अचो यत्

3-1-97 अचः यत् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अजन्ताद् धातोर्यत् प्रत्ययो भवति। तकारो <<यतोऽनावः>> (६.१.२१३) इति स्वरार्थः। गेयम्। पेयम्। चेयम्। जेयम्। अज्ग्रहणं किं यावता हलन्ताण् ण्यतं वक्ष्यति? अजन्तभूतपूर्वादपि यथा स्यात्। दित्स्यम्। धित्स्यम्॥ तकिशसिचतियतिजनीनामुपसंख्यानम्॥ तकि — तक्यम्। शसि — शस्यम्। चति — चत्यम्। यति — यत्यम्। जनि — जन्यम्॥ हनो वा वध च॥ वध्यम्। घात्यम्॥

Siddhanta Kaumudi

Up

अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यादिष्वेव यतोऽपि सुपठत्वात् ॥

Laghu Siddhanta Kaumudi

Up

अजन्ताद्धातोर्यत् स्यात्। चेयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अचो यत्>> - अचो यत् । शक्यमकर्तुमिति ।ऋहलोण्र्य॑दिति ऋहलन्ताद्विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याऽप्रवृत्तिरित्यर्थः । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागोऽप्येवमिति । कर्तुमशक्य इत्यर्थः । कुत इत्यत आह — तव्यदादिष्वेवेति ।तव्यत्तव्यानीयर्यतः इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः ।

Padamanjari

Up

अचो यत्॥ अज्ग्रहणं किमिति। पूर्वसूत्र एव यद्ग्रहणं कर्तव्यमिति प्रश्नः। यावतेत्यादि। द्वये हि धातवः - अजन्ताः, हलन्ताश्च। तत्र हलन्ताद् ण्यतं वक्ष्यति, अतः पारिशेष्यादजन्तादेव यद्भविष्यतीत्यभिप्रायः। अजन्तभूतपूर्वादपीति। पूर्व भूतो भूतपूर्वः सुप् सुपाऽ इति समासः, अजन्तश्चासौ भूतपूर्वश्च अजन्तभूतपूर्वः। दित्स्यं धित्स्यमिति। दाञो धाञश्च सन्, द्विर्वचनम्,'सनिमीमाघु' इत्यादिना इस,'सः स्यार्द्धधातुके' इति तत्वम्, ठत्र लोपोऽभ्यासम्यऽ दित्स धित्स इति स्थिते, अनुत्पन्न एवार्द्धधातुके बुद्धिस्थे एवातो लोपे कृते सम्प्रत्ययं कृते सम्प्रत्ययं हलन्त हि ण्यत् स्याद्; अज्ग्रहणातु भूतपूर्वमजन्तत्वमाश्रित्य यद्भवति। तेन'यतो' नावःऽ इत्याद्यौदातत्वम्, ण्यति तु तित्स्वरितं स्यात्। चिकीर्ष्यमित्यादौ तु ण्यद्यतोर्विशेषाभावः।'यतो' नावःऽ इत्यत्र हि'द्व्यचः' इति वर्तते। यदा त्वाद्धंधातुके परतो लोपः, तदैतदज्ग्रहणं न कर्तव्यमेव। तकिशसीत्यादि।'तकि हसने' 'शसु हिसायाम्' 'चते चदे याचने' 'यती प्रयत्ने' 'जनी प्रादुर्भावे' 'यतो' नावःऽ इति स्वरार्थ जनेर्यद्विधानं जन्यमिति रूपम्, न तु ण्यतापि सिद्धम्;'जनिवध्योश्च' इति वृद्धिप्रतिषेधात्। शसिमपि केचित्पठन्ति - -तद्वा नाराशंस्यं राद्व्यं च। हनो वा वध चेति। हन्तेर्वा यत्प्रत्ययो भवति, तत्सन्नियोगेन च वधादेशः। वध्यमिति। तद्धितान्तो वा पुनरेष भविष्यति - वधमर्हतीति वध्यः,'दण्डादिभ्यः' इति यत्।यदि तद्धितः, समासो न प्राप्नोति - असिवध्यः, मुसलवध्य इति, कृति पुनः सति'कॄतृकरणे कृता बहुलम्' इति समासः सिद्धो भवति। घात्यमिति।'हनस्तोचिण्णलोः' इति तत्वम्,'हो हन्तेर्ञ्णिन्नेषु' इति कुत्वम्॥