्त म्। णाविति किम् ? दोषो वर्तते।
दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥
'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः भवति । यथा, दुष्-धातोः णिच्-प्रत्यये परे - दुष् + णिच् [<<हेतुमति च>> 3.1.26 इति णिच्] → दूष् + इ [<<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन उकारस्य गुणे प्राप्ते अपवादत्वेन <<दोषो णौ>> 6.4.90 इति उपधायाः ऊकारः] → दूषि [<<सनाद्यन्ताः धातवः>> 3.1.32 इति धातुसंज्ञा ] अस्यैव अग्रे दूषयति, दूषयतः - आदीनि रूपाणि भवन्ति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'दोषः' इति दुष्-इत्यस्य षष्ठी-एकवचनमस्ति । वस्तुतः अत्र 'दुषः' इति भवेत्, परन्तु अत्र 'दोषः' इति निर्दिष्टमस्ति । अस्य किमपि प्रयोजनम् न विद्यते । अतएव कौमुद्याम् दीक्षितः वदति - 'दुषः इति सुवचम् । 2. 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।
<<दोषो णौ>> - दोषो णौ । 'ऊदुपधाया' इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् ।
किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दतोतरत्वात् । उक्तोतरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ॥