अञ्चेर्लुक्

5-3-30 अञ्चेः लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः

Sampurna sutra

Up

दिक्शब्देभ्यः अञ्चेः अस्तातेः लुक्

Neelesh Sanskrit Brief

Up

'अञ्च्' धातुः यस्य अन्ते अस्ति, तादृशेभ्यः दिशावाचिभ्यः शब्देभ्यः विहितस्य 'अस्ताति' प्रत्ययस्य लुक् भवति ।

Kashika

Up

अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्यास्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। <<लुक् तद्धितलुकि>> १.२.४९ इति स्त्रीप्रत्ययोऽपि निवर्तते। प्राग् वसति। प्राग् आगतः। प्राग् रमणीयम्। प्रत्यग् वसति। प्रत्यग् आगतः। प्रत्यग् रमणीयम्॥

Siddhanta Kaumudi

Up

अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि <{SK1408}> ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः <<दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः>> 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य वर्तमानसूत्रेण लुक् विधीयते । प्रारम्भे 'अञ्च्' इति किम् तत् पश्यामः । 'अञ्च्' (अञ्चुँ गतौ) इति भ्वादिगणस्य कश्चन धातुः । यदि अयम् धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः <<ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च>> 3.2.59 इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिशावाचकशब्दाः सिद्ध्यन्ति । यथा - 1) प्र + अञ्च् + क्विन् → प्राच् । 'पूर्वः' इत्यर्थः । 2) प्रति + अञ्च् + क्विन् → प्रत्यच् । 'पश्चिमः' इत्यर्थः । 3) उद् + अञ्च् + क्विन् → उदच् । 'उत्तरः' इत्यर्थः । एते त्रयः अपि शब्दाः 'अञ्चुँ' इत्यन्ताः सन्ति अतः 'उगितः' सन्ति । अतः एतेषाम् प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते । अस्यां स्थितौ <<उगितश्च>> 4.1.6 इत्यनेन एते सर्वे शब्दाः ङीप् प्रत्ययं स्वीकुर्वन्ति । यथा - 1. 'प्राच्' शब्दस्य स्त्रीत्वे - = प्र + अच् + ङीप् [<<उगितश्च>> 4.1.16 इति ङीप्] → प्र + च् + ई [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रा + च् + ई [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → प्राची । यथा - प्राची दिक् । पूर्वदिशा - इत्यर्थः । स्मर्तव्यम् - देशस्य कालस्य वा विशेषणरूपेण तु 'प्राच्' इति मूलशब्दः एव प्रयुज्यते, तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः । यथा - प्राङ् देशः, प्राङ् कालः । (प्रथमैकवचनस्य रूपे <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः, तथा च <<चोः कुः>> 8.2.30 इति कुत्वम् विधीयते)। एवमेव - 2) 'प्रत्यच्' शब्दस्य स्त्रीत्वे - = प्रति + अच् + ङीप् [<<उगितश्च>> 4.1.16 इति ङीप्] → प्रति + च् + ई [<<अचः>> 6.4.138 इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रती + च् + ई [<<चौ>> 6.3.138 इति अङ्गस्य दीर्घादेशः ] → प्रतीची । यथा - प्रतीची दिक् । पश्चिमदिशा - इत्यर्थः । देशस्य कालस्य वा विशेषणरूपेण तु 'प्रत्यच्' इति मूलशब्दः एव प्रयुज्यते । यथा - प्रत्यङ् देशः, प्रत्यङ् कालः । (प्रथमैकवचनस्य रूपे <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः, तथा च <<चोः कुः>> 8.2.30 इति कुत्वम् विधीयते)। तथैव - 3) 'उदच्' शब्दस्य स्त्रीत्वे - = उद् + अच् + ङीप् [<<उगितश्च>> 4.1.16 इति ङीप्] → उद् + ईच् + ई [<<उद ईत्>> 6.4.139 इति अकारस्य इकारादेशः] → उदीची । यथा - उदीची दिक् । उत्तरदिशा - इत्यर्थः । देशस्य कालस्य वा विशेषणरूपेण तु 'उदच्' इति मूलशब्दः एव प्रयुज्यते । यथा - उदङ् देशः, उदङ् कालः । (प्रथमैकवचनस्य रूपे <<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इति नुमागमः, तथा च <<चोः कुः>> 8.2.30 इति