क्षय्यजय्यौ शक्यार्थे

6-1-81 क्षय्यजय्यौ शक्यार्थे संहितायाम् अचि एचः प्रत्यये धातोः

Sampurna sutra

Up

शक्यार्थे क्षय्य-जय्यौ

Neelesh Sanskrit Brief

Up

'शक्यम्' अस्मिन् अर्थे 'क्षय्य' तथा 'जय्य' एतौ शब्दौ निपात्येते ।

Neelesh English Brief

Up

The words क्षय्य and जय्य are considered to be derived, in the meaning of (respectively) 'the one that is capable of being destroyed' and 'the one that is capable of being won over'.

Kashika

Up

क्षि जि इत्येतयोर्धात्वोर्यति प्रत्यये परतः शक्यार्थे गम्यमान एकारस्यायादेशो निपात्यते। शक्यः क्षेतुं क्षय्यः। शक्यो जेतुं जय्यः। शक्यार्थ इति किम् ? क्षेयं पापम्। जेयो वृषलः॥

Siddhanta Kaumudi

Up

यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं योग्यं क्षेयं पापम् । जेतुं योग्यं जेयं मनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यदा क्षि (क्षये) तथा च जि (जये) एताभ्याम् धातुभ्याम् 'शक्यम्' अस्मिन् अर्थे यदा 'यत्' इति प्रत्ययः विधीयते, तदा प्रकृतसूत्रेण 'क्षय्य' तथा 'जय्य' इति रूपे निपात्येते । तद्यथा — 1) क्षेतुम् शक्यम् इत्यस्मिन् अर्थे क्षि-धातोः यत्-प्रत्यये कृते अयादेशः निपात्यते, येन 'क्षय्य' इति रूपं सिद्ध्यति । यस्य क्षयं कर्तुम् शक्यम्, तत् क्षय्यम् । यथा, क्षय्यम् धनम् । प्रक्रिया इयम् — क्षि (क्षये, भ्वादिः, <{1.269}>) → क्षि + यत् [<<अचो यत्>> 3.1.97 इति यत्-प्रत्ययः] → क्षे + य [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → क्षय् य [प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते ।] → क्षय्य 2) जेतुम् शक्यम् इत्यस्मिन् अर्थे जि-धातोः यत्-प्रत्यये कृते अयादेशः निपात्यते, येन 'जय्य' इति रूपं सिद्ध्यति । यस्मिन् जयं प्राप्तुम् शक्यम्, तत् जय्यम् । यथा, जय्यः शत्रुः । प्रक्रिया इयम् — जि (अभिभवे, भ्वादिः, <{1.1096}>) → जि + यत् [<<अचो यत्>> 3.1.97 इति यत्-प्रत्ययः] → जे + य [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → जय् य [प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते ।] → जय्य क्षयः, क्षेयम्, क्षय्यम् ; जयः, जेयम्, जय्यम् क्षय, क्षेय तथा क्षय्य - एते त्रयः भिन्नार्थकाः शब्दाः सन्ति — 1. क्षि-धातोः <<एरच्>> 3.3.56 इत्यनेन भावे अच्-प्रत्यये कृते क्षय शब्दः सिद्ध्यति । विनाशः / न्यूनीभवनम् (Reduction / Decay / Destruction) इति अर्थः । यथा — शत्रूणाम् क्षयः जातः । समृद्धेः अक्षयः इष्यते । 2. क्षि-धातोः 'शक्यम्' इत्यस्मिन् <<अचो यत्>> 3.1.97 इति यत्-प्रत्यये कृते प्रकृतसूत्रेण क्षय्य इति शब्दः निपात्यते । क्षेतुम् शक्यम् (capable of getting reduced) इति अर्थः । यथा — धनम् क्षय्यम् । विद्या अक्षय्या । 3. क्षि-धातोः भावकर्मणोः अर्थयोः <<अचो यत्>> 3.1.97 इति यत्-प्रत्यये कृते क्षेय इति शब्दः सिद्ध्यति । क्षेतुम् योग्यम् (appropriate for getting destroyed) इति अर्थः । यथा — पापम् क्षेयम् , अहङ्कारः क्षेयः । अनेनैव प्रकारेण जय, जेय तथा जय्य - एते त्रयः अपि भिन्नार्थकाः शब्दाः सन्ति — 1. जि-धातोः <<एरच्>> 3.3.56 इत्यनेन भावे अच्-प्रत्यये कृते जय शब्दः सिद्ध्यति । अभिभवः (win) इति अर्थः । यथा — राज्ञः जयः जातः । 2. जि-धातोः 'शक्यम्' इत्यस्मिन् <<अचो यत्>> 3.1.97 इति यत्-प्रत्यये कृते प्रकृतसूत्रेण जय्य इति शब्दः निपात्यते । जेतुम् शक्यम् (capable of winning) इति अर्थः । यथा — शत्रुः जय्यः । अर्जुनः अजय्यः । 3. क्षि-धातोः भावकर्मणोः अर्थयोः <<अचो यत्>> 3.1.97 इति यत्-प्रत्यये कृते जेय इति शब्दः सिद्ध्यति । क्षेतुम् योग्यम् (appropriate for winning over) इति अर्थः । यथा — मनः जेयम् ।

Balamanorama

Up

<<क्षय्यजय्यौ शक्यार्थे>> - क्षय्यजय्यौ शक्यार्थे । शक्यार्थे क्षय्यजय्यशब्दौ वाचकतया वर्तेते इत्यर्थः । ननु किमपि कार्यं विधेयमत्र न दृश्यते इत्यत आह — यान्तेति । प्रातिस्विकविधिं विंना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपातनम् । ततश्च शक्यार्थके यादौ प्रत्यये परेक्षि क्षये॒॑जि जये॑इति धातोरेचोऽयिति यान्तादेशः स्यादिति विधानमत्र फलति । शक्यार्थे क्षिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादेवं निपातनमिति भावः । क्षय्यमिति ।कृत्या॑इत्यधिकारे क्षिधातोरचो यदिति यत्प्रत्ययः । स चशकि लिङ् चे॑ति शक्यार्थः । शक्यार्थे लिङ् स्याच्चात्कृत्या इति तदर्थः ।सार्वधातुकार्धधातुकयो॑रिति इकारस्य गुण एकारः । तस्या.ञच्परकत्वाऽभावादप्राप्तोऽयादेशोऽत्र निपात्यते । जय्यमित्यपि पूर्ववत् । शक्यार्थे किमिति । 'शक्यार्थे' इत्यस्य किं प्रयोजनमिति प्रश्नः । क्षेतुमित्यादि । क्षेतुं योग्यं क्षेयं पापम् । जेतुं योग्यं जेयं मन इत्यन्वयः ।अर्हे कृत्यतृचश्चे॑ति यत् । स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थः ।

Padamanjari

Up

उदाहरणे शक्यार्थे कृत्यः, प्रत्युदाहरणे त्वावश्यके ॥