लोपो यि

6-4-118 लोपः यि असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके जहातेः

Sampurna sutra

Up

index: 6.4.118 sutra: लोपो यि


जहातेः अङ्गस्य सार्वधातुके क्ङिति यि लोपः

Neelesh Sanskrit Brief

Up

index: 6.4.118 sutra: लोपो यि


हा-धातोः अन्तिमवर्णस्य सार्वधातुके क्ङिति यकारादिप्रत्यये परे लोपः भवति ।

Neelesh English Brief

Up

index: 6.4.118 sutra: लोपो यि


The last letter of हा is removed when followed by a यकारादि प्रत्यय.

Kashika

Up

index: 6.4.118 sutra: लोपो यि


लोपो भवति जहातेः यकारादौ क्ङिति सार्वधातुके परतः। जह्रात्, जह्राताम्, जह्रुः।

Siddhanta Kaumudi

Up

index: 6.4.118 sutra: लोपो यि


जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एर्लिङि <{SK2374}> । हेयात् । अहासीत् ।{$ {!1091 डुदाञ्!} दाने$} । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । घ्वसोः -<{SK2471}> इत्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित ।{$ {!1092 डुधाञ्!} धारणपोषणयोः $}। दानेऽप्येके । प्रणिदधाति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.118 sutra: लोपो यि


जहातेरालोपो यादौ सार्वधातुके। जह्रात्। एर्लिङि। हेयात्। अहासीत्। अहास्यत्॥ {$ {! 6 माङ् !} माने शब्दे च $} ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.118 sutra: लोपो यि


ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः अङ्गस्य अन्तिमवर्णस्य यकारादि-सार्वधातुक-कित्/ङित्-प्रत्यये परे लोपः भवति । यथा, अस्य धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

हा + लिङ् [विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 3.3.161 इति लिङ्]

→ हा + तिप् [तिप्तस्... 3.4.78 इति तिप्]

→ हा + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]

→ हा + ति [जुहित्यादिभ्यः श्लुः 2.4.75 इति श्लुः]

→ हा हा + ति [श्लौ 6.1.10 इति द्वित्वम्]

→ ह हा + ति [ह्रस्वः 7.4.59 इति ह्रस्वः]

→ झ हा + ति [कुहोश्चुः 7.4.62 इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]

→ झ हा + त् [इतश्च 3.4.100 इति तकारलोपः]

→ झ हा + यासुट् त् [यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः]

→ झ हा + यास् सुट् त् [सुट् तिथोः 3.4.107 इति सुट्-आगमः]

→ झ हा + या त् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति उभयोः सकारयोः लोपः]

→ झ ह् + या त् [लोपो यि 6.4.118 इति यकारलोपः]

→ जह्यात् [अभ्यासे चर्च्च 8.4.54 इति जश्त्वम्]

ज्ञातव्यम् -

  1. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> इत्यनेन 'यि' इत्युक्ते 'यकारादि प्रत्यये परे' इति अर्थः सिद्ध्यति ।

  2. अलोऽन्त्यस्य 1.1.52 इत्यनेन 'अङ्गस्य लोपः' इत्युक्ते 'अङ्गस्य अन्तिमवर्णस्य लोपः' इति अर्थः जायते ।

  3. यदि यकारादिप्रत्ययः कित् / ङित् अस्ति, सार्वधातुकः च अस्ति, तर्ह्येव अस्य सूत्रस्य प्रसक्तिः वर्तते ।

Balamanorama

Up

index: 6.4.118 sutra: लोपो यि


लोपो यि - लोपो यि ।जहातेश्चे॑त्यतो जहातेरिति, 'श्नभ्यस्तयोरातःर' इत्यत आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते ।यी॑ति सप्तम्यन्तं सार्वधातुकविशेषणम् । तदादिविधिः । तदाह — जहातेरित्यादिना ।जहातेश्चे॑त्यस्यापवादः । आशीर्लिङ्याह — एर्लिङीति । अहासीदिति ।यमरमे॑ति सगिटौ । अहास्यत् । डु दाञ् । उभयपदी । अनिट् । प्रणिददातीति ।नेर्गदे॑ति णत्वम् । दत्त इति । ददा तस् इति स्थितेअघो॑रिति पर्युदासादीत्त्वाऽभावेश्नाभ्यस्तयो॑रित्याल्लोपः । ददतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोप इति भावः । ददासि दत्थः दत्थ । ददामि दद्वः दद्मः । दत्ते इति । ददाते ददते । दत्से ददाथे दद्ध्वे । ददे दद्वहे दद्महे । ददौ इति । ददतुः दधुः । ददिथ — दधाथ ददथुः दद । ददौ ददिव ददिम । ददे ददाते ददिरे । ददिषे ददाथे ददिध्वे । ददे ददिवहे ददिमहे । दाता । दास्यति दास्यते । ददातु — दत्तात् दत्ताम् ददतु । इति सिद्ध्वत्कृत्य देहि इत्यत्र आह - घ्वसोरिति । दत्तात् दत्तम् दत्त । ददानि ददाव ददाम । दत्ताम् ददाताम् ददताम् । दत्स्व ददाथाम् दद्ध्वम् । ददै ददावहै ददामहै । लङ्याह - अददादिति । अददुरिति । अददुरिति । अभ्यस्तत्वाज्जुस् । अददाः अदत्तम् । अदत्त । अददामदद्व अदद्म । विधिलिङ्याह — दद्यादिति । स्नाभ्यस्तयो॑रित्याल्लोपः । आशीर्लिङि तुएर्लिङी॑त्येत्त्वमभिप्रेत्य आह — देयादिति । दासीष्ट । लुङ्याह - अदादिति ।गातिस्थे॑ति सिचो लुगिति भावः । अदाः अदातमदात । अदामदाव अदाम । लुङ्यात्मनेपदे आह — अदितेति । अदा स् त इति स्थितेस्थाध्वोरिच्चे॑ति दाधातोरन्त्यस्य इकारः । सिचः कित्त्वं च । कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोप इति भावः । अदिषातामदिषत । अदिथाः अदिषाथामदिढ्वम् । अदिषि अदिष्विहि अदिष्महि । अदास्यत् अदास्यत् । डु धाञ् । ञित्त्वादुभयपदी । अनिट् । प्रणिदधातीति ।नेर्गदे॑ति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे श्नाभ्यस्तयो॑रित्याल्लोपे दध् तस् इति स्थिते —

Padamanjari

Up

index: 6.4.118 sutra: लोपो यि


देहि, धेहीति । दाञ्धाञो रुपे । दोदाण्धेटां तु विकरणेन हिर्व्यवहितः । देङत्मनेपदी । शिदयमिति । न सूत्रे श्रूयमाणश्शकारो विभक्तिसकारस्य श्चुत्वेनागतः, किं तर्हि औत्पतिको लोपशब्दसम्बन्धी । विभक्तेषु हल्ङ्यादिलोप इति भावः । संज्ञाशब्दे च कृतोऽनुबन्धः संज्ञिनः कार्यं सम्पादयति, यथा - ङ्मुटष्टत्वम् । एचच्च नानर्थकेऽलोन्त्यविधिः इत्यनाश्रित्योक्तम् ॥