दाधा घ्वदाप्

1-1-20 दा धा घु अदाप्

Sampurna sutra

Up

अदाप् दा-धा घु

Neelesh Sanskrit Brief

Up

'दाप्' तथा 'दैप्' एतौ धातू वर्जयित्वा अन्ये दारूपाः धारूपाः च धातवः घुसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

Except for the verbs दाप् and दैप्, all other verbs that are referred to as 'दारूपाः' or 'धारूपाः' are known as 'घु'.

Kashika

Up

दारूपाश्चत्वारो धातवो धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति। डुदाञ् — प्रणिददाति। दाण् — प्राणिदाता। दो — प्रणिद्यति । देङ् — प्रणिदयते। डुधाञ् — प्रणिदधाति। धेट् — प्रणिधयति वत्सो मातरम् । अदाबिति किम् ? <<दाप् लवने>> — दातं बर्हिः। <<दैप् शोधने>> — अवदातं मुखम् । घुप्रदेशाः — <<घुमास्थागापाजहातिसां हलि>> ६.४.६६ इत्येवमादयः॥

Siddhanta Kaumudi

Up

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥

Laghu Siddhanta Kaumudi

Up

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रस्य संज्ञासु अन्यतमा संज्ञा 'घु' इति अनेन सूत्रेण दीयते । 'दाप्' तथा 'दैप्' एतौ धातू वर्जयित्वा येषाम् धातूनाम् कुत्रचित् 'दा' उत 'धा' इति रूपं श्रूयते, तेषाम् सर्वेषाम् 'घु' इति संज्ञा भवति । दारूपाः धातवः येषाम् धातूनाम् प्रक्रियायां कुत्रचित् 'दा' इति परिवर्तनं भवति, ते सर्वे 'दारूपाः' धातवः । धातुपाठे आहत्य षट् धातवः दारूपाः सन्ति - 1) दाप् (लवने, अदादिः) - <{2.0054}> 2) दैप् (शोधने, भ्वादिः) - <{1.1073}> 3) डुदाञ् (दाने, जुहोत्यादिः) - <{3.0010}> 4) दाण् (दाने, भ्वादिः) - <{1.1079}> 5) दो (अवखण्डने, दिवादिः) - <{4.0043}> 6) देङ् (रक्षणे, भ्वादिः) - <{1.1117}> एतेषु 'दाप्' तथा 'दैप्' एतौ वर्जयित्वा अन्येषाम् चतुर्णाम् 'घु'संज्ञा भवति । धारूपाः धातवः येषाम् धातूनाम् प्रक्रियायां कुत्रचित् 'धा' इति परिवर्तनं भवति, ते सर्वे 'धारूपाः' धातवः । धातुपाठे आहत्य द्वौ धातू धारूपौ स्तः - 1) डुधाञ् (धारणपोषणयोः, जुहोत्यादिः) - <{3.0011}> 2) धेट् (पाने, भ्वादिः) - <{1.1050}> एतयोः द्वयोः अपि 'घु' इति संज्ञा भवति । प्रयोजनम् घुसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । यथा, घुसंज्ञकस्य दा-धातोः तकारादि-कित्-प्रत्यये परे 'दद्' इति आदेशः भवति - डुदाञ् (दाने, जुहोत्यादिः) दा + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] --> दा + त [<<लशक्वतद्धिते>> 1.3.8, <<तस्य लोपः>> 1.3.9 --> दद् + त [<<दो दद् घोः>> 7.4.46 इति घुसंज्ञकस्य 'दा' इत्यस्य दद्-आदेशः ।] --> दत् + त [<<खरि च>> 8.4.55 इति चर्त्वम्] --> दत्त प्रयोगः अष्टाध्याय्यां 'घु'संज्ञायाः साक्षात् निर्देशः अष्टसु सूत्रेषु कृतः अस्ति । 1. <<स्थाघ्वोरिच्च>> 1.2.17 2. <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 3. <<उपसर्गे घोः किः>> 3.3.92 4. <<घुमास्थागापाजहातिसां हलि>> 6.4.66 5. <<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 6. <<घोर्लोपो लेटि वा>> 7.3.70 7. <<दो दद्घोः>> 7.4.46 8. <<नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च>> 8.4.17 अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति । सूत्रे 'अदाप्' इति ग्रहणस्य प्रयोजनम् 'अदाप्' इति स्पष्टनिर्देशात् दाप् (लवने, <{2.0054}>) तथा दैप् (शोधने, <{1.1073}>) एतयोः दारूपयोः धात्वोः अनेन सूत्रेण घुसंज्ञा न भवति । तथा क्रियते चेत् उपरिनिर्दिष्टानि सूत्राणि एतेषां विषये अपि कार्यं कृत्वा अनिष्टरूपाणां सिद्धिं कुर्युः । यथा, क्त-प्रत्यये परे <<दो दद्घोः>> 7.4.46 इत्यनेन अङ्गस्य 'दद्' इति सर्वादेशे कृते 'दत्त' इति अनिष्टं रूपं सिद्ध्येत् (इष्टरूपम् तु उभयोः विषये 'दातम्' इत्येव अस्ति) । एवमेव लुङ्लकारस्य रूपसिद्धौ <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इत्यनेन सिच्-प्रत्ययस्य लोपे कृते 'अदात्' इति अनिष्टं रूपं जायेत (इष्टरूपम् तु उभयोः विषये 'अदासीत्' इति अस्ति) । अतः अत्र एतयोः घुसंज्ञा अत्र 'अदाप्' इति निर्देशं कृत्वा निषिध्यते ।

