धातोस्तन्निमित्तस्यैव

6-1-80 धातोः तन्निमित्तस्य एव संहितायाम् अचि एचः वान्तः प्रत्यये

Sampurna sutra

Up

धातोः यि-प्रत्यये तन्निमितस्यैव एचः वान्तः संहितायाम्

Neelesh Sanskrit Brief

Up

यकारादौ प्रत्यये परे संहितायाम् धातोः ओकार-औकारयोः वान्तादेशः तदा एव भवति यदा सः ओकारः/औकारः तेन यकारादि-प्रत्ययेन निर्मितः अस्ति ।

Neelesh English Brief

Up

In the context of संहिता, the ओकार/औकार at the end of a धातु, when followed by यकारादि-प्रत्यय, is converted to अव् / आव् only if that ओकार/औकार is generated by that यकारादिप्रत्यय itself.

Kashika

Up

एच इति वर्तते, वान्तो यि प्रत्यय इति च। धातोर्य एच् तन्निमित्तो यकारादिप्रत्यय — निमित्तः, तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यम्। धातोरिति किम् ? प्रातिपदिकस्य नियमो मा भूत्। तत्र को दोषः ? बाभ्रव्य इत्यत्रैव स्यात्, इह न स्याद् — गव्यं नाव्यमिति। तन्निमित्तस्येति किम् ? अतन्निमित्तस्य मा भूत्। उपोयते। औयत। लौयमानिः। पौयमानिः। <<अत इञ्>>४.१.९५। एवकारकरणं किम् ? धात्ववधारणं यथा स्यात्, तन्निमित्तावधारणं मा भूदिति। तन्निमित्तस्य हि धातोश्चाधातोश्च भवति। बाभ्रव्यः। अवश्यलाव्यम्। लव्यम्॥

