7-4-79 सनि अतः अभ्यासस्य इत्
सनि परतोऽकारान्ताभ्यासस्य इकारादेशो भवति। पिपक्षति। यियक्षति। तिष्ठासति। पिपासति। सनि इति किम्? पपाच। अतः इति किम्? लुलूषति। तपरकरणं किम्? पापचिषते।
अभ्यासस्यात इकारः स्यात्सनि ॥
अभ्यासस्यात इत् स्यात् सनि॥
<<सन्यतः>> - सन्यतः ।सनि-अत इति च्छेदः । 'अत्र लोप' इत्यतोऽभ्यासस्येत्यनुवर्तते ।भृञामि॑दित्यस्मादिदिति । तदाह — अभ्यासस्येति । कि कम त इति स्थितम् ।
यियक्षतीति । यजेर्ब्रश्चादिना षत्वम्,'पढोः कः सि' । तपरकरणं किम् ? पापच्यतेः सन्, पापचिषते इत्यत्र मा भूत् । किं पुनः कारणमत्र ह्रस्वो न भवति ? दीर्घविधानसामर्थ्यात् । यदि तु'सनि यो' भ्यासःऽ इत्येवं विज्ञायते, ततो लाघवे विशेषाभावातपरकरणम् ॥