Balamanorama

Up

<<दाधा घ्वदाप्>> - आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति — दाधाघ्वदाप् ।दे॑त्यनेन स्वाभाविकाऽऽकारान्तयोः 'डु दाञ् दाने' 'दाण् दाने' इत्यनयोः, कृतात्वयोः 'दो अवखण्डने' 'देङ् रक्षणे' इत्यनयोर्लाक्षणिकयोश्च, 'धे' त्यनेन स्वाभाविकाकारान्तस्यडु धाञ् धारणपोषणयो॑रित्यस्य, लाक्षणिकस्य 'धेट् पाने' इत्यस्य च ग्रहणम् ।गामादाग्रहणेष्वविशेषः॑ इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च । अत एवदो दद्धो॑रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह — दारूपा धारूपाश्चेति ।

Padamanjari

Up

किमिदं प्रयोगस्थानामनुकरणम्-प्रयोगे ये दाधारूपाः श्रूयन्ते, ते घुसंज्ञा भवन्तीति ? आहोस्वित् उपदेशे धातुपाठेऽपस्थितानां यावतामनुकरणं दाधारूपं संभवति तेषामिति ? किं चातः ? यदि प्रयोगस्थानामनुकरणम्, शिति न प्राप्नोति, दो-प्रणिद्यति, देङ्-प्रणिदयते, दाण्-प्रणियच्छति, धेट्-प्रणिधयति; किं कारणम् ? अदाधारूपत्वात् । प्रणिदाता प्रकणिधाता इत्यादावेव तु स्यात् । किमुच्यते शिति न प्राप्नोतीति, यावता दोदेङ्धेटामशित्यप्यात्वे कृतेऽपि लाक्षणिकत्वान्न प्राप्नोति ? नैष दोषः; 'गामादाग्रहणेष्वविशेषः' इति दोदेङे तावद्गृह्यएते । अस्याश्च परिभाषाया दैपः पित्वं लिङ्गम्; अन्यथा हि लाक्षणिक्त्वादेवास्य ग्रहणं न भविष्यति । 'दो दद् घोः' इत्यत्र च 'दः' इत्येतद्धेण्निवृत्यर्थं सतस्य घुसंज्ञां ज्ञापयति, दधातेस्तु 'दधातेर्हिः' इति ह्यादेशाविधानादेव दद्भावाप्रसङ्गः । यदि 'गामादाग्रहणेष्वविशेषः' तर्हि अर्थवत्परिभाषापि निवर्तेत, तत्र को दोषः ? प्रनिदारयति-अत्रापि प्राप्नोति । अस्तु, णत्वं कस्मान्न भवति ? 'उपसर्गात्' इत्यनुवर्तते, सम्बन्धिशब्दश्चायमुपसर्ग इति, तस्मादेवं विज्ञास्यामः-गदादीनां य उपसर्गस्तत्रस्थान्निमितादुतरस्य तानेव गदादीन्प्रत्युपसर्गस्य नेरिति । प्रनिदारयतीत्यत्र च यं प्रत्युपसर्गो नासौ दारूपः, यश्च दारूपः न तं प्रत्युपसर्गः, तस्यानर्थकत्वाद् । अतः शित्येव दोषः । उपदेशस्थानां त्वनुकरणे