Siddhanta Kaumudi

Up

यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यकारादि-प्रत्यये परे प्रकृतेः अन्ते विद्यमानयोः ओकार-औकारयोः यथासङ्ख्यम् 'अव्' / 'आव्' आदेशः भवति — अस्य <<वान्तो यि प्रत्यये>> 6.1.79 इति पूर्वसूत्रैण उक्तस्य विधेः प्रकृतसूत्रेण नियमनम् भवति । यदि कश्चन यकारादि-प्रत्ययः धातोः परः आगच्छति, तर्हि <<वान्तो यि प्रत्यये>> 6.1.79 इत्यनेन ओकार/औकारयोः प्राप्तौ अव्/आव्-आदेशौ तदा एव भवतः यदा तौ ओकार-औकारौ तेन यकारादि-प्रत्ययेनैव निर्मितौ स्तः — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. लूञ् (छेदने) धातोः <<अचो यत्>> 3.1.97 अनेन सूत्रेण यत् प्रत्यये कृते <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन उकारस्य गुणादेशः ओकारः विधीयते । अत्र ओकारादेशः प्रत्ययेन निर्मितः अस्ति, अतः अस्य ओकारस्य अवादेशः अवश्यं भवति । प्रक्रिया इयम् — लूञ् (छेदने, क्र्यादिः, <{9.16}>) → लू + यत् [<<अचो यत्>> 3.1.97 इति यत्-प्रत्ययः] → लो + य [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → लव् + य [ओकारः यत्-प्रत्ययेन निर्मितः अस्ति, अतः <<धातोस्तन्निमित्तस्यैव>> 6.1.80 इत्यनेन ओकारस्य अवादेशः भवति ।] → लव्य 2. तथैव, लूञ् (छेदने) धातोः ण्यत्-प्रत्यये परे अपि इदं सूत्रम् उपयुज्य आवादेशः भवति । प्रक्रिया इयम् — लूञ् (छेदने, क्र्यादिः, <{9.16}>) लूञ् + ण्यत् [<<ओरावश्यके>> 3.1.125 इति ण्यत् ] → लौ + य [<<अचो ञ्णिति>> 7.2.115 इति वृद्धिः] → लाव्य [औकारस्य निर्माणम् यकारादिप्रत्ययेन क्रियते, अतः अस्य औकारस्य <<धातोस्तन्निमित्तस्यैव>> 6.1.80 इति औकारस्य आव्-आदेशः] सूत्रे 'तन्निमित्तस्य' इति ग्रहणस्य प्रयोजनम् यदि यकारात् पूर्वम् उपस्थितः ओकारः/औकारः धातुनिर्मितः नास्ति, तर्हि <<वान्तो यि प्रत्यये>> 6.1.79 इत्यनेन निर्दिष्टः अव्/आव्-आदेशः न भवति — इति स्पष्टीकर्तुम् <<धातोस्तन्निमित्तस्यैव>> 6.1.80 इत्यस्मिन् सूत्रे 'तन्निमित्तस्य' इति अंशः स्थापितः अस्ति । यथा, 'आ + वेञ्' इत्यस्य कर्मणि-लट्-प्रथमपुरुषैकवचनस्य प्रक्रियायाम् ओकारादेशः न क्रियते । प्रक्रिया इयम् — वेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>) → आ + वेञ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट् ] → आ + वे + त [<<भावकर्मणोः>> 1.3.13 इति आत्मनेपदम् । <<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → आ + वे + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति यक्-विकरणम्] → आ + उ + य + त [<<वचिस्वपियजादीनां किति>> 6.1.15 इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपम्] → आ + उ + य + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः] → ओ + य + ते [आकार-उकारयोः <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः । अत्र धातोः ओकारात् परः यद्यपि प्रत्ययस्य यकारः अस्ति, तथापि अत्र ओकारस्य अव्-आदेशः न भवति, यतः अयम् ओकारः य-प्रत्ययेन निर्मितः नास्ति, <<आद्गुणः>> 6.1.87 इत्यनेन निर्मितः अस्ति ।] → ओयते एवमेव, अस्यैव वेञ्-धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आवादेशः न भवति — वेञ् (तन्तुसन्ताने, भ्वादिः, <{1.1161}>) → वेञ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → वेञ् + त [<<भावकर्मणोः>> 1.3.13 इति आत्मनेपदम् । <<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः । यद्यपि 'लावस्थायाम् अट्' इति सिद्धान्तेन अडागमः लावस्थायाम् एव करणीयः, तथापि वेञ्-धातोः वकारस्य अग्रे भविष्यमाणम् उकारादेशं दृष्ट्वा अयम् अडागमः <<अकृतव्यूहाः पाणिनीयाः>> अनया परिभाषया आदौ एव न प्रवर्तते । ] → वेञ् + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति यक्-विकरणम्] → उ + य + त [<<वचिस्वपियजादीनां किति>> 6.1.15 इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपम्] → आट् + उ + य + त [<<आडजादीनाम्>> 6.4.72 इति आडागमः । ] → औ + य + त [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः । <<यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते>> इति न्यायेन धातुग्रहणेन आडागमस्यापि ग्रहणे कृते, औकारः धातोः अन्ते वर्तते । तथापि अत्र औकारस्य आव्-आदेशः न भवति, यतः अयम् औकारः य-प्रत्ययेन निर्मितः नास्ति अपितु <<आटश्च>> 6.1.90 इत्यनेन निर्मितः अस्ति । → औयत सूत्रे 'एव' इति ग्रहणस्य प्रयोजनम् अस्मिन् सूत्रे विद्यमानः 'एव' इति शब्दः नियमार्थः प्रयुज्यते, सः च 'धातोः' इति शब्देन सह अन्वेति । धातोः एव तन्निमित्तस्य, प्रातिपदिकात् तु तन्निमित्तस्य, अतन्निमित्तस्य च — इति अत्र आशयः । इत्युक्ते, प्रातिपदिकात् यदा यकारादिप्रत्ययः विधीयते, तदा प्रातिपदिके विद्यमानः ओकारः यद्यपि प्रत्ययनिर्मितः नास्ति, तथापि अव्/आव्-आदेशः अवश्यं भवति । अतएव नौ + यत् → नाव्यम् इति उदाहरणम् <<वान्तो यि प्रत्यये>> 6.1.79 इत्यत्र सङ्गच्छते ।

