7-4-1 णौ चङि उपधायाः ह्रस्वः
index: 7.4.1 sutra: णौ चङ्युपधाया ह्रस्वः
अङ्गस्य इति वर्तते। चङ्परे णौ यदङ्गम्, तस्य उपधाया ह्रस्वो भवति। अचीकरत्। अजीहरत्। अलीलवत्। अपीपवत्। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम्। इह तु मा भवानटिटतिति नित्यत्वाद् द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनोऽङ्गस्य अकारस्य उपधात्वं विहितम् इति ह्रस्वो न स्यात्? नैष दोषः। ओणेः ऋदित् करणं ज्ञापकं नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यते इति। णौ इति किम्? चङ्युपधाया ह्रस्वः इत्युच्यमाने अलीलवदित्यत्र वचनसामर्थ्यातन्तरङ्गामपि वृद्धिमादेशं च बाधित्वा ह्रस्वः स्यात्। अदीदपदित्यत्र ह्रस्वत्वेन पुको बाधः स्यात्। अपीपचतित्येवमादौतु नैव स्यात्। चङि इति किम्? कारयति। हारयति। उपधाया इति किम्? अचकाङ्क्षत्। अववाञ्छत्। तदेददुपधाग्रहणमुत्तरार्थमवश्यं कर्तव्यं तदिह अपि ह्रस्वत्वं निवर्तयति इत्येवमर्थं येन न अव्यवधानम् इत्येतन्नाश्रयितव्यम् इति। उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम्। वदित्वन्तं प्रयोजितवानवीवदत् वीणां परिवादकेन। योऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेन अग्लोपित्वातङ्गस्य ह्रस्वो न प्राप्नोति। ण्याकृतिनिर्देशात् सिद्धम्।
index: 7.4.1 sutra: णौ चङ्युपधाया ह्रस्वः
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥
index: 7.4.1 sutra: णौ चङ्युपधाया ह्रस्वः
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥
index: 7.4.1 sutra: णौ चङ्युपधाया ह्रस्वः
णौ चङ्युपधाया ह्रस्वः - णौ चङि । अङ्गाधिकारादाह — यदङ्गमिति । उपधायाः किम् । अचकाङ्क्षत् । चङि किम् । कारयति । णौ किम् ।चह्रुपधाया ह्रस्व॑इत्युच्यमाने अदीदपदित्यत्र दाधातोण्र्यन्ताल्लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे सति पुङ्न स्यात् । णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाऽभावान् ह्रस्वः ।द्विर्वचनेऽची॑ति निषेधस्तु न शङ्क्यः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात् । तथा च प्रकृते कम त इति स्थितम् । चङि ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतम् ।लिटि धातोरनभ्यासस्ये॑ति सूत्रं लिटीति वर्जमनुवर्तते । तदाह — चङि पर इत्यादिना । तथा च कमित्यस्य द्वित्वे हलादिशेषे क कम त इति स्थितम् ।
index: 7.4.1 sutra: णौ चङ्युपधाया ह्रस्वः
'णौ' इत्यङ्गापेक्षया परसप्तमी,'चङ्' ईति ण्यपेक्षया । उदाहरणेषु कृहृलूपूभ्यो णिच्, लुङ्, चङ्, णिलोपः, ह्रस्वत्वम्, द्विर्वचनम् । तत्र णौ कृतं स्थानिवद्भवतीति कृ इत्यादि धातुरूपं द्विरुच्यते, कृ हृ इत्येतयोरुरदत्वम्,'सन्वल्ल्घुनि' इति सन्वद्भावादित्वम् । इतरयोरपि ठोः पुयण्ज्यपरेऽ इतीत्वम् । सर्वत्र'दीर्घो लघोः' इति दीर्घः । अत्रेति । अनन्तरोदाहृतेषु । परत्वादिति । चङीति द्विर्वचनस्याशिश्रयदित्यादिरवकाशः, ह्रस्वस्य तु कृतद्विर्वचनमवकाशः; अकृते तु द्विर्वचने विप्रतिषेधः । तत्र कृते द्विर्वचनमिति । ततश्च सन्वद्भावे कर्तव्ये ह्रस्वत्वं न स्थानिवद्भवति; अभ्यासस्यादिष्टादचः पूर्वत्वादिति भावः । चोदयति - इह त्विति । माङ्प्रयोग आड् मा भूदिति । नित्यत्वादिति । द्विर्वचनं हि कृतेऽपि ह्रस्वत्वे प्राप्नोति, अकृतेऽपि, ततश्च तदेव स्यातत्र को दोषः ? इत्यत आह - तथा सतीति । परिहरति - नैष दोष इति । ओणेरिति । ठोणृ अपनयनेऽ इत्यस्य ऋदित्करणं एतत्प्रयोजनम् - ऋदितो नेति प्रतिषेधो यथा स्यात् । यदि चात्र द्विर्वचनं स्यात्, ऋदित्करणमनर्थकं स्याद्, द्विर्वचने कृते पररूपेण व्यवहितत्वादेव ह्रस्वत्वं न भवष्यिति, पश्यति त्वाचार्यः - द्विर्वचनाद् ह्रस्वत्वं बलीय इति, तत ओणिमृदितं करोति । णाविति किमिति । ह्रस्वश्रुत्या अच्परिभाषोपस्थानादच उपधाया ह्रस्वेन भाव्यम् । न चाण्यन्तानां चङ् उपिधा ह्रस्वभाविनी सम्भवति, न हि श्रिद्रुस्नुधेट्श्वीनामजुपधा । कमिगुप्योस्तु ह्रस्व एवोपधा, ततश्च चङ् यिः प्रत्ययस्तस्मिन्नुपधाया ह्रस्वो भवति स च णिरेव, तत्र णावन्तरङ्गत्वाद् वृद्ध्यादिषु कृतेषु उपधाया ह्रस्व इति सिद्धमिष्टमिति प्रश्नः । इतरः - यथाश्रुतसम्बन्धसम्भवे चङ् यिः प्रत्यय इत्यध्याहारो न युक्त इति वचनादन्तरङ्गमपि वृद्ध्यादिकं बाधेतेति मत्वाऽऽह - चङ्युपधाया इति । ह्रस्वः स्यादिति । ननु च ऊकारस्य ह्रस्वः, तस्मिंश्च कृते बाधितत्वान्मा भूद् वृद्धिः, गुणस्तु केनचिदबाधितत्वाद्भविष्यति, ततोऽवादेशे सिद्धमलीलवदिति ? नैतदस्ति; गुणस्य वृद्ध्या बाधितत्वाद् वृद्धेश्च ह्रस्वेनेति भ्रष्टावसरस्य गुणस्य कुतः पुनः प्रवृत्तिरित्युवङ् प्रसज्येत । अस्तु वा तत्र गुणः, दोषान्तरमाह - अदीदपदित्यत्रेति । यदा तु चङ्परनिर्ह्नासे स्थानिवत्वनिषेधः, तदा वृद्ध्यावादेशयोः कृतयोः पुकि च णिलोपस्य स्थानिवद्भावाभावाच्चङ् यिदङ्गं तस्यैवोपधा ह्रस्वभाविनी सम्भवतीति णाविति न वक्तव्यम् । सूत्रकारेण स्थानिवत्वनिषेधो न कृत इति'णौ' इत्युक्तम् । चङीति किमिति । मितां ह्रस्वविधानादनेन णौ सर्वत्र ह्रस्वो न भविष्यति, प्रयोगदर्शनाच्चेष्टतो व्यवस्थाश्रयिष्यते इति प्रश्नः । इतरः - नान्तरेण वचनमिष्टानिष्टविभागः सुज्ञान इति मत्वाऽऽह - कारयति, हारयतीति । किञ्च - मितां ह्रस्ववचनम् ठसिद्धवदत्राभात्ऽ इत्येतदर्थं स्यात् । उपधाया इति किमिति । ह्रस्वश्रुत्या ठचःऽ इत्युपतिष्ठते, तत्र विशेषणविशेष्यभावे कामचारादङ्गेनाज्विशष्यते, अङ्गस्य यत्र तत्र स्थितस्याचो ह्रस्वो भवति, तेनोपधायास्तावत्सिद्धं ह्रस्वत्वमिति प्रश्नः । इतरोऽप्यतिप्रसङ्गमुदाहरति - अचकाङ्क्षदिति । ननु'णौ' इत्यनेनाचं विशेषयिष्यामः - णौ परतोऽङ्गस्य योऽजिति, तत्र सामर्थ्यादकवर्णव्यवधानमवश्यम्भावित्वादाश्रयिष्यते ? इत्याह - तदेतदिति । उतरार्थमिति ।'लोपः पिबतेरीच्चाभ्यासस्य' - उपधाया यथा स्यादन्तस्य मा भूदित्येवमर्थमवश्यमुपधाग्रहणं कर्तव्यम् । यद्यौतरार्थमुपधाग्रहणम्, तत्रैवं कर्तव्यम् । यद्येवम्, तत्रैव क्रियताम् ? अत आहतदिहापीति । आल्लोपः पिबतेरिति । एवमुच्यमानेऽन्तरङ्गमपि युकमनवकाशत्वादाल्लोपो बाधते, उपधाग्रहणे त्वन्तरङ्गत्वाद्यौकि कृते आकारस्य उपधाया लोप इति न कश्चद् दोषिः । तस्मादुतरार्थमुपधाग्रहणम् । अपर आह - इहार्थमप्युपधाग्रहणम्, अन्यथा णावनन्तरस्य ह्रस्वो विधीयमानोऽन्तरङ्गमपि वृद्ध्यादिक वाधित्वा लूऐ अत् इति स्थिते उकारस्यादेशः प्राप्नोति, नैष दोषः; यदयम्'नाग्लोपिशास्वृदिताम्' इति प्रतिषेधे शास्ति, तज्ज्ञापयति - नान्त्यस्येव ह्रस्वत्वमिति । णौ णिच्युपसंख्यानमिति । णौ परतो यो णिस्तस्मिन्नित्यर्थः । णेणिचीति पाठे ण्यन्तात्परे णिचि विहित इत्यर्थः । वादितवन्तं प्रयोजितवानिति । लुङे भूतकालत्वात्प्रयोजितवानिति भूतकालेन विग्रहः । वादितवन्तमित्यत्र तु कथम्, यद्यसौ वादितवान् कथं प्रयुक्तिः, कुर्वतो हि प्रयुक्तिः करिष्यतो वा, न तु कृतवतः ? न ब्रूमः - प्रयुक्तिकालापेक्षयात्र भूतकालत्वमिति, कि तहि ? यथाशब्दप्रयोगकालपेक्षया । प्रयोजितवानित्यत्र भूतकालत्वं तदपेक्षयैव प्रयोज्यव्यापारस्यापीति । अवीवददिति । वदेर्ण्यन्ताण्णिचि लुङदि । किं पुनः कारणं न सिध्यति ? अत आह - योऽसाविति । स्थानिवद्भावे हि सति यश्चङ्परो णिर्न तत्रोपधा ह्रस्वभाविनी, यत्रोपधा ह्रस्वभाविनी न स चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । तेन चेति । णिलोपेन । अग्लोपित्वादिति । ननु च ण्यन्ताण्णिचि विहिते णिलोपश्च प्राप्नोति, ठचो ञ्णितिऽ इति वृद्धिश्च, तत्र लोपः शब्दान्तरे प्राप्तेरनित्यः, वृद्धेस्तु लोपे कृतेऽत्यन्ताप्राप्तिरित्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपः, तन्नाग्लोप्यङ्ग भवति ? एवं तहि यदग्लोपिनां नेति प्रतिषेधं शास्ति, तज्ज्ञापयति - वृद्धेर्लोपो बलीयानिति; अन्यथा सर्वत्राको वृद्धौ कृतायामैकारौकारयोर्लोपः, न त्वकः । नैतदस्ति ज्ञापकम्; यत्र वृद्धावपि कृतायामगेव लुप्यते तदर्थमेतत्स्यात् - राजनमतिक्रान्तवान्नत्यरराजत्, यतहि प्रत्याहारग्रहणं करोति; अन्यथाल्लोपिनां नेत्येव ब्रूयात् ? एतदपि नास्ति ज्ञापकम्; स्वामिनमाख्यदसस्वामत्, गोमुचमाख्यदजुगोमत्, प्रावृषमाख्यदपप्रावत्, यादृशमाख्यदययादत् - इत्येवमाद्यर्थमेतत्स्यात् । अत्राहुः - णिजत्र नास्ति; अनभिधानात् ! एतच्च भाष्यकारेण ज्ञापकत्वसमर्थनादवसितमिति । यत्र तर्ह्यभिधानमङ्गीकृतं तद्रथमेतत्स्यात्'विन्मतोर्लुक्' - भास्वन्तमाख्यत् अबभासत् ? नैतत्प्रत्याहारग्रहणस्य प्रयोजनम्, अकार एव ह्यत्र मतुपो लुप्यते । यत्र तर्हि विनो लुक् - स्रग्विणमाख्यदसस्रजत् ? अत्रापि नोपधा ह्रस्वभाविनी । तस्मात्प्रत्याहारग्रहणं ज्ञापकमिति स्थितमेतत् । एवमपि हरिकल्योरत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति यदुक्तं तेनैद्विरुध्यते । तथा हि - असत्यप्यत्वनिपातने वृद्धिं बाधित्वा इकारस्य लोपे सति नैव सन्वद्भावस्य प्रसङ्गः । तस्मादग्लोपित्वादिति नायं स्वपक्षः, परमतेन त्वेतदुक्तं द्रष्टव्यम् ॥ भाष्यस्याप्येवमेवात्र निर्वाहो दृश्यतां बुधैः । विपर्यये तूच्यमाने युक्तिः काचिन्न दृश्यते ॥ एवं च पटुअमाख्यत् बलिमाख्यत् अपीपटत्, अबीबलदिति भवति । यथा त्वत्र भाष्यं तथा अपपटत्, अबबलदिति भवतीत्यलमियता । उपसंख्यानं प्रत्याचष्टे - ण्याकृतिनिर्देशात्सिद्धमिति । आकृतिरत्र जातिर्निर्द्दिश्यते - चङ्परा या ण्याकृतिर्जातिस्तत्रेति । ततश्च सत्यपि स्थानिवत्वे ण्याकृतेरेवत्वाद्यश्चङ्परो णिः स एव पूर्वः, यश्च पूर्वः स एव चङ्पर इति सिद्धं ह्रस्वत्वम् । यदप्युक्तम् - ठग्लोपित्वात्ऽ इति, तदपि न; आकृतिनिर्द्देशे हि ह्रस्वस्य न ण्याकृतिनिमितत्वेनाश्रीयते । तत्र गोबलीवर्दन्यायेन तस्या ण्याकृतेरन्यस्याको लोपः प्रतिषेधविषयत्वेनाऽऽश्रीयते इति सर्वमवदात् ॥