कुत्वम् विधीयते)। एतादृशम् निर्मिताः 'प्राची, प्राच्, प्रतीची, प्रत्यच्, उदीची, उदच्' एते सर्वे शब्दाः दिशावाचकाः सन्ति । एतेषाम् सप्तम्यन्तात् / पञ्चम्यन्तात् / प्रथमान्तात् स्वार्थे विहितस्य 'अस्ताति' प्रत्ययस्य लुक् भवति । यथा - 1. प्राच्यां दिशि / प्राच्यः दिशः / प्राची दिक् = प्राच्याम् / प्राच्यः / प्राची + अस्ताति → प्राची + अस्ताति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → प्राची ['अस्ताति'प्रत्ययस्य लुक्] → प्राच् [<<लुक् तद्धितलुकि>> 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते । सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति । अस्य <<तद्धितश्चासर्वविभक्तिः>> 1.3.38 इति अव्ययसंज्ञा विधीयते ।] → प्राच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः ] → प्राच् [<<अव्ययादाप्सुपः>> 2.4.82 इति सुँ-प्रत्ययस्य लुक्] → प्राक् [सुँ-प्रत्ययस्य लुकि अपि <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा । अतः <<चोः कुः>> 8.2.30 इति पदान्तचकारस्य कुत्वे ककारः] → प्राग् [<<झलां जशोऽन्ते>> 8.2.39 इति पदान्तककारस्य जश्त्वे गकारः] उदाहरणम् - 'प्राग् वसति' (= प्राच्यां दिशि वसति) । प्राग् आगतः (प्राच्यः दिशः आगतः) । विशेषः - देशस्य तथा कालस्य विशेषणरूपेण यत्र 'प्राच्' शब्दः प्रयुज्यते, तत्रापि 'प्राच्' शब्दात् अस्ताति-प्रत्यये प्राप्ते तस्य लुक् कृत्वा 'प्राग्' इत्येव रूपम् सिद्ध्यति । यथा - 'प्राचि काले' / 'प्राचि देशे' / 'प्राचः कालात्' / 'प्राचः देशात्' / प्राङ् कालः / प्राङ् देशः = प्राग् । अस्यापि प्रक्रिया समाना एव, परन्तु तत्र स्त्रीप्रत्ययविशिष्टः अंशः नास्ति । 2. प्रतीच्यां दिशि / प्रतीच्यः दिशः / प्रतीची दिक् / प्रतीचि देशे / प्रतीचः देशात् / प्रत्यङ् देशः / प्रतीचि काले / प्रतीचः कालात् / प्रत्यङ् कालः = प्रत्यग् । अस्यापि प्रक्रिया 'प्राक्' शब्दवदेव भवति । इत्युक्ते - [अ] 'प्रतीची' शब्दस्य विषये 'अस्ताति' प्रत्ययस्य लुकि कृते ङीप्-प्रत्ययस्य <<लुक् तद्धितलुकि>> 1.2.49 इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः 'प्रति + अच्' इत्येव अवशिष्यते । अग्रे यणादेशं कृत्वा 'प्रत्यच्' इति प्रातिपदिकम् सिद्ध्यति । 'प्रत्यग्' इति तस्य प्रथमैकवचनम् । [आ] पुंलिङ्गनपुंसकलिङ्गयोः 'प्रत्यच्' शब्दस्य विषये तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे 'प्रत्यग्' इति अव्ययं सिद्ध्यति । 3. उदीच्यां दिशि / उदीच्यः दिशः / उदीची दिक् / उदीचि देशे / उदीचः देशात् / उदङ् देशः / उदीचि काले / उदीचः कालात् / उदङ् कालः = उदग् । अस्यापि प्रक्रिया 'प्राक्' शब्दवदेव भवति - [अ] 'उदीची' शब्दस्य विषये 'अस्ताति' प्रत्ययस्य लुकि कृते अङ्गस्य ङीप्-प्रत्ययस्य <<लुक् तद्धितलुकि>> 1.2.49 इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः 'उद् + अच्' इत्येव अवशिष्यते । अग्रे वर्णमेलनं कृत्वा 'उदच्' इति प्रातिपदिकम् सिद्ध्यति । 'उदग्' इति तस्य प्रथमैकवचनम् । [आ] पुंलिङ्गनपुंसकलिङ्गयोः 'उदच्' शब्दस्य विषये तु तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे 'उदग्' इति अव्ययं सिद्ध्यति । अनेन प्रकारेण अस्मिन् सूत्रे 'प्राग्, प्रत्यग्, उदग्' एतेषां त्रयाणां शब्दानां सिद्धिः दत्ता अस्ति ।

Balamanorama

Up

<<अञ्चेर्लुक्>> - अञ्चेर्लुक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक् ।

Padamanjari

Up

अञ्चत्यन्तेभ्य इति। केवलेभ्यः, लिङ्गविशिष्टेभ्यश्च। स्रीप्रत्ययोऽपि निवर्तत इति। एवं चाकारलोपः,'चौ' इति दीर्घत्वं च नास्तीति, प्रागित्यत्र सवर्णदीर्घत्वम्, प्रत्यगित्यत्र यणादेशः ॥