Balamanorama

Up

<<धातोस्तन्निमित्तस्यैव>> - ननु ओयते औयतेत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशः स्यादित्याशङ्क्य वान्तो यीति सूत्र नियमयति — धातोस्तन्निमित्तस्यैव । एचेति, वान्तो यि प्रत्यय इति चानुवर्तते । स यादिप्रत्ययो निमित्तं यस्य स तन्निमित्तः । यादिप्रत्यये परे धातोरेचो भवन् वान्तादेशो यादिप्रत्ययनिमित्तकस्यैव एचो भवति, नान्यस्येत्यर्थः । तदाह — यादौ प्रत्यय इत्यादिना । लव्यमिति । लूञ् छेदने । अचो यत् ।सार्वधातुकार्धधातुकयो॑रित्यूकारस्य गुण ओकारः । तस्य धात्ववयवत्वाद्यादिप्रत्ययानिमित्तकत्वाच्च वान्तादेशः । अवश्यलाव्यमिति । 'ओरावश्यके' इति लूञो ण्यत् ।अचो ञ्णिती॑त्यूकारस्य वृद्धिरौकारः ।अवश्य॑मित्यव्ययम् । मयूरव्यंसकादित्वात्समासः ।लुम्पेदवश्यमः कृत्ये॑इति मलोपः । अत्र औकारस्य धात्ववयवत्वाद्यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । ननु लव्यमवश्यलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशः सिद्धः, अतस्तन्निमित्तस्यैवेति नियमार्थमिदं सूत्रमिति स्थितिः । तन्नियमविधेः किं प्रयोजनमिति पृच्छति — तन्निमित्तस्यैवेति किमिति । नियमस्य किं प्रयोजनमित्यर्थः । ओयते इति । वेञ् तन्तुसन्ताने । कर्मणि लट् बावकर्मणोरित्यात्मनेपदम् । यक् । वचिस्वपियजादीना॑मिति वकापरस्य संप्रसारणमुकारः पूर्वरूपम् ।अकृत्सार्वधातुकयो॑रित्युकारस्य दीर्घः । आङा सह उकारस्य आद्गुण इति गुण ओकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः । नन्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पदद्वयापेक्षत्वेन बहिरङ्गतया वान्तादेशे कर्तव्ये असिद्धत्वादोकाराऽभावान्न वान्तादेशप्रसक्तिरत्यस्वरसादाह — औयतेति । वैञः केवलात्कर्मणि तङ् । आत्मनेपदादि पूर्ववत् । आडजादीनामित्याट् । आटश्चेति वृद्धिरौकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः । नात्र वृद्धेर्बहिरङ्गत्वं, पदद्वयापेक्षत्वाऽभावात् ।सिद्धे सत्यारम्भो नियमार्थः॑ इति न्यायेन नियमविधिसिद्धेः, तन्निमित्तस्यैवेत्येवकारस्तु विपरीतनियमव्यावृत्त्यर्थः । #एवकाराऽभावे हियादिप्रत्ययनिमित्तकस्य चेदेचो वान्तादेशस्तर्हि धातोरेवैच॑ इत्यपि नियमः प्रतीयेत । तथा च 'बाभ्रव्य' इत्यत्र वान्तादेशो न स्यात् । बभ्रोरपत्यं बाभ्रव्यः ।मधुबभ्र्वोब्र्राआहृणकौशिकयो॑रिति यञ् । 'ओर्गुण' इत्युकारस्य गुण ओकारः । तस्य यादिप्रत्ययनिमित्तकस्य धात्ववयवत्वाऽभावाद्वान्तादेशो न स्यात् । अत इष्टनिमावधारणार्थं तन्निमित्तस्यैवेत्येवकारः ।

Padamanjari

Up