7-4-94 दीर्घः लघोः अभ्यासस्य लघुनि चङ्परे अनग्लोपे
index: 7.4.94 sutra: दीर्घो लघोः
दीर्घा भवति लघोः अभ्यासस्य लघुनि णौ चङ्परे अनग्लोपे। अचीकरत्। अजीहरत्। अलीलवत्। अपीपचत्। लघोः इति किम्? अबिभ्रजत्। लघुनि इत्येव, अततक्षत्। अररक्षत्। चङि इत्यव, अहं पपच। परे इत्येव, अचकमत। अनग्लोपे इत्येव, अचकथत्।
index: 7.4.94 sutra: दीर्घो लघोः
लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे ।<!कमेश्च्लेश्चङ्वक्तव्यः !> (वार्तिकम्) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ 1 ॥ चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ 2 ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ 3 ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ 4 ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ 5 ॥ अथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥{$ {!444 अण!} {!445 रण!} {!446 वण!} {!447 भण!} {!448 मण!} {!449 कण!} {!450 क्वण!} {!451 व्रण!} {!452 भ्रण!} {!453 ध्वण!} शब्दार्थाः$} । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति ।{$ {!454 ओणृ!} अपनयने$} । ओणति । ओणांचकार ।{$ {!455 शोणृ!} वर्णगत्योः$} । शोणति । शुशोण ।{$ {!456 श्रोणृ!} संघाते$} । श्रोणति ।{$ {!457 श्लोणृ!} च$} । शोणादयस्त्रयोऽमी तालव्योष्मादयः ।{$ {!458 पैणृ!} गतिप्रेरणश्लेषणेषु $}। प्रैणृ इति क्वचित्पठ्यते । पिपैण ।{$ {!459 ध्रण!} शब्दे $}। उपदेशे नान्तोऽयम् । रषाभ्याम् - <{SK235}> इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति । बणेत्यपि केचित् । बेणतुः । बेणिथ ।{$ {!460 कनी!} दीप्तिकान्तिगतिषु चकान$} ।{$ {!461 ष्टन!} {!462 वन!} शब्दे$} । स्तनति । वनति ।{$ {!463 वन!} {!464 षण!} संभक्तौ$} । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः ॥
index: 7.4.94 sutra: दीर्घो लघोः
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङ्भावपक्षे - कमेश्च्लेश्चङ् वाच्यः (वार्त्तिकम्)। अचकमत। अकामयिष्यत, अकमिष्यत॥ {$ {! 3 अय !} गतौ $} ॥ अयते॥
index: 7.4.94 sutra: दीर्घो लघोः
दीर्घो लघोः - दीर्घोः लघो ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । अभ्यासस्य लघोर्दीर्घ इति । अभ्यासावयवस्य लघोरित्यर्थः ।सन्वल्लघुनि चङ्परे॑ इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते । तच्च प्रग्वदेवद्वेधा व्याख्येयम् । तथा च फलितमाह — सन्वद्भावविषय इति । 'सन्यत' इत्यत्र तपरत्वं स्पष्टार्थमिति 'दीर्घोऽकित' इति सूत्रे भाष्ये स्पष्टम् । तथाच कि कम तेत्यत्र अभ्यासेकारस्य दीर्घेऽभ्यासचुत्वेऽडागमे परिनिष्ठितं रूपमाह — अचीकमतेति । अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम् । णिङभावपक्षे त्विति ।आयादय आर्धधातुके वे॑ति णिङो वैकल्पिकत्वादिति भावः । कमेश्च्लेश्चङ् वक्तव्य इति । अण्यन्तत्वादप्राप्तौ वचनम् । णेरभावादिति । णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषैकवचने न भवति, तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवत्र्य चङ्परे णावेव तद्विधानोक्तेः । अत एव सन्वत्त्वाऽभावात्सन्यत इत्यभ्यासाऽसकारस्य इत्त्वं च न भवतीत्यर्थः ।दीर्घो लघो॑रिति दीर्घविधौ सन्वत्त्वं न निमित्तं, किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः । अतो दीर्घसन्वद्भावाविति पृथगुक्तिः । अत पञ्चभिः श्लोकै#ः सन्वद्भावसूत्रं,दीर्घो लघो॑रिति सूत्रं च विशदयति — संज्ञाया इत्यादिना । अस्मिन् शास्त्रेकार्यकालं संज्ञापरिभाष॑मित्येकः पक्षः ।कार्यकाल॑मित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः ।यथोद्देशं संज्ञापरिभाष॑मिति पक्षान्तरम् । उद्देशाः — संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम् । संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्तं समर्पयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषायां तदर्तस्यैवोपस्थितिर्न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः ।सन्वल्लघुनी॑ति सूत्रे,दीर्घो लघो॑रिति सूत्रे च अङ्गस्येति अभ्यासस्येति चानुवृत्तम् । तत्र कार्यकालपक्षे 'पूर्वोऽभ्यास' इति सूत्रं संनिहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद्भवतीति फलितम् । तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी,कारकषष्ठआ बलवत्त्वात् । अङ्गं च प्रत्यये परतः कृत्स्नमेव प्ररकृतिरूपं, न तु तदेकदेशः । ततश्च कृत्स्नमङ्ग#ं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैवदीर्घो लघो॑रिति दीर्घः,सन्वल्लघुनी॑ति सन्वद्भावश्च भवति । एवं च अङगस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः । अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचोऽङ्गैकदेशस्य द्विरुक्तेरिति माधवोमन्यत इति प्रथमश्लोकस्यार्थः ।