दोदेङ्धेडनुकरणानामपि 'आदेच उपदेशेशिति' इत्यात्वसद्भावातेषां दाण्दाञ्धाञां च सर्वेषां सिद्ध्यति । आत्वधिषयेऽप्येकदेशविकृतस्यानन्यत्वात् सिद्धम् । सर्वेषां च स्वरूपेणानुक्रियमाणत्वात् लक्षणप्रतिपदोक्तयोर्निरनुबन्धकेति च परिभाषयोरनुपस्थानम्, नापि प्रनिदारयतीत्यत्र प्रसङ्गः, न हि 'दीङ्' इत्येतदनुकरणस्यात्वमस्ति । कृतात्वमपि किञ्चिन्मात्रसाधर्म्यादनुकरणं न विरुध्यते, यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्येति निर्दोषं द्वितीयं पक्षमाश्रित्याह-दारूपाश्चत्वार इत्यादि । एवं च दीङेऽनुकरणस्यात्वाभावात् तृजादिषु 'मीनातिमिनोतिदीङम्' इत्यात्वे दारूपस्यापि घुसंज्ञा न भवति, प्रनिदाता-णत्वं न भवति । उपादास्तास्य स्वरः शिक्षकस्य-श्थाध्वोरिच्च' इतीत्वं न भवति । केचितु संज्ञामिच्छन्ति । तेषामप्युपादास्तेत्यत्र न भवति, ' सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य' इति । ठ्प्रणिददातीत्यादौ नेर्गदेति णत्वम् । प्रणिद्यतीति-'ओतः श्यनि' । दातं बर्हिरति । लूनमित्यर्थः । घुसंज्ञाया अभावाद् 'दो दद् घोः ' इति न भवति । अवदातमित्यत्र च 'अच उपसर्गातः' इति न भवति । ननु दाब्दैपोरननुकरणादेव न भविष्यति, अस्मदायतं खल्वनुकरणं दाप्दैपोर्न करिष्यामः, तन्न; असति तस्मिन्प्रतिपदोक्तमेव दाधारूपमनुकरणं गृह्यते । सति तु तस्मिन् यावतामनुकरणं दाधारूपं सम्भवति लाक्षणिकं प्रतिपदोक्तं वा, तावतां सर्वेषामनुकरणं भवति । 'उदीचां माङे व्यतीहारे' इति च मेङः कृतात्वास्य निर्द्देशो ज्ञापयति-ङानुबन्धकृतमनेजन्तत्वम्' इति । न हि 'माङ् माने' इत्यस्य व्यतीहारे वृत्तिः सम्भवति, तेन दैपः पकारे श्रूयमाण एवात्वं भवतीति अदाबिति प्रतिषेधो भवति । संज्ञाप्रवृत्तिसमये च यद्दाब्रूपम्, तस्य प्रतिषेध इति प्रणिदापयतीत्यत्र प्रगेव पुकः प्रवृतां घुसंज्ञामाश्रित्य णत्वं भवति । 'दाधा घ्वपित्' इति वक्तव्यम्, पित् घुसंज्ञो न भवतीति । बकारो वा द्वयोरनुबन्धः, सूत्रमपि बकारान्तमेव पठितव्यम् । भाष्यवार्तिकविरोधस्तु महापदमञ्जर्यामस्माभिः प्रपञ्चितः ॥