आ च हौ

6-4-117 आ च हौ असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके अन्यतरस्याम् जहातेः

Sampurna sutra

Up

जहातेः अङ्गस्य आ, इत् अन्यतरस्याम् हौ

Neelesh Sanskrit Brief

Up

हा-धातोः 'हि'प्रत्यये परे विकल्पेन इकारः / आकारः च आदेशरूपेण आगच्छतः ।

Neelesh English Brief

Up

The verb root 'हा' gets an optional इकारादेश or an आकारादेश when followed by the प्रत्यय 'हि'.

Kashika

Up

जहातेराकारश्चान्तादेशो भवतीकारश्चान्यतरस्यां हौ परतः। जहाहि, जहिहि, जहीहि॥

Siddhanta Kaumudi

Up

जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥

Laghu Siddhanta Kaumudi

Up

जहातेर्है परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि। अजहात्। अजहुः॥

Neelesh Sanskrit Detailed

Up

ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे <<ई हल्यघोः>> 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति, आकारादेशः अपि व भवति । प्रक्रिया इयम् - हा + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → हा + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → हा + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → हा + सिप् [<<जुहित्यादिभ्यः श्लुः>> 2.4.75 इति श्लुः] → हा हा + सिप् [<<श्लौ>> 6.1.10 इति द्वित्वम्] → ह हा + सिप् [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → झ हा + सिप् [<<कुहोश्चुः>> 7.4.62 इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झ हा + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सि-इत्यस्य अपित् हि-आदेशः । → झहाहि / झहिहि, झहीहि [<<आ च हौ>> 6.4.117 इति वैकल्पिकः आकारः, इकारः । उभयोः अभावे <<ई हल्यघोः>> 6.4.113 इत्यनेन ईकारादेशः] → जहाहि / जहिहि, जहीहि [<<अभ्यासे चर्च्च>> 8.4.54 इति जश्त्वम्]

Balamanorama

Up

Padamanjari

Up

सार्वधातुकमेव हि ॥