3-1-125 ओः आवश्यके प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः ण्यत्
अवश्यंभाव आवश्यकम्। उवर्णान्ताद् धातोर्ण्यत् प्रत्ययो भवत्यावश्यके द्योत्ये। यतोऽपवादः। लाव्यम्। पाव्यम्। आवश्यक इति किम्? लव्यम्। आवश्यके द्योत्य इति चेत् स्वरसमासानुपपत्तिः, अवश्यलाव्यम् अवश्यपाव्यमिति। नैष दोषः। मयूरव्यंसकादित्वात् (२.१.७२) समासः, उत्तरपदप्रकृतिस्वरे च यत्नःकरिष्यते॥
उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥
ओरावश्यके॥ अवश्यं भाव आवश्यकमीति। मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः। किं पुनरवश्यार्थवाचिन्युपपदे प्रत्यये? आहोस्विदावश्यके द्योत्ये? तत्राद्ये पक्षे उपपदरहितात्प्रत्ययो न स्यात् - लाव्यं पाव्यमिति, तस्माद् द्वितीयः पक्ष आश्रीयत इत्याह - आवश्यके द्योत्य इति। स्वरसमासानुपपतिरिति। उपपदपक्षे उपपदसमासो लभ्यते, गतिकारकोपपदात्कृदित्युतरपदप्रकृतिस्वरत्वं च; द्योत्यपक्षे त्वेतदुभयमपि न सिद्ध्यतीत्यर्थः। अवश्यलाव्यमीति।'लुम्पेदवश्यमः कृत्ये' इति मलोपः। द्योतितार्थस्यापि क्वचित्प्रयोगो द्दश्यते, लाघवं प्रत्यनादरात्। न त्वेतदत्र वक्तव्यम्;'लुम्पेदवश्यमः कृत्ये' इति वचनादेव द्योतिते अवश्यमः प्रयोग इति तस्यावश्यकर्तव्यादौ चरितार्थत्वात्। मयूरव्यंसकादित्वादिति। तस्याकृतिगणत्वादिति भावः। उतरपदप्रकृतिस्वरत्वे चेति । मयूरव्यंसकादिनिपातनादेव स्वरोऽपि भविष्यतीत्यपि शक्यं वक्तुम्॥