6-4-114 इत् हरिद्रस्य असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके आतः हलि
index: 6.4.114 sutra: इद्दरिद्रस्य
दरिद्रस्य आतः हलि सार्वधातुके क्ङिति इत्
index: 6.4.114 sutra: इद्दरिद्रस्य
दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ह्रस्व-इकारादेशः भवति ।
index: 6.4.114 sutra: इद्दरिद्रस्य
The आकार of the verb root 'दरिद्रा' is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय.
index: 6.4.114 sutra: इद्दरिद्रस्य
दरिद्रातेः हलादौ सार्वधातुके क्ङिति परतः इकरादेशो भवति। दरिद्रितः दरिद्रिथः। दरिद्रिवः। दरिद्रिमः। हलि इत्येव, दरिद्रति। क्ङिति इत्येव, दरिद्राति। दरिद्रातेरार्धधातुके लोपो वक्तव्यः। सिद्धश्च प्रत्ययविधौ भवतीति वक्तव्यम्। दरिद्रातीति दरिद्रः। आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति। न दरिद्रायके लोपो दरिद्राणे च नेष्यते। दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा। अद्यतन्यां वेति वक्तव्यम्। अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वम् द्रष्टव्यम्।
index: 6.4.114 sutra: इद्दरिद्रस्य
दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥
index: 6.4.114 sutra: इद्दरिद्रस्य
एतत् सूत्रम् दरिद्रा (दुर्गतौ) इति अदादिगणस्य धातोः विषये अस्ति । अस्य धातोः जक्षित्यादयः षट् 6.1.6 इत्यनेन अभ्यस्तसंज्ञा भवति, अतः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे अस्य आकारस्य ई हल्यघोः 6.4.113 इत्यनेन ईकारादेशः विधीयते । तं बाधित्वा वर्तमानसूत्रेण अस्य ह्रस्व-इकारादेशः उच्यते । यथा, दरिद्रा-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपस्य प्रक्रिया इयम् -
दरिद्रा + लोट् [वर्तमाने लट् 3.2.123 इति लट् ]
→ दरिद्रा + तस् [तिप्तस्झि.. 3.4.78 इति परस्मैपदस्य प्रथमपुरुषद्विवचनस्य विवक्षायाम् 'तस्' प्रत्ययः । सार्वधातुकमपित् 1.2.4 इति अस्य ङित्-वत् भावः]
→ दरिद्रा + शप् +तस् [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप्]
→ दरिद्रा + तस् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]
→ दरिद्रि + तस् [इद्दरिद्रस्य 6.4.114 इत्यनेन दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके ङिति प्रत्यये परे इकारः]
→ दरिद्रितः [विसर्गनिर्माणम्]
तथैव दरिद्रिथः, दरिद्रिवः, दरिद्रिमः - आदीनि रूपाणि सिद्ध्यन्ति ।
अस्य सूत्रस्य विषये वार्तिकद्वयम् ज्ञातव्यम् -
दरिद्रा → (आर्धधातुकप्रत्ययविवक्षायामाकारलोपः) दरिद्र् + अच् [ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इत्यनेन पचादिगणे विद्यमानस्य दरिद्रा-धातोः अच्-प्रत्ययः] → दरिद्र ।