नानेकाक्ष्वि॑त्युक्तं विशदयति — — चकास्तीति श्लोकेन ।चकासृ दीप्तौ॑ । अर्थमाचष्टे इत्यर्थे णिचिअर्थवेदयो॑रिति प्रकृतेरापुगागमे अर्थापिधातुः ।ऊर्णुञ् आच्छादने॑ ।एते त्रयोऽनेकाच्का धातवः । आदिना 'जागृ निद्राक्षये' इत्यादिसंग्रहः । एभ्यो ण्नय्तेभ्यश्चङि अङ्गं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते, तस्मादनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् । किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्क्यणिपरकलघोर्गकाराकारस्य 'जा' इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्व॑मिति समाहितं भाष्ये । तदेतदनेकाच्काङ्गेषु सन्वत्त्वस्याऽप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तभावादेव तत्र सन्वत्त्वस्याऽप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालम्ब्य#आह — वस्तुत इति ।अङ्गस्ये॑त्यवयवषष्टी । अङ्गावयवस्याभ्याससस्येति लभ्यते । ततश्च ऊर्णुञि ण्यन्ते चङि 'नु' इत्येकदेशस्य द्वित्वेऽपि 'और्णूनुव' दित्यत्रदीर्घो लघो॑रित्यभ्यासलघुर्दीर्घीभवति । सन्वत्त्वं तु प्रयोजनाऽभावादुपेक्षितम्, अभ्यासे अकाराऽभावेन 'सन्यत' इत्यस्याऽसंभवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिथातोश्चङि णिलोपे उपधाह्रस्वे थप् इत्यस्य द्वित्वेऽपिअर्तीथप॑दित्यत्र सन्वद्भावात् 'सन्यत' इत्यभ्यासस्य इत्त्वम्, अभ्यासदीर्घश्चेति द्वयं भवतीति जानीम इति तृतीयश्लोकार्थः । 'अङ्गस्यावयव' इति पक्षेऽपि चकास्तौ विशेषमाह - चकास्तौ त्विति । चतुर्थश्लोकोऽयम् । अवस्था — वस्तुस्थितिः । व्यवस्थया । पक्षद्वयेनेति यावत् । 'चङ्परे' इत्यनेन अन्यपदार्थतया लब्धस्य णवित्यस्य संनिहितं लघुनीत्येतद्विशेष्यम् । तथा च 'चङ्परे णौ यल्लघु' इति प्रतमव्याख्यानं फलितम् । अङ्गमेव वा णेर्विशेष्यम् । तथा चचङ्परे णौ यदङ्ग॑मिति द्वितीयं व्याख्यानं फलितम् । इति व्यवस्थया = पक्षद्वयेन सन्वत्त्वं दीर्घश्चेत्युभयमिदं चकासृधातौ ण्यन्ते णिलोपे द्वित्वे अचचकासदित्यत्र न स्यात्, स्याच्चेत्यन्वयः । तत्रचङ्परे णौ यल्लघ्वि॑ति व्याख्यानेसति नैव उभयं स्यात्, चङ्परस्य णेः कास् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधनानन्यायात्सोढव्यमेव ।चङ्परे णौ यदङ्ग॑मिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्त्वादिति बोध्यम् । ननु चङ्परे णौ यल्लध्विति, चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह — व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति ।आदर्तव्यते॑ति शेषः । ननु णौ इत्यवृत्तिमभ्युपगमस्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह — णेरग्लोपेऽपीति । अगितामिति । 'कमुकान्ता' वित्यादिनामपीत्यर्थः । सिद्धय इति । दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः । इति घिणिप्रभृतयः कम्यन्ता दश गताः । क्रम्यन्ता इति । 'क्रमु पादविक्षेपे' इत्येतत्पर्यन्ता इत्यर्थः । 'अनुनासिकान्ता' इति शेषः । अण रणेति । ऋदित्त्वंनाग्लोपी॑ति निषेधार्थम् । ध्रण शब्द इति । अदुपधोऽयम् । उपदेश इति । धातूपदेशे नकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह — रषाभ्यामिति णत्वमिति । ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह — णोपदेशेति । नकारस्थानिकणोपदेशस्य 'नश्चे' त्यनुस्वारात्मककं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः । दन्ध्रन्तीति । ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषेनुगतोऽनुनासिकान्तस्ये॑ त्यब्यासस्य नुकि उत्तरखण्डे णकारएव श्रूयेतेति परसवर्णे तस्याऽसिद्धत्वाण्णत्वाऽभावे नकारस्यैव श्रवणम् । स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेतेति भावः । बणेत्यपीति । पवर्गतृतीयादिरित भावः ।कन दीप्ती॑त्यारभ्य अम गत्यादिष्वित्यतः प्राक्तवर्गपञ्चमान्ताः । ष्टन वनेति । आद्यः षोपदेशः । ष्टुत्वसंपन्नष्टकारः । तदाह -स्तनतीति । वन षणेति । द्वितीयः षोपदेशः । ननु 'ष्टन वन शब्दे' इति वनेः पठितस्य पुनः व्यर्थ इत्यत आह — अर्थभेदादिति । वनेः शब्दे संभक्तौ च वृत्तिरिष्टा । ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्रष्टन वन शब्दे संभक्तौ चे॑त्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात् । 'ष्टन शब्दे' इत्युक्त्वावन संभक्तौ चे॑ति पाठे तु गौरवमिति भावः ।
index: 7.4.94 sutra: दीर्घो लघोः
अब्रिभ्रजदिति ।'भ्राजभास' इत्यादिना पक्षे उपधाह्रस्वनिपेधः ॥