6-1-12 दाश्वान् साह्वान् मीढ्वान् च
दाश्वान् साह्वान् मीढ्वानित्येते शब्दाश्छन्दसि भाषायां चाविशेषेण निपात्यन्ते। दाश्वानिति <<दाशृ दाने>> इत्येतस्य धातोः क्वसावद्विर्वचनमनिट्त्वं च निपात्येते। दा॒श्वांसो॑ दा॒शुषः॑ सु॒तम् (ऋ० १.३.७) इति। साह्वानिति <<षह मर्षणे>> इत्येतस्य परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपातनात्। साह्वान् बलाहकः। मीढ्वानिति <<मिह सेचने>> इत्येतस्याद्विर्वचनमनिट्त्वमुपधादीर्घत्वं ढत्वं च निपातनात्। मीढ्व॑स्तो॒काय॒ तन॑याय मृड (ऋ० २.३३.१४)। एकवचनमतन्त्रम् ॥ कृञादीनां के द्वे भवत इति वक्तव्यम्॥ क्रियतेऽनेनेति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च <<घञर्थे कविधानम्०>> (३.३.५८. वा०) इति कः प्रत्ययः॥ चरिचलिपतिवदीनां द्वित्वमच्याक्चाभ्यासस्य॥ चरादीनां धातूनामचि प्रत्यये परतो द्वे भवतः। अभ्यासस्यागागमो भवति। अगागमविधानसामर्थ्याच्च हलादिशेषो न भवति। हलादिशेषे हि सत्यागमस्यादेशस्य च विशेषो नास्ति। चराचरः। चलाचलः। पतापतः। वदावदः॥ वेति वक्तव्यम्॥ तेन चरः पुरुषः, चलो रथः, पतं यानम्, वदो मनुष्य इत्येवमाद्यपि सिद्धं भवति ॥ हन्तेर्घत्वं च॥ हन्तेरचि प्रत्यये परतो द्वे भवतोऽभ्यासस्य च हकारस्य च घत्वमाक् चागमो भवति। परस्य <<अभ्यासाच्च>> ७.३.५५ इति कुत्वम्। घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् (ऋ० १०.१०३.१)॥ पाटेर्णिलुक् चोक् च दीर्घश्चाभ्यासस्य॥ पाटेरचि परतो द्वे भवतो णिलुक् च भवति। अभ्यासस्य चोगागमो दीर्घश्च भवति। पाटूपटः॥
एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) ।<!वन उपसंख्यानम् !> (वार्तिकम्) ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ॥
दाश्वादीनां प्राचुर्येण च्छन्दसि प्रयोगदर्शनाच्छान्दसमेतत्सूत्रमिति मन्यमानं प्रत्याह -अविशेषेणेति। विशेषानुपादानादिति भावः। परस्मैपदमिति। भौवादिकस्यात्मनेपदित्वात्, चौरादिकस्य तु ठा धृषाद्वाऽ इति णिजभावपक्षे दीर्घत्वमनिट्त्वं च निपात्यत इत्यन्ये। मीढवस्तोकायेति।'मतुवसोः' इति नुमो रुत्वम्। किं पुनः सामर्थ्यम्? इत्याह -हलादिशेषे हीति। चराचर इति। दीर्घोच्चारणसामर्थ्याद् ह्रस्वो न भवति। णिलुक्चेति।'णोरनिटि' इति णिलोपे सिद्धे पुनर्वचनं प्रत्।ययलक्षणेन पुनर्वृद्धिर्मा भूदिति। पाटूअपट इति। पूर्ववद्धलादिशेषाभावो ह्रस्वत्वाभावश्च। दीर्घोच्चारणादेव ठब्यासस्यानचिऽ इति वचनाद्वा उभयत्रापि हलादिशेषाभावः। अभ्यासस्य यदुच्यते तदचि न भवतीत्यर्थः ॥