अत्र प्रत्ययविवक्षायामेव लोपं कृत्वा ततः एव यथायोग्यं प्रत्ययः विधीयते । एवं न क्रियते चेत् प्रारम्भे अच्-प्रत्ययस्य प्रसक्तिरेव न स्यात् ; अपितु श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च 3.1.141 इत्यनेन ण-प्रत्ययं कृत्वा अनिष्टं रूपं सिद्ध्येत ।
एवमेव 'तव्य' प्रत्ययविवक्षायामाकारलोपं कृत्वा दरिद्रितव्य - इति सिद्ध्यति । 'अनीयर्' प्रत्ययविवक्षायामाकारलोपं कृत्वा 'दरिद्रनीय' इति सिद्ध्यति । भावकर्मणोः 'यक्' प्रत्ययविवक्षायामाकारलोपं कृत्वा 'दरिद्र् + यक् + ते → दरिद्र्यते' इति सिद्ध्यति ।
भाष्ये अस्मिन् विषये उक्तमस्ति - 'न दरिद्रायके लोपो दरिद्राणे च नेष्यते' । इत्युक्ते, 'ण्वुल्' प्रत्ययस्य विषये, तथा च 'ल्युट्' प्रत्ययस्य विषये च अयं लोपः न भवति । यथा -
अ) दरिद्रा + ण्वुल् → दरिद्रायक । अत्र आतो युक् चिण्कृतोः 7.3.33 इत्यनेन युक्-आगमः भवति ।
आ) दरिद्रा + ल्युट् → दरिद्राण ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'दरिद्रा' शब्दस्य षष्ठी-एकवचनम् 'दरिद्रस्य' इति कृतमस्ति । अत्र 'दरिद्र' इति ह्रस्वकरणम् कृत्वा ततः षष्ठी-एकवचनस्य प्रत्ययः युज्यते । अस्य ह्रस्वकरणस्य किमपि सूत्रम् नास्ति, अतः अयं छान्दसः (आर्षः) प्रयोगः मन्तव्यः ।
index: 6.4.114 sutra: इद्दरिद्रस्य
इद्दरिद्रस्य - इद्दरिद्रस्य । सौत्रो ह्रस्वः ।गमहने॑त्यतः क्ङितीत्यनुवर्तते ।ई हल्यघो॑रित्ते हलीति,अत उदि॑त्यतः सार्वधातुके इति । तदाह — दरिद्रातेरिति ।श्नाभ्यस्तयो॑रित्याल्लोपाऽपवादः । अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारः । दरिद्रित इति ।सार्वधातकमपि॑दितितसो ङित्त्वादाकारस्य इकारः ।
index: 6.4.114 sutra: इद्दरिद्रस्य
इदमपि सार्वधातुक एव अन्यत्र लोपविधानात् । सिद्धस्चति । यथा प्रत्ययविधौ प्रत्ययविधानकाल थएव सिद्धो भवति, तथा लोपः कर्तव्यः, आर्धधातुके तैति वष्यसप्तम्याश्रयणीयेति भावः । आकारान्तलक्षण इति । आर्धधातुके इति परसप्तम्यां तस्योत्पर्ति प्रतौक्ष्य लोपः कर्तव्यः, ततश्च स्याव्द्यय त्याकारान्तिलक्षणो णप्रत्ययः स्यात्, तत्र कृतेऽनेन लोपश्च प्राप्नोति युक्च, तत्र लोपस्य शब्दान्तरप्राप्त्याऽनित्यत्वम् , युकस्तु लोपे कृतेऽप्राप्तिः, ततश्च उभयोरप्यनित्ययोः परत्वाद्यौक् स्यात् । अथापि एलोपः स्यात्, एवमपि अदरिद्र तैत्यत्र अच्कावशक्तौ इत्येव स्वरो न स्यात् । ईषद्दरिद्रमित्यत्र च आचो युच् इति युच् स्यात् । दरिद्रायक् इति । ण्वुलि, युक् । दरिद्राण इति । ल्युट् । दिदरिद्रासतीति । तनिपतिदरिद्राणामुपसंख्यानम् इति व्यवस्थितविभाषा, तेन लोपपक्षे इट् । अन्यत्रेडभावः । अद्यतन्यामिति । लुङ् एषा पूर्वाचार्यसंज्ञा । अदरिद्रासीदिति । यमरमनमातां सक्चेति । एकाचः इति तत्रानुवर्तत इत्येकीयं मतम् । चिणि - अदरितिद्रि, तादरिद्रायि । णलि - ददरिद्रौ । छान्दस ह्रस्वत्वमिति । अन्यथा आतो धातोः इति लोपे दरिद्र इति निर्द्देशः स्यात ॥